पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८२ कारिकावली [शब्दखण्डम् प्रभा. च प्रमाणोपन्यासाय न लक्षणघटकता व्यर्थत्वात् । एवञ्च निरुक्त पदघटितशकतावच्छेदकत्वशून्य समुदाय - क यौगिकत्वमिति फलितम् । अपभ्रंशराबदसमुदायनिष्ठ समुदायत्वस्यापि शक्ततावच्छेदकत्वशून्यतया तत्रा. तिव्याप्तियारणाय पदघटितवं समुदायन्वविशेषणं । अपभ्रंशशब्दाना ईश्वरेच्छारूपशक्तिमत्त्वात्मकपदत्वभावा तु नातिव्याप्तिः। पङ्कजपदत्वरूपसमुदायत्वत्वारि पदघटितत्वात् तत्रातिव्याप्तिवारणाय समुदायत्वेशक्तताव - च्छेदकत्वशून्यत्वनिवेशः । न चेदं लक्षणं वाक्य मात्रेऽतिव्याप्तमिति वाच्यम् । कृत्तद्धितसमासभिन्नवाक्यघट कारदानां पृथक् विभक्तिमत्त्वेन विशिष्टवाक्योचारणं विनापि बोधनसमर्थतया अवयवत्वानीकाराम तादृशवा- सत्य यौगिकरवापत्तिः कृत्तद्धितादिवाक्यानां पाचकादिपदवत् यौगिकत्वमिष्टमेवेत्यशायात् । अथवा वा क्यावृत्तित्वेनापि समुदायत्वस्य विशेषणीयत्वात् । नचैवं सति पाचकादिषदस्य पदद्वयघटित समुदायस्वरूपवा - कास्त्र सत्यात उक्तलक्षणमसंभवग्रस्तमिति वाच्यम् ।प्रकृते शाब्दबोधनिष्ठकार्यतानिरूपितपदान्तरविषयकज्ञा- रासह कृतज्ञाननिष्ठकारणतानिरूपितविषयतासंवन्धावच्छिन्नविच्छेदकताश्रयपदद्वयघटितसमुदायत्वरूप वाक्य- त्वस्यवाभिप्रेततया पाच कादिपघटकपधातुकृत्प्रत्ययाभ्यां पदार्थोपस्थितावपि समभिव्याहतपदान्तरमविष. यांकृत्य शाब्दबोधाजननात् पाचकादिपदे निरुक्तपदवघटित समुदायत्वरूप वाक्यत्वाभावेनासंभवाप्रसके। अ न्येतु यावयवार्थ एव बुध्यत इति यादृशपघटकावयवाओं वोधविषय इत्यर्थः एवकारेण अवयवाातिरिक्तस्य शाब्दबोधविषयत्व व्यवच्छेदः तथाचावयवार्थविषयकशाब्दनिष्ठकार्यतानिरूपितज्ञाननिष्ठकारणतानिरूपितविष- यतासंबन्धावच्छिनावच्छेदकताअयपघटितं अवयवार्थतावच्छेदकान्यधर्मावच्छिन्नविषयताशालिशाब्दनिष्ट. कार्यतानिरूपितज्ञाननिष्ठकारणतानिरूपितविषयतासंबन्धावच्छिन्नावच्छेदकतानवच्छेदकं च यत्समुदायत्वं तद्व- र यौगिकत्वमिति फलितम् । पाचकपदत्वावच्छिन्नविषयकज्ञानस्य साकापदान्तरज्ञान सहकृतस्य अवयवार्थ- तावच्छेदकावच्छिनावपपताशालिशाब्दबोध कारणवऽपि तद्घटितधर्मावच्छिन्नविषयताशालिशाब्दयोध- निष्ट कार्यतातिरूपितएदार्थस्मृतिरूपव्यापार संवन्धावच्छिन्न