पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ५२३ संशयः फलवलेन चाधिकबलसमबलमावः कल्यत इत्याहुस्तन्न । तदभावव्याप्यवत्ताशा- ने सति तदुपनीतभानविशेषशाब्दयोधादेरनुयाहौकिकसन्निकर्पाजन्यदोषविशेषाजन्यशाच- मात्रे तस्य प्रतिबन्धकता लाघवान्न तूपनीतभानविशेष शाब्दबोधे च पृथक् प्रतिबन्ध- कता गौरवात् । तथा च प्रतिबन्धकसत्त्वात् कथमनुमिति: नहिं लौकिकसन्निकर्षस्थले प्रभा. नुभयभास कसामथ्याः संशयोत्पादकत्वे पित्तादिदोषकालीनकोटिद्वयोपस्थितिवशात् पातो न वेति संशयाप त्तिरत आह ।। फलबलेनेति । तथाच तत्र पीतत्वप्रकारकनिश्चयस्यैवोत्पत्त्या पित्सादिदोषस्यापि प्रतिब- धकत्वं कल्प्यते दूरत्वादिदोषे सत्यपि कोटिंद्वयव्याप्यवत्ताज्ञानस्थले संशयस्यैवोत्तश्या तत्र समबलत्वमेव स्वीक्रियत इति भावः ॥ लौकिकन्निकर्पाजन्यत्यादि ।। नन्वत्र लौकिकसन्निकर्षाजन्यत्वं न लौकि- कसन्निकर्षजन्यत्वाभाववत्त्वं लौकिकसनिकर्षजन्येऽपि ज्ञानान्तरनिष्टस्य लौकिकसन्निकर्षजन्यत्वस्याभावस- त्त्वात् । नापि तादृशजन्यत्वसामान्याभाववत्त्वं सकलसन्निकर्षसाधारणसनिकर्पत्वस्थ तेन रूपेण कारणत्यस्य चाभावेन तादृशसामान्याभावाप्रसिद्धः । नच लौकिकसनिकर्षजन्य व्यक्त यो यावत्यः तत्तद्यक्तित्वावच्छिन- प्रतियोगिताकभेदकूटवत्त्वमेव तदर्थ इति वाच्यम् तथा सति गौरवापत्तेः एककोटिव्याप्यदर्शनोत्तरं अयं पुरुषो न वेति संशयापत्तेश्च तस्य पुरोवृत्त्यंशे लौकिकसनिकर्षजन्यत्वादिति चेन लौकिकविषयत्वान्य- तनिष्ठविषयताशालित्वस्य विवक्षितत्वात् । एवं दोषविशेषाजन्यत्वमपि पूर्वोकरीत्या दोषविशेषजन्यव्यक्कयो यावत्यस्तत्तद्भेदकूटरूपाचे गौरवात् एवमनाहार्यत्वस्यापि तादशभेदकूटरूपत्वे गौरवाचेति लौकिकविषयता दोषविशेषत्रयोज्यविषयताश्च साक्षात्कारत्वव्यन्ज कविषयतास्वानुममय्य तादृशविषयतायां तादृशा. भावनिष्ठावच्छेदकत्वानिरूपितत्वं निवेशनीयम् । तथाच साक्षात्कारत्वव्यञ्जकविषयस्वायतद्भावनिष्ठावच्छेद- स्वानिरूपिततनिष्ठविषयताशालिवुद्धित्वावच्छिन्नं प्रति तदभावव्याप्यवत्तानिश्चयत्वेन प्रतिबन्धकत्वामिति फ. लितम् ॥ नतूपनीतेति ॥ दोपविशेषाप्रयोज्यालौकिकविषयताशालिबुद्धौ तनिष्टविषय ताशालि- शाब्दबोधादौ चेत्यर्थः ॥ गौरवादिति ॥ प्रतिवध्यप्रतिबन्धकभाववाहुळ्यप्रयुक्तस्य प्रतिबन्धका- भावाना प्रतिवध्यतावच्छेदकभेदेन कारणत्वस्थ भेदादित्यर्थः । ननु तदभावव्याप्यवत्तानिश्चयोत्तरं लौकिकसन्निकर्षजन्यविशिष्टयुद्धेरानुभाविकतया तदनुरोधेन प्रतिबध्यतावच्छेदककोटौ लौकिकसानिकर्षाधज- दिनकरीयम्. वव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वे मानाभावात् क्लप्ततत्तभावानुमितिसामग्रीभ्यामेत्र तत्तदभावकोटिक- संशयानुमित्युत्पत्तौ संशयानुमिति प्रत्युभयव्याप्यवत्तानिश्चयत्वेनातिरिक्तहे तुताकल्पनप्रयुक्तगौरवाभावाचेति भावः । ननु यद्युभयभासकसत्त्व उभयभानं तदा पित्तादिदोषसत्वेऽपि पीतत्वशुक्लत्वोभयस्मृतावुभयो नाप- त्तिरित्यत आह ॥ फलवलेनेति ॥ तथा च तत्र पीतत्वसाक्षात्कारत्यैवानुभविकतया शुक्लत्वग्रहे पित्तरू- पदोषस्य प्रतिबन्धकत्वं कल्पयित्वा पीतत्वसाक्षात्कार सामग्रया अविकबलवत्त्वमेवं दूरत्वदोषे सत्यपि स्था- गुत्वपुरुषत्वयोः स्मृतौ संशयस्यैवोदयात्तत्सामग्रथाः समबलवत्यमेव कल्यत इति भावः ॥ ज्ञानमात्रे ता • दृशज्ञानत्वावांच्छन्ने ॥ विशेषे दोषविशेषाअन्ये ॥ गौरवात् कार्यकारणभावद्वयकल्पने गौरवादिति भावः । कथमनुमितिरिति ॥ अनुमितेरपि तत्प्रतिबभ्यतावच्छेदकाकान्तत्यादिति भावः । कथं त - रामरुद्भीयम्. पत्ताज्ञानयाभिलितयोसाध्यसंशगहेतुत्वं कल्पनीयमिति गौरवमित्यामहानिराकर्तुमाह ॥ क्लुप्तेति ॥ अयं भावः तत्तत्परामर्शस्य तत्तद्विधेयकानुमितित्वमेव कार्यतावच्छेदक न तु निश्चयत्वमपि तटकम् । परन्तु ए कैकपरामर्श सत्त्वे कोट्यन्तरभासकसामन्यभावात् निश्चयात्मिकाऽनुमितिर्भवति उभयपरामर्श सत्वे च कार- णबलादुभयकोट्याविरोधितया भानेऽर्थात्संशयो भवतीति नाधिककार्यकारणभावकल्पनं तन्मत इति ॥ उ. भयस्मृताविति ॥ संशये कोटिद्वयस्योपनयसन्निकर्षेणैव भानात् पीतत्वशुक्लत्वरूपकोटिद्वयोपस्थितौ पि-