पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम इति ॥ पक्षः पक्षतावच्छेदकविशिष्ट इत्यर्थः । तेन घटे गन्धसत्वेऽपि न क्षतिः । एवं मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यत्रापि बोध्यम् ।। ७५ ॥ ७६ ॥ ७७ ।। ७८ ॥ इति श्रीविश्वनाथपञ्चाननभट्टाचार्यविरचित्तायां सिद्धान्तमुक्तावल्यां अनुमानखण्डम् ।। प्रभा. स्वप- तस्य व्याप्यतावच्छेदकत्वात् । अत एव नहि घटभिन्नभेदो घटत्वादतिरिच्यते भानाभावादिति दीधिति- कारोक्तिरपि सहच्छते। एवंच वह्निमदन्यावृत्तित्वस्य तादृशधर्मान्तराघटितत्वेन व्याप्यतावच्छेदकत्वसंभवात् स्वसमानाधिकरणपदस्य स्वव्यापकत्वपरत्वे बीजाभावः । यञ्चोकं धूमालोकान्य तत्त्वस्य व्याप्यतावच्छे. दकत्वापत्तिवारणाय स्वघटकसाध्य संबन्धितावच्छेदकरवेन स्वव्यापकत्वं बोध्यमिसि तदपि न धूमभेदालोक- भेदोभयावच्छिन्न प्रतियोगिताकभेदरूपस्यान्यतरत्वस्याखण्डतया धुमत्वादेरिघ पदार्थान्तरघटितत्वाभावेन व्याप्यतावच्छेदकत्चे क्षतिविरहात् । वस्तुतस्तु व्याप्यतावच्छेदकधर्मान्तराघटितस्य व्याप्यतावच्छेदकत्वादि- त्येव नियम धर्मान्तरशब्दम्य स्वभिन्नधर्म इत्येवार्थः धर्म स्वभिन्नत्वमपि स्वावच्छिनाविषयकप्रतिविषयक तावच्छेदकत्वमेव तद्धटितं यथाश्रुतार्थ करणे उन्नादोषापत्तेः । तदघटितत्वामिति तद्वटितं यद्यत् स्वं तत्तदवच्छि. प्राविषयकप्रतीतिविषयतावच्छेदकत्वमेव नतु तत्तद्यक्तित्वादिभिन्न प्रतियोगिताकभेदकूटरूपं धूमस्खे नीलधूमवभिन्नत्वाभावेन व्याप्यतावच्छेदकत्वानुषपतेः। प्रतियोगिकोटौं प्रविष्टं तद्धटितत्वं तदभिन्नत्वरूपमेव ग्राह्यम् । अन्यथानिवेशे स्वसमानाधिकरणत्वनिवेशापच्या गौरवापत्तेः । तथाच स्वावच्छिन्नाविषयकप्रतीति- विषयतावच्छेदकं यद्याप्यतावच्छेदकं तदभिन्नं यद्यत्स्वं तत्तदवच्छिन्नविषयकत्वाभावकूटवत्प्रतीति विषयता बच्छेद कस्यैव व्याप्यतावच्छेदकत्वादिति नियमः । धूमत्वस्य तु धूमप्रागभावत्वावच्छिन्नाविषयक- प्रतातिविषयतावच्छेदकत्वेऽपि च्याप्यतावच्छेदकत्वेऽपि च तद्वटितम्बपदार्थस्याप्रसिद्धया देन धूमप्रागभावत्वस्य उपादानासंभवे नीलधूमत्यादिकमेव स्वपदेनोपादाय निरुक्तव्याप्यतावच्छेदकं धर्मा- न्तरं धूमत्वं गृहीत्वा तदभिन्नत्वरूपतद्धस्तित्वाश्रयीभूतं यद्यत् स्वं नीलधूमत्वादिकं प्रसिध्यती ति तदवच्छिन्न प्रतीतिविषयतावच्छेदकत्वाभाववत्प्रातिविषय तावच्छेद कत्वस्य धूमप्रागभावत्वे स. दिनकरीयम्. त्यादिमूलोकमयुक्तं तत्र पक्षे घटे गन्धशून्यत्वाभावादत आह ॥ पक्षतावच्छेदकेति ॥ कालस्येच देश. स्यापि पक्षतावच्छेदकत्वे बाधसम्भवात्तदप्रदर्शनेन मूलस्य न्यूनता परिहर्तुमाह ॥ पवमिति ॥ बोध्यमि. ति॥ तत्र पक्षे वृक्षे संयोग सत्त्वेऽपि पक्षतावच्छेदकमूलावच्छेदन संयोगाभावादिति भावः ॥ ७५ ॥ ७६ ।। ॥७७ ।।७८॥ इति श्रीभारद्वाजकुलाम्बुधिपूर्णचन्द्रवालकृष्णभट्टात्मजमहादेषभटविरचिते मुकाबलीप्रकाशेऽनुमानखण्डं समाप्तम् ।। रामरुद्रीयम् - या सत्प्रतिपक्षत्वानुपपत्तेः प्राचीन तत्रापि सत्प्रतिपक्षवाङ्गीकारादिति भावः । साध्यसाध्याभावयोरविरोध- स्थले तूभयपरामर्शसत्वेऽपि न सत्प्रतिपक्षष्यवहार इति मन्तव्यम् ॥ गन्धशून्यत्वाभावादिति ॥ नि- रवच्छिन्नवृत्तिकगन्धाभावविरहादित्यर्थः । तेनोत्पत्तिकालावच्छेदेन घटे गन्धाभावसत्त्वेऽपि न क्षतिः। पक्षप. दस्य पक्षतावच्छेदकविशिष्टार्थत्वे तूत्पत्तिकालीनत्वविशिष्टघटनिरूपितगन्धाभावनिष्ठाधेयताया निरवच्छिनत्वे- नभवति ताशगन्धाभाचवद्विशिष्टपक्षो बाध इति भावः । अथवा गन्धशून्यत्वाभावात् गन्धभावाभावादित्यर्थः । गम्धदस्वादिति यावत् । तथा च प्रतियोगिध्यधिकरणसाध्यामात्र वरपक्षस्यैव बाधत्वेन कधमत्र बाध इति भा- वा पक्षपदस्य पक्षतावच्छेदकविशिष्टार्थकत्वे च देशकालयोः पक्षतावच्छेदकत्वस्थले पक्षतावच्छेदकावच्छेदेन साध्याभाववत्वस्यापि पृथक् बाधतया न वाधानुपपत्तिरिति भावः ॥ ७५ ॥ ७६ ।। ७७ ॥ ७० ॥ इति दिनकरीयतरनिण्यामनुमानतः ॥