पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । वच्छिन्नत्योभयाभावसत्वान्नाव्याप्तिः । ननु प्रमेयवह्निमान् धूमादित्यादौ प्रमेयवह्नित्वाव- च्छिन्नत्वमप्रसिद्धं गुरुधर्मस्थानवाछेदकत्वादिति चेन्न । कम्बुप्रीवादिमान्नास्तीति प्रतीत्या कम्बुग्रीवादिमत्वावच्छिन्नप्रतियोगिताविषयीकरणेन गुरुधर्मस्याप्यवच्छेदकत्वस्वीकारादिसि सङक्षेपः ॥ ६९ ॥ प्रभा. च्छिन्नसामानाधिकरण्यं व्याप्तिरिति परिष्करणीयम् । एवंच कालो घटवान् कालपरिमाणादित्यादौ समवायेन घट वदन्योन्याभावमादाय लक्षणसमन्वय इति व्याचक्रुरिति सङ्केषः ।। गुरुधर्मस्याप्यवच्छेदकत्वस्वीकारा- दिति ॥ ननूकप्रतीतिः कम्बुग्रीधादिमनिष्टप्रतियोगिताकाभावविपयिण्येवेति नेयं गुरुधर्मस्यावच्छेदकत्वसाधि- का। नच तादृशप्रतीते: गुरुधर्मस्यावच्छेदकलाविपयकत्ये यत्किंचिद्धटपति कम्युग्रीवादिमानास्तीति वाक्यस्य प्रामाण्यापत्तिवारणाय नवर्थाभावे कम्युग्रीवादिमत्पदार्थकम्बुप्रोबादिमत्त्वविशिष्टत्यैव शाब्दबोध प्रतियोगिता. संवन्धेन भानस्वीकारात् अभावे यद्धर्मविशिष्ट शिथ्यमवगाहते तत्र तद्धर्मावाच्छन्नप्रातियोगिताकत्यामित्येव नि. यमेन कम्बुनीवादिमत्त्वावच्छिन्नप्रतियोगिताकाभावसिद्धया गुरुधर्मस्यापि प्रतियोगितावच्छेदकत्वमवश्य- मङ्गीकर्तव्यमिति वाच्यं अभावे यद्धर्मविशिष्टवैशिष्टयमवगाहते तत्र तद्धर्मसमनियतधर्मावच्छिन्न प्रतियोगिता- कत्वमित्येव नियमोशीकर्तव्यः अन्यथा गन्धवद्धटो नास्ति पृथिवीघटो नास्ति द्रव्यघटो नास्ति प्रमेयघटो नास्तीत्यादिप्रतीत्या कम्बुग्रीवादिमत्त्वस्येव गन्धबद्धटत्वादीनामप्यवच्छेदकत्वसिद्धया अप्रामाणिकानन्ताभाव. कल्पनापत्तेः । एवंच कम्युग्रीवादिमानास्तीत्यादिप्रतीतेः कम्युग्रीवादिमत्त्वसमनियतघटत्वावच्छिन्नप्रतियो- गिताकाभाव एवं कम्बुग्रीवादिमत्त्वविशिष्टवैशिष्ट्यावगाहित्वं स्वीक्रियते नतु तद्धरत्वावच्छिन्न प्रतियोगिता. काभावे तखटत्वस्य कम्वुग्रीचादिमत्त्वसमनियतत्वाभावादतो यत्किंचिद्धटवति न तादृशप्रतीत्यापत्तिः । तस्मा- गुरुधर्मस्य प्रतियोगितावच्छेदकत्वे प्रमाणं मृग्यमित्यस्वरसात् संक्षेप इति ॥ यद्वा ननु यत्किचिद्धटवति कम्युग्रीवादिमानास्तीति वाक्यस्य प्रामाण्यापानिवारणाय उक्तरीत्याप्रामाणकानन्ताभावकल्पनापत्तिवारणा- य च यादृशाभावे यद्धर्मविशिष्टवैशिष्टयमवगाहते तस्य तद्धर्मावच्छिन्न प्रतियोगिताकत्वतद्धमघटकसमनियत- धर्मावच्छिनप्रतियोगिताकत्वान्यतरवत्वमित्येव नियमः स्वीक्रियते । एवंच कम्युग्रीवादिमानास्ति घ्राण- ग्राह्यगुणो नास्तीत्यादिप्रतीतो कम्बुप्रीवादिमत्वघ्राणग्राह्यगुणत्वादिरूपधर्मस्य स्वघटकसमनियतधर्माप्रति- या कम्बुप्रीचादिमत्त्वादिरूपगुरुधर्मावच्छिन्न प्रतियोगिताकाभावसिद्धावपि प्रमेयचह्निमान्नास्तीत्यादिप्रतीत्या न प्रमेयवह्नित्वाधवच्छिन्नप्रतियोगिताकामावसिद्धिः तद्धर्मघटकतद्धर्मसमनियतकेवलवद्वित्वावच्छिन्नप्रतियो- गिताकाभावसिद्धयैवोक्तानियमनिर्वाहात् । एवं च उक्तस्थलेऽव्याप्तिदुर्वारेत्यत आह ॥ संक्षेप इति ॥ दिनकरीयम्. यां धूमत्वावच्छिन्नत्वघटितोभयाभावसत्त्वादतिव्याप्तिवारणाय सामान्ये इति ॥ अप्रसिद्धमिति ॥ तथा चा व्याप्तिरिति भावः । यदि च कम्बुग्रीवादिमानास्तीत्यादौ कम्बुप्रीवादिमत्प्रतियोगिताकाभाव एव विषयो न तु कम्बुग्रीवादिमत्त्वे तत्प्रतियोगितावच्छेदकत्वमपीत्युच्यते तदा यकिश्चिद्धटवत्यपि कम्बुग्रीवादिमानास्तीति वाक्यस्य प्रामाण्यापत्तिरिति हृदि निधाय सझेप इति ॥ ६९ ॥ रामरुद्रीयम्. तया सार्थकयति ॥ संयोगेनेति ॥ हृदि निधायेति ॥ तथा चैतस्यार्थस्यानुक्तस्वादेवैतदर्थसूचनाय सहेप इत्युक्तमिति भावः । नन्ववच्छेदकत्वमवगाहत एव कम्बुग्रीवादिमानास्तीति प्रतीतिः तन्त्र स्वरूपस- म्बन्धरूपं किं त्वनतिरिक्तवृत्तित्वं तदपि न प्रतियोगितावच्छेदकशुन्यावृत्तित्वं तथासति गुणे सत्ता नास्ता- ति प्रतीत्यापत्तेः शुणे विशिष्टसत्ताभावसत्त्वाद्विशिष्टसत्तात्वशून्ये सत्तात्वस्यावत्तित्वात् अपि तु स्वावच्छिन्न- ध्यापकतावच्छेदकप्रतियोगितावच्छेदककत्वमेव तथात्वम् । सत्तास्वावच्छिन्नव्यापकतावच्छेदकत्वस्य विशि. सत्तात्वे विरहादेव न गुणे सत्ता नास्तीति प्रतीत्यापत्तिः । नापि घटवति कम्बुप्रीवादिमानास्तीति प्रती. -