पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीय-रामदायसमन्विता । नाम कुर्यादित्तीश्वरेच्छायाः सत्त्वात् । आधुनिकसङ्केतिते तुं न शक्तिरिति सम्प्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः किन्स्विच्छैव तेनाधुनिकसङ्केतितेऽपि शाक्तरस्त्येवेत्याहुः । शाहकालीनपुत्रबोधकनामत्वावच्छिन्नजनको चारणकर्ता पितेत्येवं श्रुतिवाक्यार्थः । तथाच चित्रपदत्यादिना पुग्ने भगवदिच्छारूपशक्त्यभावेऽपि एकादशाहकालीनपितृ कर्तृकोचारणजन्यनामत्वरूप सामान्यरूपेण भगव- दिच्छाया उक्तश्रुत्या पुत्रे सवप्रतिपादनात् पुत्रस्य तादृशपित्रुचरितपदशक्यत्वमस्तीति भावः । नन्वयम- पि आधुनिकमात्रसतितनदीद्धयादिपदानां शक्तिनं स्थान निरुक्त संबन्धेन भगवदिच्छाया अभावादित्या- शङ्का इष्टापत्त्या परिहरति ॥ आधुनिकसतित स्थिति ॥ आधुनिकमात्ररातितनदीद्धयादिपद इ. त्यर्थः । न शक्तिरिति ।। भगवाददायास्तवाभावादिति भावः । तहिं नयादिपदात् कथं शाब्दबोध इति चेत् शक्तिश्रमादेवेति गृहाण 1 संप्रदायगत सर्वज्ञपाणिन्यादीनां भ्रान्तिकानमनुचित- मित्यश्वरसं निधाय नवीनमतमाह । नव्यास्त्विति ॥न शक्तिरिति । उत्कदोषापतेरिति शेपः ।। किंस्विच्छवेति ॥ निरुक्तविशेष्यतासंबन्धेन केवलेच्छायास्तत्रापि सत्वादिति भावः । नवीनमतेऽपभ्रंशा. त्मकगर्गर्यादिपदेऽपि इदं पदमिममर्थ बोधयत्वित्याधुनिकच्छारूपश केसरवादनान्तस्यापि तत्पदाच्छाब्दबो- धापत्तिरित्यस्वरसं हदि निधायाहुरित्युतामिति ध्यसम् । अल नापभ्रंशितवै इत्यादिश्रुत्या साधूनेव प्रयुजीते- तिच्याकरणेन चापभ्रंशशब्दानां प्रयोगनिषेधः साधुशब्दप्रयोगे फलातिशयश्च सिद्धः । शब्दानामपभ्रंशत्वं व्याकरणाशिक्षितत्वमेव तच्छिक्षितत्वमेव साधुत्वम् । तथाच गगर्यादिशब्दानां व्याकरणाशिक्षितत्वन प्र- योगाप्रसिद्धचा असच्छन्दव्यावृत्तव शक्तिर्वांच्या तादृशशक्तिरस्मात्साधुशब्दादनमर्चा चोथ्या इन्याकार के. च्छेच एवंच गर्गर्यादिशब्दादयमा बोद्धव्य इत्याकारकेच्छासन्तऽपि साधुपदक्षानजन्यवोधविषयतात्वाव- च्छिन्नप्रकारतानिरूपितविशष्यतसवन्धन निरुक्तच्छायाः कुत्राप्यवर्तमानतया न तस्यादतिरूपत्वं किन्तु गर्गर्यादिशब्दानां साधुपदत्वभ्रान्तिमतः साधुपदज्ञानघटितविशेष्यतासंबन्धेन निरूक्केच्छावत्वनमरूप शक्ति भ्रमसंभवात् तस्यैव गर्गयर्यादिशब्दाच्छाब्दबोधः नान्यस्येति नवीनमतमेव साध्विति प्रतिभाति । ननु यदि शक्तिप्रहस्तदा पदार्थोपस्थितिशाव्दवोधयोरम्पत्तिस्यात् न तदेव संभवति प्रमाणाभावादित्याशहां प्रमाण दिनकरीयम्. नि सतिते नानि ॥इतीश्वरेच्छाया इति ॥ एकादशाह कालीनापत्रुवारणविषयनागत्वेन सामान्यरूपेणेत्य- र्थः ॥ आधुनिकसङ्केतिते तु॥ आधुनिकमात्र सङ्केतिते नदीवृद्धयादिपदे तु ॥ सम्प्रदायमतेऽस्वरसं हदि निधाय नवीनमतं दर्शयति ॥ नब्यास्त्विति ॥ न शक्तिरिति ॥ तथा सत्याधुनिकसङ्केतितामयादिपदा- च्छाब्दयोधो न स्यादिति भावः । मतद्वयेऽप्यपभ्रंशात्मकगर्गर्यादिपदे शक्तिभ्रमादेव बोध इत्यवधेयम् ।। रामरुद्रीयम्. त्यादि ॥ मूले एकादशेऽहनि पिता नाम कुर्यादित्यनन्तरं श्रुत्येति पूरणीयम् । ईश्वरेच्छायाः सत्त्वादिय- स्य संकेतिततत्तत्पदजन्यबोधविषयत्वप्रकारकतत्तदर्थविशेष्यकभगवदिच्छायाः सत्यादित्यर्थः । नन्वसाधु- शब्दानामपि कचित्सङ्केतदर्शनात् तेषां तद्रूपेण भगवदिच्छाया अवगाहो न प्रामाणिकः । अनन्तप्रकार- ताविशेष्यताव्यक्तिकल्पने गौरवं चेत्यभिप्रायेणाह । एकादशाहकालीनेति ॥ तथाच एकादशाहकालीन पित्रुच्चारितशब्दजबोधविषयः पिलादिसङ्केतितविशेष्यो भववित्याकारकमेव भगवदिच्छाकल्पनमिति भावः। नन्वेवमप्याधुनिकसझेतिते तु इत्यादिमूलमसङ्गतमेव एकादशेऽहनि पित्रादिसङ्केतितनाम्नि शक्तिस्वीकारा. दतो मात्रपदं पूरयति ॥ आधुनिकमात्रेति ॥ मात्रपदेनेश्वरव्यावृत्तिः । पूर्वोक्तनानां सामान्यरूपेणेश्वर- सङ्केतसत्त्वात् सेषु शक्तिसत्त्वेऽपि न क्षतिरिति भावः ॥ अस्थरसमिति ॥ वक्ष्यमाणमित्यर्थः । अस्वसं प्रकट- यति॥ तथा सतीति ॥ शक्तिश्रमं लक्षणामहं च विनेत्यादिः । तेन शक्तिभ्रमादिना शाब्दबोधसम्भवेऽपि न क्षतिः । इदमुपलक्षणम् । ईश्वरानङ्गीकर्तृणां प्राभाकरादीनां ईश्वरेच्छापशक्किमहासम्भवेन शाब्दबोधानुपप-