पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९० कारिकावली [शब्दखण्ड न्तीत्यादौ छत्रिपदस्थैवैकसार्थवाहित्वे लक्षणा । इयमेवाजहत्स्वार्थलक्षणेत्युच्यते । एकसार्थ- THI. अजहरस्वार्थायाः उदाहरणान्त रमाह ।। एवामिति ॥ छत्रिणो गच्छन्तीति ॥ योद्धमित्यादिः ॥ इ. त्यादौ छत्रिपदस्येति ॥ तादृशवाक्य घटकच्छत्रिपदस्थेत्यर्थः । एवकारेणान्तःपुरं छत्रिणो गच्छन्तीति वाक्य- घटकच्छत्रिपदस्य लक्षणाव्यवच्छेदः ॥ एकसार्थवाहित्व इति ॥ एकसार्थवाहत्वविशिष्ट इत्यर्थः । छत्रिप. दातिमजतुरगादिघटितसमुदायत्वावच्छिन्न इति फलितोऽर्थः । इयमेवेति ॥ शक्यसाधारणधर्मावच्छिन्नलक्षणे- वेत्यर्थः ॥ अजहत्स्वार्थलक्षणेति ॥ न जह्यते न त्यज्यते स्वार्थः स्वशक्यार्थः ययेति व्युत्पत्त्या शक्यसा- धारणलक्षणाया एव अजहत्स्वार्धशब्दार्थत्वादिति भावः ।। उच्यत इति ॥ तान्त्रिकैरित्यादिः । तान्त्रि- दिनकरीयम् . ति॥ दध्युपधाल के काकबिडालादिसाधारणध्युपघातकत्वविशिष्टे । एकसार्थवाहित्वे एकसार्थवाहित्य. विशिष्टे । छतिपदलक्षणाभिधानं च वाक्यलक्षणावादिमताभिप्रायेण । न्यायमते तु छत्रपदस्यैव एकसार्थवाहित्वे रामरुद्रीयम् . लक्षणानुपपत्तिरूपास्वर सादित्यर्थः ॥ मूले एकसार्थवाहित्वेनेति ॥ एकस्सार्थः समुदायत्वं तद्विषयकवुद्धि विषयत्वरूपम् ॥ तद्वाहित्येन तद्वत्त्वेनत्यर्थः । तृतीयार्थोऽवन्छिन्नत्वं तस्य च लक्षणापदार्थ लक्ष् पता यामन्व. यो बोध्यः ॥ मूले इयमेन चेति ॥ काकपदस्य दध्युपपातके छत्रिपदस्य छविघटित समुदाये लक्षण- व चेत्यर्थः । क्वचिन्मूले एकसार्थवाहित्वे लक्षणेति पाटो दृश्यते । तदभिप्रायेण व्याचष्टे । एकसार्थ- घाहित्वविशिष्ट इति ॥ ननु छत्रीत्यस्य मूलोकलक्षणा न सङ्गच्छते । छत्रमस्यास्तीत्यर्थे छत्रपदोत्तरं तद्धितेनिप्रत्ययेनैव छत्रीत्यस्य निष्पन्नतया प्रकृतिप्रत्ययसमुदायरूपत्वेन तस्य वाक्य त्वाद्वाक्ये च शक्तिविरहेण लक्षणाया अप्यसम्भवादित्यत आहे ॥ छत्रीत्यादि ॥ वाक्यलक्षणाचादिमतेति ॥ वैयाकरणैः राजपुरुषादिसमासस्य राजस्वत्ववत्पुरुषे पाचकच्छत्र्यादिपदस्य पाककर्तृच्छत्रसम्बन्ध्यादौ श. केरङ्गीकारादिति भावः । ननु नेदं मतं विचारसहम्। समासे राजपदस्य राजसम्बन्धिनि लक्षणया पुरुषपदस्थ पुरुषे शक्त्या च राजसम्बन्ध्यभिन्नः पुरुष इति बोधोपपत्तौ समासे स्वतन्त्रशकिकल्पने छज्यादौ च छत्रार्थकच्छत्रपदसम्बन्ध्यर्थकेनिप्रत्याभ्यामेव छत्रसंबन्धीति बोधोपपत्तौ छलीत्यस्य छलसंबन्धिनि श. क्तिकल्पने च बीजाभावात् अन्यथा निरर्थकनानाशक्तिकल्पनागौरवप्रसङ्गात् । नच समासादौ शक्तिस्वी- कार आवश्यकः । अन्यथा ऋद्धस्य राजमाता इत्यादिप्रयोगापत्तेः तत्राहि राजमातङ्गपदार्थतावच्छेदके राजन्यभेदेन ऋद्धपदार्थस्यान्वयो न सम्भवति । पदार्थः पदार्थेनान्वेति न तु पदार्थतावच्छेदकेनेति नियमातू । राजपदस्यैव राजार्थकत्वे तु तत्र बद्धपदार्थस्याभेदेनान्वये न किञ्चिदाधकामिति तादृशप्रयोगो दुर्वार इति वाच्यम् । राजपदस्य राजसम्बन्धिलक्षकतया राज्ञः पदार्थतावच्छेदकत्व संभवाच्छक्यतावच्छेद- कस्येव लक्ष्यतावच्छेदकस्यापि पदार्थतावच्छेदकत्वात् । छत्रीत्यादौ छत्रादौ पदार्थान्तरस्यान्वयबोधाभावस्तु वृत्तस्य न विशेषणयोगो विशेषणयुक्तस्य न धृत्तिरिति समासकृत्तद्धितादिरूपवृत्त्यैकदेशार्थस्य पदार्थान्तरेणा- नन्वयनियमरूपव्युत्पत्त्यन्तरादेवेत्यस्वरसादाह ॥ न्यायमते त्विति ॥ वस्तुतो वृत्त्यैकदेशार्थेऽपि दासशातना- दो चैत्रत्वशरकरणत्वादिरूपपदार्थान्तरस्य भेदसम्बन्धेन चैत्रस्य दासभार्या शरैः शातितपत्र इत्यादौ अ- न्वयबोधदर्शनादभेदसम्बन्धेन तत्र पदार्धान्तरान्वयोऽव्युत्पन्न इत्यवश्यमशीकरणीयम् । तथा चाभेदेना. न्वय प्रयोजकसमानविभक्तिकपदोपस्थाप्यत्वाभावादभेदेनान्वयबोधवारणसम्भबे वृत्तस्येत्यादिव्युत्पत्त्यनजी कारेऽपि न क्षतिः । नच चैत्रस्य पितेत्यादौ पितृपदार्थतावच्छेदकघटकजनकत्वे चैत्रनिरूपित- त्वस्य षष्ठयन्तार्थत्यान्वयदर्शनात पदार्थतावच्छेदकेऽपि अभेदेनैव पदार्थान्तरस्यान्वयोऽव्युत्पन्न इत्यवश्यम- जीकरणीयम् । तथाविधान्वयवोधस्य च समानविभक्ति कपदोपस्थाप्यत्वादेरभावादेव वारणसम्भवे पदार्थः पदार्थेनान्वेतीत्यादिव्युत्पत्तिकल्पनमपि नावश्यकमिति वाच्यम् । तथासति गवि पशुौरित्यादितो गोवृत्ति- लोमलाङ्गुलवान् गौरियादिबोधापत्तिः । चैत्रस्य पितेत्यादौ तु ससम्बन्धिकपदशक्यतावच्छेदकेऽपि पदा.