पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय रामरुद्रीयसमन्त्रिता । ४९७ विशिष्टसिद्धयमावः पक्षता तद्वान् पक्ष इत्यर्थः । सिषाधयिषामावं न पक्षता विनापि सिषा- धयिषां धनगर्जितेन मेधानुमानात् । अत एव साध्यसन्देहोऽपि न पक्षता विनापि साध्यसन्देहं सदनुमानात् । सिद्धौ सत्यामपि सिषाधयिषासत्वेऽनुमितिर्भवत्येव अतः सिषाधयिषाविरह- प्रभा. अनिरूपणे तदाश्रयवृत्तित्वरूपपक्षधर्मतानिरूपणं न संभवतीति प्रथमतस्तदेव निरूपितमिति भावः ॥ सिखाधयिः षामात्रस्य पक्षतात्यवादिनां मतमुपन्यस्य दूषयति ॥ सिसाधयिषामात्रमिति। धनगर्जितेनेति ॥ मेघा. नोविजातीयशब्देनेत्यर्थः ॥ मेघानुमानात् उपरिदेशे मेघानुमितेः। तथाचोपरि देशो मेधवान् अवच्छेदकता- संबन्धेन विजातीयशब्दवश्वात् इत्यनुमानात सिसाधयिषां विनापि मेघानुमितेरिति भावः ॥ साध्यसन्दे- होऽपीति ॥ अत्र साध्यसन्देहः न साध्यप्रकारकसन्देहः पर्वते वह्निर्न वेति संशयस्य पक्षतात्वानुपपत्तेः नापि पक्षसाध्यान्यतरकोटिकः वह्निः पर्वतनिष्ठाभावप्रतियोगी न वेति संशयस्य पक्षतात्वानुपपत्तेः किंतु प्राचीनः समानविषयकत्वेन प्रतिवन्धकत्वस्वीकारेण साध्य प्रकारकपक्षविशेष्यकनिश्श्रयत्वावच्छिन्नप्रतिबन्ध कतानिरूपित प्रतिबध्यत्वेन पूर्वोक्त संशयाननुगमय्य तादृशप्रतिबध्यताशालिसंशयत्वं पक्षतालक्षणं वाच्यम् । तत्र बाधेऽतिव्याप्तिवारगाय संशयत्वनिवेशः । अत्र संशयत्वं च न साध्यतदभावोभयप्रकारकज्ञानत्वरूपं सा- ध्यविशेष्यकसंशयेऽव्याप्तेः घटः प्रमेयो न वेत्यादिसंशयेऽव्याप्तेश्च तत्र प्रमेयत्वाभावाप्रसिद्धः किंतु ज्ञानभेदेन विषयिताभेदास्त्री कारात् स्वनिष्ठविषयिताघटितधर्मावच्छिन्न प्रतिबन्धकतानिरूपितप्रतिवध्यत्वं विषयाघटितं सर्वसाधारणं संशयत्वं वाच्यम् । एवंच पर्वतो वहिमानवेत्यादिसंशयं स्वपदेनोपादाय तनिष्ठा या विष. यिता पर्वतविशेष्यतानिरूपितवहिप्रकारतानिरूपितप्रकारिताख्यविषयिता तटितधर्मः पर्वतविशेष्यकवह्नि- प्रकारकनिश्चयत्वं तदवच्छिन्न प्रतिबन्धकतानिरूपितप्रतिवध्यत्वस्थ स्वस्मिन् सत्त्वात् साध्यवत्तानिश्चयप्रति- बध्यत्वस्यापि सत्त्वाच पर्वतो वहिमान वेति संशयेषु लक्षणसमन्वयः। तथाच साध्यवत्तानिश्चयप्रतिबध्यत्वे सति स्वनिष्ठविषयिताघटितधर्मावच्छिन्न प्रतिबन्धकतानिरूपितप्रतिवध्यत्वं पक्षतासामान्यलक्षणमिति प्राची वदन्ति तदूषयति ॥ विनापि साध्यसन्देहमिति ॥ तादृशपक्षता क्वचिद्विशेषणाभावप्रयुक्ता क्वचिद्वि- दिनकरीयम्. परामर्शस्य घटकतया पक्षधर्मत्वमपि प्रकृतं तदुपपादकत्वरूपोपोद्घातसङ्गत्या पक्षतानिरूपणम् । व्या- प्तिनिरूपितैककार्यकारित्वमेव सङ्गतिरिति बोध्यम् । मूले पक्षतालक्षणस्य स्पष्टतयाऽनु के पक्षतालक्षणं स्वा- तन्त्र्येण प्रदर्शयन् मूलार्थमाह ॥ सिषाधयिषाविरहेति ॥ घनगार्जितेन मेघानुमितिस्थलेऽव्याप्त्याप- स्या सिषाधयिषामात्रस्य पक्षतात्वं निषेधति ॥ सिषाधयिषामात्रं न पक्षतेति ॥ मेघानुमानास् मेघानुमितेः ॥ अत एव वक्ष्यमाणदूषणादेव । सिषाधयिषाविरहरूपविशेषणस्य प्रयोजनमाह ॥ सिद्धौ रामरुद्रीयम् . तानिरूपणे का सङ्कतिरित्यत आह ॥ व्याप्तिनिरूपितेत्यादि ॥ एककार्यकारित्वं एककार्यप्रयो- जकत्वं । प्रयोजकत्वञ्च कारणकारणतावच्छेदकसाधारणं तेनानुमितौ पक्षतायाः कारणत्वेऽपि व्याप्तेविषय- विधया कारणतावच्छेदकत्वेऽपि च न क्षतिः अत एव सद्धेतुनिरूपणानन्तरं हेत्वाभासनिरूपणेऽप्येक- कार्यकारित्वसङ्गतिप्रदर्शनं दीधितिकृतां सङ्गच्छते स्वोक्तसद्धेतोः परामर्शनानुमितेजननात् परोक्तप्रतिहेतो- दुष्टत्वेन ज्ञानस्थ प्रतिबन्धकनिरासद्वाराऽनुमितावुपयोगाश्च । वस्तुतस्तूपोद्धातोऽपि व्याप्तिनिरूपिता सङ्गति- भवत्येव तदभिधानानन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वस्यैव तन्निरूपिततत्सङ्गतित्वात् व्याप्ति. निरूपणानन्तरमप्येकपसमर्शविषयत्वेन पक्षवृत्तित्वस्मरणे वृत्तित्वघटक र्फि पक्षत्वमिति जिज्ञासोत्पा. दसम्भवात् अत एव पक्षतानिरूपणानन्तरं परामर्शस्य कारणताव्यवस्थापने दीधित्युक्तानुमितिलक्षणोपो- द्वातस्य पक्षतानिरूपितसङ्गतित्वमुपपादितं गदाधरभट्टाचारिति ध्येयम् । स्पष्टतयेति ॥ सिषाधयिषा. विरहविशिष्टसिद्धयभावो यत्र स पक्ष इत्युक्तावष्यर्थात्तादृशाभावः पक्षतेति लाभसम्भवात्स्पष्टतयेत्युक्तम् ॥ अन्यायापत्योते ॥ पक्षे पक्षताभावापत्त्येत्यर्थः । नच सिषाधयिषाविरहविशिष्टसिद्धेः समवायेन पुरुष 63