पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-राम यसमन्विता । ५९९ नच प्रभा. लक्षणेपपत्तिः । एवं चित्रगुरित्यादिसमासवाक्ये एकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रा गौरिति वाक्यस्यापि सत्त्वेन तद्बोध्यचित्राभिन्नगोसंबन्धस्य चिनगोस्वामिनि सत्त्वात् लक्षणोपपत्तिरिति क्रमेण स. र्वत्र वाक्यलक्षणयैव निर्वाहे तादृशसमुदायघटकैकपदस्य लक्षणाकल्पनं अपरपदस्य तात्ययप्राहक्र- त्ववर्णनमनुचितं परन्तु लक्षणाशरीरे शक्यस्यैतन्मते शक्यत्वेन न निवेशः किन्तु स्वबोध्यत्वेने- त्येव विशेष इत्याहुः तन्न स्वबोध्यसंबन्ध इत्यन स्वबोध्यत्वं न स्वनिष्ठयोधकतानिरूपितबोध्यत्वं मौनिश्लोकस्थले पदाभावेन स्वबोध्याप्रसिद्ध किन्तु स्वविषयकज्ञानजन्यज्ञानविषयत्वरूपं वाच्यं त. था सति गङ्गायामिति सप्तम्यन्त ज्ञानेनापि प्रवाहोपस्थितिसंभवेन तत्संबन्धितीरे तादृश सप्तम्यन्तस्यापि लाक्षणिकत्वापत्तेः । तत्त्वावच्छिन्नविषयताशालिज्ञानजन्य ज्ञानस्य स्ववोध्यत्वशरीरे निवेशात् नैष दोषः सप्तम्यन्तसमुदायत्वावच्छिन्नविषयकज्ञानस्य प्रवाहोपस्थित्यहेतुत्वादिति वाच्यम् । एवम- पि अपभ्रंश शब्दत्वावच्छिन्नविषयकज्ञानस्यापि शक्तिनमसहकृतस्यार्थस्मारकतया तादृशार्थ संबन्धि- नि लाक्षणिकत्वापत्तेः । नचेष्टापत्तिः तादृशशब्दस्यापि वृत्तिमत्त्वेन साधुत्वापत्तेः । नच शक्तिप्रमासह- कृततादृशज्ञानस्य लक्षणाघटकत्वान्नापभ्रंशशब्दस्य साधुत्वामिति वाच्यम् । तथा सति वाक्ये शक्त्यभा- धेन शक्तिप्रमासहकृतवाक्यत्वावच्छिन्नविषयताशालिज्ञानजन्यज्ञानाप्नसिया तद्धार्दतलक्षणाप्रसिद्धेर्दुवार. स्वात् । नच वाक्यलक्षणावादिमते नद्यामिति सप्तम्यन्तसमुदायस्यापि लाक्षणिकत्वस्येष्टत्वात् शब्द. निष्ठविषयताया तत्त्वावच्छिनत्वनिवेशे प्रयोजनाभावेन पदसमुदायरूपवाक्यविषयकज्ञानस्यापि प्रत्येकपद- शक्तिप्रमासहकृतस्य तत्तदर्थस्मारकतया वाक्यस्यापि लाक्षणिकत्वं दुर्वासमिति वाच्यम् तथापि श- क्यसंबन्धापेक्षया शक्तिप्रमासहकृतशब्दज्ञानजन्यज्ञानविषयसंवन्धस्य गुरुत्वेन लक्षणात्वानकारात् । न दिनकरीयम्. खामिनि सत्त्रादित्याहुः । तन्न । स्वबोध्यत्वं हि न स्वजन्यबोधविषयत्वम् । गङ्गायां घोष इत्यादी गङ्गाया- मित्यस्यापि लाक्षणिकत्वापत्तरतस्तत्त्वेन बोधकत्वं वाच्यम् । न चैतावतापि निर्वाहः अपभ्रंशस्यापि लाक्ष- गिकत्वापत्तेरतस्तत्त्वावच्छिन्ना या शक्त्यवच्छिन्ना बोधकता सैव निवेश्या । तथाच कथं वाक्यस्य लक्षकत्वम् । रामरुद्रीयम्. त्यर्थः। वाक्यजन्यवोधस्तु शाब्दबोधरूप एवेति भावः ॥ गङ्गायामित्यस्यापीति ॥ गङ्गायां घोष इत्यत्र गङ्गा. पद एव लक्षणा सर्वानुमता नतु गङ्गायामिति वाक्ये पदलक्षणायामनुपपत्तरभावात् गङ्गायामिति वाक्य- जन्यस्यापि गङ्गातीरवृत्तिरिति शाब्दबोधस्य गङ्गाविषयकत्वात्तत्सम्बन्धस्य तारे सत्त्वात् ताशवाक्यस्यापि तीरे लाक्षणिकत्वापत्तिरिति भावः । इदश्च गङ्गातीरत्वेन शक्य सम्बन्धग्रहह्मभिप्रेत्योक्तम् । तीरत्वेन तथात्वे तु प्रवाहस्य न वाक्यजन्यबोधविषयत्वमित्यवधेयम् । तत्वेनेति ॥ यादृशानुपूर्व्यवच्छिन्नस्य लक्षकत्वमाभिः मतं तादृशानुपूर्व्यवच्छिन्नजनकतानिरूपितजन्यताशालिवोधविषयसम्बन्ध एवं तादृशानुपूर्व्यवच्छिन्नस्य लक्ष. णा वाच्येति भावः । एवंच गङ्गायामित्यानुपूर्वी शाब्दबोधजनकतावच्छेदिकेति न वाक्यलक्षणापत्तः । यद्यपि गलातीरवृत्तिरित्याकारकशाब्दबोधं प्रत्याकाङ्काशन विधया गझापदोत्तरसप्तमीरूपसमाभिव्याहारज्ञानस्य कारणत्वमावश्यकम् । अन्यथा सप्तम्थुत्तरगङ्गापदज्ञाने तादृशशाब्दबोधापत्तेः । तथापि तादृशानुपूर्व्यवच्छि, प्रविषयकज्ञानमेव शाब्दबोधजनकं न तु तादृशानुपूर्व्यवच्छिन्नमेवेति नेदानी वाक्यलाक्षणिकत्वापत्तिरिति भावः । न चैव पदज्ञानमेव शाब्दबोध कारणं न तु पदमिति तदानुपूर्व्यवच्छिन्नजनकतानिरूपितजन्यताशा- लिबोधाप्रसिद्धया पदस्थापि लाक्षणिकत्वानुपपत्तिरिति वाच्यम् । ज्ञायमानपदस्य करणत्वामित्रायेणेतदभि- धानात् । ननु मौनिश्लोकादौ पदाभावेऽपि शाब्दबोधोत्पत्त्या मतमिदं न विचारसहमिति तादृशानुपूर्थ्यव- च्छिन्नज्ञानजन्यबोधविषयसंबन्ध एव तादृशानुपूर्व्यवच्छिन्नस्य लक्षणेत्यवश्यमशीकरणीयम् । तथाचागतमेव वाक्यस्य लाक्षणिकत्वमित्यत आह ॥ न चैतावतेति ॥ तत्त्वावच्छिन्नेति ॥ तत्त्वं तादृशानुपूर्वी तदव च्छिन्ना तन्निष्ठावच्छेदकतानिरूपिका शक्त्यवच्छिन्ना विषयितासम्बन्धावच्छिन्नशक्तिनिष्ठावच्छेदेकतानिरूपिका