पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड: प्रभा. भ्रमस्थले न शाब्दप्रमानुपपत्तिरित्यर्थः । तथाच आसत्तिभ्रमस्य न शब्दभ्रमजनकत्वं मानाभावात् किन्तु यो. ग्यताभ्रमस्यैव । प्रकृते घटपदार्थे नीलपदार्थवत्वज्ञानस्य प्रमात्वेन भ्रमरूपत्वाभावात् जायमानशाब्दबोधस्य भ्रमत्वाभावेऽपि न क्षतिः । एनंच आसात्तिभ्रमात् शाब्दभ्रम इति प्रवादस्य नियुक्तिकत्वादनादेयत्वमिति भावः । नच उक्तासत्तेः लोकपटकतत्तत्पदयोरभावात् अभ्रान्तस्य तज्ज्ञानासंभवेन तत्र शाब्दबोधानुपपत्तिरिति वाच्यं इष्टापत्तेः योजनावाश्यादेवाभिमत शाब्दबोधस्वीकारात् । एवं मौनिश्लोकस्थले पदाभावेऽपि तत्तत्पदाव्यवधा• नानुसन्धानादेव शाब्दबोध सम्पादनीयः । नव्यास्तु निरुक्ताब्यवधानरूपासत्तिज्ञानविलम्वेन शाब्दबोधविळम्ब . स्य काप्य दर्शनेन प्रमाणाभावात् शाब्दबोधे निरुका सत्तिज्ञानं न कारणं किन्तु तत्तत्पदार्थविषयकशाब्दबोधे वृत्ति , ज्ञानसहकृतपदज्ञान जन्यतत्तदर्थस्मृतेः कारणत्वस्य कप्ततया तादृशस्मृतिरेवासत्तिरित्याहुः तन्न घटःकर्मत्वमान. यनकृतिरितिवाकरघटकनिराकालयट पदकर्मत्वादिपदविषयवृत्तिज्ञान सहकृतज्ञानजन्यघटकर्मत्वादिविषयक : स्मृतितः अभ्रान्तस्य घटकर्म का नयनानुकूलकृतिमानितिशाब्दबोधापत्तिवारणाय तत्तदर्थविषयकशाब्दबोधं प्रति वृत्तिज्ञानसहकृतसाकासपदज्ञानजन्यतत्तदर्थमृतः कारणत्वमावश्यकम् । एवं गिरि(क्तमग्निमान देवद- तेनेत्यादिवाक्य घटकानासन्नागिरि पदाग्निमत्यदविषयकवृत्तिज्ञान सहकृतज्ञानजन्यपर्वतवयादिविषयकस्मृतितः अभ्रान्तस्य वहि मदभिनः पर्वत इत्याकारकशाब्दबोधापत्तिवारणाय तत्तदर्थविषयकशाब्दबोधे वृत्तिज्ञानसह- कृतनिरुक्तासत्तिमत्पदज्ञानजन्यतत्तदर्थस्मृतेः कारणत्वमावश्यकं । एवंच वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थ- स्मृतित्वेन व्यापारविधया कारणतं साकामदज्ञानजन्यस्वघटितरूपेण निरुक्तामत्तिमत्पदज्ञानघटितरूपेण च स्मृतः पृथकारणत्वं पदार्थरमृतौ च साक्षात्पदज्ञानत्वेन निरुक्तासत्तिमत्पद ज्ञानत्वेन च हेतुत्वमिति अन. न्तकार्यकारणभावकल्प नापेक्षया लाघवेन पदार्थस्मृतिहेतुतया अभिमतसाका पदज्ञानत्वावच्छिन्ननिरुक्तास त्तिमत्वदज्ञानत्वावच्छिन्नयोः शाब्दबोधे हेतुत्वस्यैवोधितत्वात् । एतदभिप्रायेणैव आसत्तिज्ञानादेः शाब्दबोध- हेतुत्वं विश्वनाथपश्चाननेनाङ्गीकृतामिति हृदयम् । ननु निस्कासत्तिम पदज्ञानस्य शाब्दबोधहेतुत्वे छत्री कुण्डली वा. सस्वी देवदत्त इत्याद्यनेकविशेषणवाचक्रपदघटितवाक्यस्थले निरुक्तासतिमत्सदज्ञानासंभवेन शाब्दबोधानुपप- तिरित्याशङ्कते ॥ नन्विति ॥ यत्रेति ॥ यशवोधे तात्पयविषये सतीत्यर्थः । यादृशबोधे तात्पर्येणवेति दिनकरीयम् . त्तिभ्रमस्य न शाब्दभ्रमप्रयोजकत्वं किन्तु योग्यताश्रमस्य। आसत्तिनमाच्छाब्दभ्रम इति प्राचीनगाथा तु नि- युक्तिकत्वादश्रद्धेयेति भावः । क्वचि पुस्तके न शाब्दयोध इत्य नन्तरं नीलो घट इत्यतः पूर्व तात्पर्यगर्भासत्ति- रिति पाठः । स च यत इत्यादिपूरणेन यतस्तात्पर्यगर्भा तात्पर्यविषयीभूतान्वयवोधाविषयीभूतार्थवोधकप- दाव्यवधानरूपा पूर्वनिरुक्तासत्तिरतो न शाब्दबोध इत्यर्थकतया व्याख्येयः । पाठान्तरं काल्पनिकमिति। न चो- काया आसत्तेः श्लोकेऽभावाद्विशेषदर्शने पदाव्यवधानभ्रमस्यापि तत्राभावाच्छाब्दबोधो न स्यादिति वाच्यम् । श्लोकादौ योजनावाक्यादेवान्वयवोधोपगमात् । नव्यास्तु उक्तासत्तिमौनिश्लोके न सम्भवति । तन्न पदाभा- वेन पदाव्यवधानासम्भवात् उक्तासत्तिज्ञानविलम्वेन शाब्दबोधविलम्बाभावाच । किन्त्वव्यवधानेन वृत्त्या पदजन्यपदार्थोपस्थितिरासत्तिस्तत्राप्यव्यवधानांशो न निःश्यते । शाब्दबोधं प्रति पदजन्य पदार्थोपस्थिते: कारणतयाव्यवधानेनैव तत्सम्भवात् । तस्मात्या पदजन्यपदार्थोपस्थितिराखत्तिरित्याहुः । नन्वव्यवधानेन रामरद्रीयम् . स्येति व्युत्पत्त्या प्रमाप्रयुक्तशाब्दयोधस्येत्यर्थः । इदञ्च भातवर्णनमेव प्रकृतग्रन्थे तयोरभावात् । तथाच त्र- मप्रयुक्तासत्तरेव तन्त्र शाब्दबोधो न तु प्रमाप्रयुक्तास तेरपीति अन्धतात्पर्यमिति भावः ॥ श्लोके इति ॥ तत्र क्रियाकारकपदयोः पदान्तरेण व्यवधानेऽपि शाब्दबोधस्यानुभवसिद्धत्वादिति भावः ॥ पदाव्यवधानेति इत्थं चैतदनुपदस्यैवासत्तिज्ञानमेव शाब्दबोधे कारणमीकरिष्यामः । न तु स्वरूपसत्या आसत्तेरिति शङ्कानि- रासायैवेत्युक्तम् । तेन प्रन्धकृता स्वरूप सत्या आसत्तेः कारणत्वोपगमेऽपि नैतद्ग्रन्थासङ्गतिरित्यवधेयम् ॥ यो- जनावाक्यादिति ॥ शाब्दबोधोपपतये अव्यवहितोचरितकियाकारकपदादेवेत्यन्वयः ॥ अव्यवधानेनैव