पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली -प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । - STITI रादिनिश्चयस्यापि तादृशानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिवन्धकताश्रयत्वादेतत्सर्वं हदि निधायानु- मितिविरोधित्वं चेति चशब्दः प्रयुकः तादृशचशब्दस्यानुमितितत्करणान्यतरविरोधित्वमित्युत्तरं योजनया. नुकसमुच्चायकेन चशब्देनो कानुमितिलाभात् । मनु प्रमेयत्वविशिष्टव्याभिचारादावतिव्यामिः तादृशनिश्चय. वृत्तित्वविशिष्टप्रमेयत्वविशिष्टव्यभिचारादिविषयिताया अपि निरुतप्रकृतानुमितिप्रतिबन्धकतानतिरिकवृत्ति- स्वादिति चेन विशिष्टान्तराघटितत्वेन यदूपस्य विशेषणीयत्वात् अन्यत् विशिष्टं विशिष्टान्तरमिति व्युत्पत्त्या धूमाभाववद्वतित्वविशिष्टप्रमेयवाहित्वापेक्षया केवलतादृशवह्नित्वस्यान्यत्वाभावेन स्वावच्छिनाविषयकप्रतीति. विषयतावच्छेदकत्वरूपशून्यत्वं निवेशनीयं विशिष्टशब्देन प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयि- तानिरूपकतावच्छेदकं बोध्यम् । तदघाटतत्वं च तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वमिति स्वाव- च्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्प्रकृतानुमितिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकतानतिरिक्तवृत्ति. विषयतानिकपकतावच्छेदकं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वमेव विशिष्टान्तराघटितत्वमिति फलितम् । एवंच धूमाभाववद्वृत्तित्वविशिष्टप्रमेय दहित्वावच्छिन्नाविषयकधूमाभाववद्वृत्तिवह्रिरित्याकारकप्रतीति- विषयतावच्छेदकं निरुतप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकं च केवलधू - माभावववृत्तिवह्नित्वमेव तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावाद्भूमाभाववद्वृतिप्रमेयवाहत्वस्य निरुकविशिष्टान्तराघटितधर्मत्वाभावेन प्रमेयत्वविशिष्टव्यभिचारादावतिव्याप्तेरभावात् । नन्वेवमपि बाधा- दावव्याप्तिस्तदवस्था ह्रदो वह्निमानित्यनुमितिप्रतिबन्धकत्त्वाभावचति वह्नयभावं धार्भितावच्छेदकीकृत्य हृद- स्वप्रकारकशाने एकत्र द्वयामेति रीत्या वह्न यभावहूदरचोभयप्रकारकहदमिष्ठनिरवच्छिन्नविशेष्यताशालिनिश्चये व वह्नयभाववत्वावच्छिन्नविषयतानिरूपितावेषायतायास्सत्त्वादत आह । संक्षेप इति ॥ तथाच तादृशनि- यत्तित्वविशिष्टयद्रूपावच्छिन्न प्रकारतानिरूपितयद्रूपावच्छिन्नविषयतानिरूपितविषयिताव्यापिका या प्रकृता- नुमितिप्रतिबन्धकता तद्रूपावच्छिन्नविशिष्टतदूपस्यैव दोषलक्षणस्वस्वीकारेण निरुक्तज्ञानयोहयभावत्वावच्छिन्न- दिनकरीयम्. प्रकृतानुमितिप्रतिबन्धकतावच्छेदकान्तराघटितत्वेनानुमितिविरोधितावच्छेदकं विशेषणीयं प्रमेयत्वविशिष्ठ ध्यभिचारध प्रकृतानुमितिप्रतिबन्धकतावच्छेदकीभूतो यो व्यभिचार स्तद्धटित एवेति न तत्रातिप्रसङ्ग इति दिक् । नन्वतानुमितितत्करणज्ञानान्यतरप्रतिबन्धकत्वमन्यतरनिष्ठप्रतिबध्यतानिरूपकत्वघटितं यदि तदा प. वतो वहिमान् धूमादित्यादौ वह्नयभावविशिष्टहदस्यापि दोषताप्रसङ्गः तस्य पर्वतो वहिमान् ह्रदो वहिमानिति समूहालम्बनारमकप्रकृतानुमितिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वात् । यदि च तादृशान्यतः रामरुद्रीयम्. तन्न मनोरमम् विशिशान्तराघटितत्याघटितहेत्वाभासविभाजकरूपेणैव साजात्यं विवक्षणीयम् । अन्यथा व्य- भिचारविधिमेयत्वादी हेत्वाभासविभाजकरूपत्यैवाभावेन स्वपदेन तस्योपादातुमशक्यत्वेन विशिष्टान्तरघा टितं यन्मेयत्वविशिष्टव्यभिचारादि तदन्यत्वस्य तत्र सवात्तनातिव्याप्यापत्तेः तथा च बाधोऽपि व्यभिचा- रसजातीय एव विशिष्टान्तराघटितत्वातद्धटितवाधस्वस्य व्यभिचारेऽपि सत्वादिति ध्येयम् । यदि च स्व- पदमनुयोगिपरमेव स्वसजातीयं यद्विशिष्टान्तरं तदविषयकप्रतीतिविषयत्वमेव लक्षणम् । विशेष्यदलं नैवो- पादेयमदासीनघटादेः स्वसजातीयाप्रतिवथैव तत्राशिव्याप्तिविरहात साजात्यमपि सम्पूर्ण हेत्वाभासविभाजक- रूपेणैव विवक्षणीयं मेयत्वविशिव्यभिचारादौ शुद्धव्यभिचारस्वस्यापि सत्वेन व्यभिचारस्य तत्सजातीयत्व- सम्भवात् । इत्थं च व्यभिचारविशिष्टमेयत्वस्य स्वसभातीयाप्रसिद्धरेव नातिव्याप्तिरित्युच्यते तदा मूलविरो- पातिरिको नैतन्मते दोष इति ध्येयम् । अत्रच प्रमेयस्वविशिष्टव्यभिचारो दोष इति व्यवहाराभावासद्वार- णायासौ बोष्यः । यद्यपि विशिष्टान्तराघटितत्वनिवेशेजी ताशाव्यवहारो दुर्निवारः तथाविधस्य शुद्धष्यभिचा- रस्वस्यापि तत्र सत्त्वेन तेन रूपेण तस्य दोषत्वे इष्टापत्तिसम्भवात् तथापि विशिष्टान्तराघटितस्वस्य लक्षणे प्रवेशे तेन रूपेणोश्यतावच्छेदकधर्मबोधकत्वानियमोपगमात दोषपदस मेयस्वविशिष्टव्यभिचारत्वस्य तथा