पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावळी [शब्दखण्ड: चान्वयबोध इति । इत्थंच समासे न क्वापि शक्तिः । पदशक्त्यैव निर्वाहादिति ॥ प्रभा वधारणार्थ कत्यादिति भावः ॥ अन्वयवोध इति ॥ अभेदसंबन्धेन कुम्भसंवन्धिविशिष्टं समीपं अभेदसंब. न्धेन पिप्पली संबन्धिविशिष्टं अर्धमिति च शाब्दबोध इत्यर्थः । यद्यपि राज पुरुष इत्यादितत्पुरुषे लक्षणाचा नि.. राकृतत्वादिदानी अर्धपिप्पलीत्यादित पुरुष लक्षणानिराकरणं पुनरुक्तं तथापि राजपुरुष इत्यादी पूर्वपदलक्ष. णया समासलक्षणा निराकृता अर्धपिप्पलीत्यादौ तु उत्तरपदलक्षणया सा निराक्रियत इति न पौनरुत यमि- ति हृदयम् । परेतु उपकुम्भमित्यादौ कुम्भादिपदलक्ष्यार्थकुम्भादिसंबन्धिनः उगद्यर्थै कदंशसामीप्यादावभेदे- नान्वयः नतु समीपे तथा सत्युपपदार्थसमीपत्वावच्छिन्ने कुम्भपदलक्ष्यार्थस्य कुम्भसामीप्यरूपकुम्भसंव- न्धविशिष्टस्याभेदेनान्वयस्य वक्तव्य तया सामीप्यस्य द्विधा भानापत्तेः । अस्मन्मते तु कुम्भपदस्य कुम्भनि- रूपिते लक्षणास्वीकारेण कुम्भनिरूपिताभिन्नसामीप्यवदिति बोधस्यैव जायमानतया सामीप्यस्य द्विधा भाना- पत्तेरभावात् । नचैवं पदार्थः पदार्थेनान्वेती त्यादिव्युत्पत्तिविरोध इति वाच्यम् । ससंबन्धिकातिरिक्तस्थल एव तादशव्युत्पत्तिस्वीकारादित्याहुः तन्न उपपदस्य ससंबन्धिकपदत्वे प्रमाणाभावात् उपकुम्भामिति वाक्यात शाब्द. वोधानापत्तेच कुम्भनिरूपिताभिन्न सामीप्यनिष्टप्रकारतानिरूपितविशेष्यताया निरवच्छिन्नत्वेन ( निर्धर्मिताव- च्छेदकतर्ववच्छिन्नत्वेन ) निर्धर्मितावच्छेदक कानुमितरिव तादृशशाब्दबोधस्याप्योकत्वात ! नच तादृशसामी- प्यावच्छिन्नविशेष्यककुम्भपदसमभिव्याहतैकवचनार्थ कत्यप्रकारकशाब्दबोधस्य समितावच्छेदकतया ना. नुपपत्तिारति वाच्यम् तथापि तादृशकवचनज्ञानाधानकत्यानुपस्थितिदशायामनुभवसिद्धतद्वाक्य जन्यशाब्द- बोधानुपपत्तेर्दुरित्वात् । यच्चोक्तं सामीप्यस्योद्देश्य तावच्छेदकतया विधेयतावच्छेदकतया च भानस्वीकारस्या- प्रामाणिकतया घटो घट इति वाक्यस्येव उपकुम्भग्निति दाक्यस्याप्रामाण्यापत्तिरिति तदपि न घटो नीलघट इति वाक्यस्थल इव विधेयतावच्छेदककोटावधिकायगाहिशाब्दबोधस्य सर्वानुमततया प्रामाणिकत्वेन तादृशवाक्य. स्याप्रामाण्यापत्त्यभावादिति । परेतु उपकुम्भमित्यादौ उपपदार्थस्सामीप्य तत्र कुम्भपदशक्यार्थकुम्भस्य नि. रूपितत्व संबन्धनान्वयः उपपदस्य निपाततया तदर्थे भेदसम्बन्धेन अन्वये निपातातिरिक्तनामार्थयोरित्यादि- व्युत्पत्तिभङ्गाभावात् एवंच निरूपितत्वसम्बन्धन कुम्भविशिष्टं सामीप्यमिति बोधः । संबन्धप्रकारकबोधस्यानुभ- वसिद्धत्वे तु तदर्थ कुम्भपदस्य कुम्भनिरूपितत्वात्मककुम्भसंबन्धे लक्षणा वाच्या एवच कुम्भसंबन्धविशिष्टसा- मीप्यमित्यन्वयबोध इलाहुः तन्न तथा सति उपकुम्भमिति वाक्यात् सर्वानुभवसिद्धसमीपविषयकशाब्दबोधाप. लापापत्तः । अन्येतु उपकुम्भामित्यादी उपपदार्थसामीप्यस्य कुम्भपदार्थेन सहान्वये अनुभवसिद्धसमीपविषय- कशाब्दबोधानुपपत्तेः तादृशशाब्दबोधनिर्वाहाय उपपदस्य सामीप्यविशिष्टे लक्षणास्वीकारे सर्वपदलाक्षाणिकतया अननुभावकत्वापत्तेः अतः कुम्भपदस्यैव कुम्भसमीपे लक्षणा उपपदं तात्पर्य ग्राहकमित्येव वाच्यम् एवञ्च कुम्भ दिनकरीयम्. समीपमिति चान्वयबोध इत्याहुः । अत्र याप्यधपिप्पलीति तत्पुरुष शक्तिनिराकरणं पुनरुक्तं पूर्व तत्पुरुषे तनिरासात् । तथापि पूर्वमुत्तरपदार्थप्रधानरान पुरुषादी तनिराकरणं पूर्वपदलक्षणया इहच पूर्वपदार्थप्रधा- नेऽर्धपिप्पलीत्यादितत्पुरुषे उतरपदलक्षणम्रा तन्निराकरणमिति भेदादपौनरुक्त्यमिति ध्येयम् । वैया- करणमतं दूषयति ॥ इत्थं चेति ॥ पदशक्तयेवेति ॥ समासघटकीभूतपदशक्तिलक्षणाभ्यामित्यर्थः ॥ रामरुद्रीयम् . स्यैव कुम्भसमीपार्थकत्वेन न कुम्भसमीपमित्यन्वयबोधाकारः। किन्तु स्मरणमेवेसन्वयबोध इत्यसङ्गतम् । त- पाप्यव्ययोत्तरमपि विभक्तिसत्त्वेन तदर्थसङ्खयाप्रकारकयोगतात्पर्येण कुम्भसमीपमेकामति शाब्दबोध इत्याभि- प्रायः । आहुरित्यखरसोद्भावनम् । तदीजन्तु समासानन्तर्भावेन काप्युपपदस्य प्रयोगाभावेन उपपदस्य सामीप्यार्थकताया निश्चतुमशक्यतयास्वपदविग्रहस्थलेऽपि समासान्तर्गतपदान्तरेणैव विग्रहवाक्यवीकाराच समीपपदस्य सामीप्यविशिष्टार्थकतया उपपदस्यापि तदर्थकताया एवोचितत्वात् । सम्भवति सार्थकत्वे किश्चित्पदस्व निरर्थकताकल्यनमयुक्तमिति मन्तव्यम् ॥ शक्तिनिराकरणमिति ॥ यद्यपि राजपुरुष इ.