पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [उपमानखण्डम् उपा- यजातं तदुपमितिकरणं तदनन्तरं गोसदृशो गवयपदवाच्य इत्यतिदेशवाक्यार्थस्मरणं प्रभा. सदृशव्य फेर्दर्शनरूपधर्मिज्ञानेन गोसादृश्यप्रकारकेदत्वावच्छिन्नविशेष्यकप्रत्यक्षसंभवेऽपि तदुतरं साइझ्याव- च्छिन्नविशेष्यकरावयपदवाच्यत्वप्रकारकस्मरणासंभवः अनुभूनस्यैव स्मरण भवादित्याशी नस्यानुभव सत्त्व प्रदर्शनेन परिहरति ॥ मुक्तावल्यां यत्राते । यस्मा इत्यर्थः । यस्मै ग्रामीणायेखः ॥ पश्चादिति ।। आरण्यकेन उक्तवाक्यनवणजन्यवाक्यानुभवोत्तरमित्यर्थः ।। ग्रामीणोनेति ॥ तेन ग्रामीणनत्यर्थः ॥ तत्रेति । दर्शनविषयव्यकाचित्यर्थः ॥ गोसादृश्यदर्शनमिति ॥ दहीनविषय गत्यव्यक्तित्वावच्छिन्नदि शेष्यकगोनिरूपित सादृश्यात्मकसास्नादिमत्त्वप्रकारकप्रत्यक्षामत्यर्थः ।। जातमिति । यदित्यादिः ॥ तदुप. मितिकरणमिति ॥ तदेवोपमितिकरणमित्यर्थः । इदन्तु मिश्रमतमनुगुन्योक्तम् । केचित्तु अति देशवा- क्यार्थशाब्दयोधः करणं अतिदेशवाक्यार्थस्मरणं व्यापार सादृश्यावशिष्टपिण्ड दर्शन सहकारीति संप्रदायमत- न्तु सहकारितयावश्यक सादृश्य विशिष्टपिण्डदर्शनस्यैव करण व युक्तभित्युपेक्षितमित्याहुः। तदसत् तन्मते श- क्तिज्ञानस्यार्थमृताविव सादृदयविशिष्टपिण्डदर्शनस्यापि अतिदेशबाक्यार्थस्मृताववोपयोगित्वेन उपमिताब सह- कारितया तस्य करणत्वकल्पनायामुक्तयुक्तरसंभवात् । परन्तु अतिदेशवाक्यार्थस्मृती अति देशवाक्यार्थशा- ब्दबोधसादृश्यविशिष्टपिण्डदर्शनयोः कारणत्वेऽपि तादृशस्मृतिद्वारा सादृश्यविशिष्टपिण्डदर्शनस्य उपमिती सं- स्कारमद्वारीकृत्य हेतुवे लाधव तादृशशाब्दबोधध्य तादृशम्मृतिद्वारा हेतुत्वसंभवेऽपि संस्कारमद्वारीकृत्य तन्न संभवतीति गौरव हदि निघायच तन्मतमुपेक्षितमिति हृदयम् । ध्यायास्तु सादृश्याविशिष्टपिण्डदर्शनोत्तरमेव यत्रातिदेश वाक्यार्थशाब्दबोधः तत्र नातिदेशवावयार्थस्मरणापे. क्षा तादृशशाब्दबोधस्यैव सत्त्वात् तथाच तत्र व्यभिचारादुपमिती तादृशम्पतिद्वारा तादृशा सादृश्यविशिष्टपि- ण्डदर्शनं न करणं किन्तु सादृश्यज्ञानमात्रं करणं विशेषणज्ञातविधया तज्जन्यमानदेशवाक्यार्थज्ञानं सादृश्य- विशिष्टपिण्डदर्शनं च द्वयं व्यापार इन्याहुः तन्न । सादृश्य विशिष्टपिण्डदर्शनोत्तरं यत्रातिदेशवाक्यार्थशाब्द बोधः तत्र द्वयोयापारत्वकल्पना प्रयुक्त गारवाभिया मिश्ररूपमितरनभ्युपगमात् । किन्तु तादृशशाब्दबेधोत्तर पुनस्सादृदयविशिष्टपिण्डदर्शनेन तादृशस्मृतौ जातायां तदुत्तरमुपमितेरभ्युपगमात् । नत्र पुनस्सादृश्यविशि- पिण्डदर्शनकल्पनेन तादृशस्मृतिकल्पनेन ६ पविलम्बकल्पनेन च गौरव मिति वाच्यम् लाधवात् सादृश्यधि- शिष्टपिण्डदर्शनस्य करणत्वसिद्धौं ईदृशगौरघस्य फलमुखत्वेनादोपत्वमिति । अन्येतु पाक्यज्ञानं करणं वाक्या- नुभवादिकं व्यापार इत्याहुः तन्न । बहूनां व्यापारस्वकल्पने गौरवात् प्रसिद्ध साधात् साध्यस्य साधन- मुपमानामति सूत्रविरुद्धत्वाच्च प्रसिद्धगवादेस्साघात साहस्यज्ञानात्साध्यस्य गवयादिपदवाच्यत्व. दिनकरीयम् मितिकरणमिति । नवीनमतेनैतत् । अतिदेशवाक्यार्थशाब्दबोधः करणमतिदेशवाक्यार्थस्मरणं व्या. पारः सादृदयविशिष्टपिण्डदर्शनं सहकारीति साम्प्रदायिकमतं तु सहकारितयाऽऽवश्यक सादृश्यविशिष्टपिण्ड, रामरुद्रीय . स्य प्रत्यक्षोपजीवकत्वमेव न सम्भवति सादृश्यविषयकलौकिक प्रत्यक्षानन्तरमेवोपमितिरनुभूयत इत्यभिप्रा- येण ज्ञानपदं प्रत्यक्षपरत या व्याख्यात्तमिति बोध्यम् ॥ एतदिति ।। गवयधार्मिकगोसादृश्यप्रत्यक्षस्य कारण. स्वाभिधानमित्यर्थः । साम्प्रदायिकमतमुपदर्शयति ।। अतिदेशवाक्यार्थशाब्दबोध इति ॥ वाक्या- र्थस्मरणमिति ॥ व्यापारद्वारा तज्जन्यस्यापि तदारत्वोपगमादिति भावः । नन्वेवमुबोध कान्तरवशा- धनातिदेशवास्यार्थस्मरणं तत्र सादृश्यविशिष्टपिण्ड दर्शनं विनाप्युपमितिनसा इत्यत आह || सादृश्यवि. शिष्टेति ॥ साम्प्रदायिकमतोपेक्षायां योजमाह ॥ सहकारितयेति ॥ युक्तमिति ॥ तदतिरिक्तस्य कारणान्तरस्य कल्पने गौरवादिति भावः । ननु सादृश्यविशिष्टपिण्डदर्श नस्योपमानत्वेऽतिदेशवाक्यार्थस्मरण. स्य तद्वयापारत्वानुपपत्तिः तज्जन्यत्वे सति तज्जन्यजनकर व व्यापारत्वात् स्मरणस्य च स्व समानप्रकार. कानुभवजन्यत्वनियमादिति मूलोक्तमतिदेशवाक्यार्थस्मरणस्य व्यापारत्वमसङ्गतमित्याशकां निराकुरुते ।। .