पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [उपमानखण्डम् मितिः न त्वयं गवयपदवाच्य इत्युपमिति: गवयान्तरे शक्तिमहाभावप्रसङ्गात् ।। ७९-८० ।। इति श्रीविश्वनाथपञ्चाननभट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्याभुपमानखण्डम् ॥ प्रभा. यसाध्यत्वप्रतिपादनेन तादृशज्ञानस्य करणतया उपमानस्याचार्याणां पृथक्त्रमाणत्वव्यवस्थापनमपि सङ्ग च्छत इत्यास्तां विस्तरः ॥ ७९ ॥ ८ ॥ इति मुक्तावळीप्रभायामुपमानपरिच्छेदसमाप्तः ।। दिनकरीयम्. दयात् । न शाब्दं पदज्ञानाजन्यत्वात् । न स्मृतिः अननुभूतार्थस्य स्मरणायोगादिति सङ्घयः ।। ७९ ॥ ८ ॥ इति श्रीभारद्वाजकुलाम्बुधिपूर्णचन्द्रबालकृष्णभट्टात्मजमहादेवमविरचिते मुक्तावलीप्रकाशे उपमानखण्डं समाप्तम् ।। रामरुद्रीयम्. शृणोमि न स्मरामि किन्तूपमिनोमीति प्रतीतेरपि प्रमित्यन्तरमेवोपमितिरिति भावः ॥ ७९ ॥ ८ ॥ इति श्रीमद्रामरुद्रसूरिविरचितायां दिनकरीयतरङ्गिण्यामुपमानतरङ्गः ॥