पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डम् गवं वाक्यशेषादपि शक्तिग्रहः । यथा यबमयश्चर्भवतीत्यत्र यवपदस्य दीघशकविशेषे आर्याणां प्रयोगः कङ्गौ तु म्लेच्छानाम । तत्रहि यत्रान्या ओषधयो म्लायन्तेऽथैते मोदमाना इवोत्तिष्ठन्ति वसन्ते सर्वसस्थानां जायते पत्रशातनम् । मोदमानाश्च शोभन्ते यवाः कणिक शालिनः ॥ इति प्रभा. स्वसमभिव्याइतपदार्थसंसर्गविशिष्टघटत्वाद्यवच्छिन्नेऽपि शक्तिमस्वीकृत्येत्यर्थः । अपिशब्दः कार्यान्वितघठे श- थिस्वीकारसमुन्नायकः । नचैव सत्यन्वयस्यापदार्थतया तत्प्रकारकबोधासंभवेन तादृशबोधानुभवापलापापत्ति- .रति वाच्यं घटामित्यादिवाक्यादाधेयतासंसर्गकघटादिप्रकारकशाब्दबोधानीकर्तृणा तथानुभवे मानाभावात् । में सति घटामित्यादिवाक्य जन्यशाब्दबोधस्य उक्तरीत्या वाधनिर्णयप्रतिवध्यत्यानुपपत्तिरिति वाच्यम् इश्वापत्तेः ज्ञानमात्रस्य बाधनिर्णयप्रतिबध्यत्वा नियमात् तत्संबन्धेन तत्प्रकारक बुद्धौ तत्संबन्धेन तदभावनि- जयस्येव तत्संबन्धाभावनिर्णयस्यापि वाधनिर्णयविधया प्रतिवन्धकत्व स्वीकारेण निरुक्तशाब्दबोधस्य घटाधे यत्वाभावनिर्णयात्मकवाधनिर्णय प्रतिबध्यत्वस्यापि संभवाच । तथाच घटमित्यादिवाक्यघटकघरपदं कर्म स्वान्वयविशिष्ट घडवावच्छिन्नशक्तं कर्मत्वविशेष्यघटाधेय:वप्रकारकबोधतात्पर्येण वृद्धकर्तृकोच्चारणजन्य- स्वादिति यति स्यनुमानात घटपदविशेष्यकान्वयविशिघटत्वावच्छिन्नशक्तत्वानुमित्युत्तरमन्वयविशिष्टघटत्वं गुविति गौरवज्ञाने सति तादृशगुरुधर्मावन्छिन्नाश तत्वावधेयकानुमितावप्रामाण्यग्रहसंभवात् प्रमाण भावेन ताशगुरुधर्मावच्छिम शक्तिर्न स्वीकार्यति भावः ॥ घटमात्र इति ॥ केवलघटत्वावच्छिन्न इत्यर्थः । श- क्तिमवधारयतीति ॥ लाघव ज्ञानसहकृतात् घटपद केवलघटत्वावच्छिन्नशक्तं अनुपपत्तिप्रतिसन्धान विना कबलपटयोधतात्पर्मेण वृद्धकर्तृको चारधाजन्यत्वादित्यनुमानादप्रामाण्य ज्ञानानास्कन्दितघटपदविशेष्यककेवल- घटत्वावच्छिन्नशक्तत्वानुमितिमान् अन्वयविशिष्टघटशक्तवानुमितायुक्तरीत्या अप्रामाण्यज्ञानोत्तरं निरुतलाघव- ज्ञानसहकृतमनस्सन्निकर्षादप्रामाण्यज्ञानानास्कन्दितघट पदविशेष्यककेवलघटत्वावच्छिन्नशक्तत्वप्रकारकमानस- प्रत्ययवान् वा भवतीति तात्पर्याथः ॥ एवमिति ॥ वक्ष्यमाणप्रकारेणेत्यर्थः ॥ वाक्य शेषादिति । शिष्टवा- क्यादित्यर्थ: कृदभिहितन्यायात् परिसंख्यावाक्यादिति यावत् । तादृशावाश्यजन्यशाब्दबोधादिति फलिता- थः । शक्ति ग्रह इति ॥ भवतीति शेषः । शक्तिमप्रकार मेवाह ॥ यथेति ॥ ययमय इत्यत्र विकारार्थे मय- प्रत्ययः तथाच यवविकारभूिन चरुभव नमिष्टसाधन मिति शाब्दबोधः भवतीत्यत्र भूधातूत्तरलट्प्रत्ययेन इष्टसाध नत्वबोधनात् । इत्यत्र यवपदस्येति ॥ एतादृशश्रुतिघटकयवपदस्थेयर्थः ॥प्रयोग इति ॥ शक्तया वो- धतात्पर्यगोचारणमित्यर्थः । कङ्गी त्विति ॥ तुरवधारणे । प्रियङ्गुतण्डुल एवेत्यर्थः ॥ तत्न हीति ॥ दीर्घशुक- विशिष्टप्रिय झुतण्डुलयोहीत्यर्थः । आर्यम्लेच्छव्यवहाराभ्यां मध्यस्थेन शक्तिमत्तया सन्दिह्यमानयोः तयोद्वियो. रिति यावत् । घटकत्वं सप्तम्यर्थः तस्य दीर्घशूकविशिष्ट इत्युत्तरेणान्ययः । श्रुतिरूपवाक्यशेषमाह ॥ यत्रे- ति ॥ यदेत्यर्थः ॥ अन्या इति ॥ दीर्घशुकविशिष्टान्या इत्यर्थः । ग्लायन्त इति ॥ म्लानवत्यो भवन्ती. त्यर्थः । विपर्णाः शुष्का वृद्धिरहिताश्च भवन्दीति यावत् ॥ अथेति ॥ तदेत्यर्थः ॥ एत इति ॥ ये दीर्घ- शूकविशिष्टा इत्यर्थः ॥ मोदमाना इचति ॥ मोदमाना एवेत्यर्थः । सपर्णाः आद्राः वृद्धिमन्तश्च सन्त एवे-- ति यावत् ।। उत्तिष्टन्तीति ॥ परिदृश्यमानास्तिष्ठन्तीत्यर्थः । ते यवा इति शेषः । स्मृतिरूपवाश्यशप- माह ॥ वरून्त इति ॥ सर्वसस्यानामिति ॥ दीर्घशूकाधीशष्टान्यसस्थानाभित्यर्थः ॥ पत्रशासनमि- ति ॥ पत्राणां शातनं पतनं म्लानं वेत्यर्थः ॥ जायत इति पूर्वेणान्वयः ॥ मोदमानाश्वेति ॥ यत इ. त्यादिः । द्धिमन्त आदस्सिप श्रेत्यर्थः चोऽवधारणे ।। कणिकशालिन इति ॥ बीजवन्त इत्यर्थः । क-- णिक बीजमास्त्रियामिति कोशात् ॥ यवा इति । एत एवेत्यादिः । सस्यविशेषा एव यवपदवाच्या इत्यर्थः ॥ इति वाक्यशेषादिति ॥ इत्या कारकश्रुतिस्मृत्यात्मकवाक्यशेषजन्यशाब्दबोधात्मकेतरसस्यव्यावर्तकध- दिनकरीयम्. यद्यपदस्य वाक्यशेषादीर्घशुके शक्तिर्मिीयत इत्यन्वयः । तन्वस्तु यवपदस्य वाक्यशेषात् दीर्घशूके शकिः ॥ । -