कारणत्वाभावात् तादृशकारणतानिरूपितविषयतास- बन्धावच्छिन्नावच्छेदकतावच्छेदकत्वशून्यत्वस्य पाचकप दत्वरूपसमुदायत्वे अक्षतत्वात् लक्षणसमन्वयः। अप. भ्रंशसमुदाये अतिव्याप्तिधारणाय समुदायले तादृशपदघटितत्वरूपप्रथम दळनिवेशः। योगरूढपङ्कजादिषदे अ. तिव्याप्तिवारणाय तादृशावच्छेदकतानवच्छेदकत्वनिवेशः । पङ्कजप दत्वावच्छिन्नविषयकज्ञानस्य साकासपदज्ञा. नसकृतस्य पद्मत्वावच्छिन्नविषयताशालिशाब्दनिष्टकार्यतानिरूपितस्मृतिरूपव्यापार संबन्धावच्छिन्न कारणता.. श्रयत्वेन तादृशकारणतानिरूपितविषयतासंबन्धावच्छिन्नपङ्कजपदनिष्ठावच्छेदकतावच्छेदकत्वस्य वा पजप- दत्वरूपसमुदायत्वे सत्त्वेनातिव्याप्त्यभावात् । घटमा नयेति वाक्ये घटकर्मकानयनानुकूलकृतिविशिष्टचैत्रत्वा- वच्छिन्नविषयकशाव्दनिष्ट कार्यतानिरूपितताबद्धर्मविषयकस्मृतिरूपव्यापार संबन्धावच्छिन्नानुपूर्वाविशेषाश्रय- तावत्पदविषयकज्ञाननिष्ट कारणतानिरूपितविषयतासंबन्धावच्छिन्नतावत्पदनिष्ठावच्छेदकतायां तावत्पदनिष्टस- मुदायत्वस्यानतिरिक्तवृत्तित्वरूपावच्छेदकतात्रयत्वेन तादृशावच्छेदकतानाश्यसमुदायत्वस्य तन्नाभावात् न वाक्येऽतिव्याप्तिप्रसक्तिरित्याहुः । अपरे तु स्मृतिनिष्टकार्यतानिरूपितज्ञाननिष्ठकारणानिरूपितविषयतासं- बन्धावच्छिन्नावच्छेदकताशुन्यशक्ति निरूपकतावच्छेदकसमुदायत्वं यौगिकत्वं । पाचकादिपदे अवयवशक्ति- ज्ञानस्यैव स्मारकतया समुदायशपिज्ञानस्य स्मारकत्वाभावात् लक्षणसमन्वयः । योगरूढपदे अतिव्याप्तिया रणाय शकी तादृशावच्छेदकताशून्यत्वनिवेश: । वाक्य समुदायत्वस्य शकतावच्छेदकत्वाभावात् न वाक्य- मात्रे अतिव्याप्तिः । नच स्मृत्यनुपयुक्ततादृशशकिस्वीकारो निरर्थक इति वाच्यं पदत्वान्यथानुपपत्या ता- हशशक्तिकल्लनस्यावश्यकत्वादित्याहुः । वस्तुतस्तु यदधरितशक्ततावच्छेदकत्वशून्य समुदायत्ववत्वमेव मूलका. राभिमत यौगिकत्वं । पदघाटितत्वंच लाघवात् पदभिन्नावृत्तित्वमेव । नचैवं वाक्यस्य पदसमुदायरूपस्य व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकभेदानभ्युपगमेन पदाभिन्नत्वाभावात् वाक्यातसमुदायत्वस्यापि ता- हशत्वेन तमादाय वाक्ये अतित्र्याप्तिरिति वाच्यं ब्यासज्यत्तिधर्मावच्छिन्नानुयोगिताकभेदस्य मूलकारानु- मतत्वासू । अत एव उभयं नैकमित्यस्य सर्वसिद्धत्वादिस्यात्मवादे विश्वनाथपञ्चाननेन लेखन सङ्गच्छते । अ. 1