पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । ४९३ कालो घटवान् कालपरिमाणादित्यत्र प्रतियोगिव्यधिकरणामावाप्रसिद्धिः हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेषामेवाभावानां साध्यतावच्छेदकसम्बन्धेन कालिकविशे- षणतया प्रतियोग्यधिकरणत्वात् । अब केचित् महाकालभेदविशिष्टघटाभावस्तत्र प्रतियोगि- व्यधिकरणः महाकालस्य घटाधारत्वेऽपि महाकालभेदविशिष्टघटानाधारत्वात् महाकाले म- हाकालभेदाभावात् । वस्तुतस्तु प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूतहेत्वधि- प्रभा. गुणसामान्याभावत्वावच्छिन्नप्रतियोगितैव तादृशीति तदनवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वालक्षणसमन्ध- यः । अत्र साध्यतावच्छेदकसंबन्धेन यद्धर्मावच्छिन्नानधिकरणत्वं हेतुमतः तद्धर्मभिन्नसाध्यतावच्छेदकावच्छिन्न- साध्यसामानाधिकरण्यस्य लक्षणत्वं न संभवति । धूमे साध्ये वहि हेतावतिव्याप्त्यापत्तेः । तादृशयत्किंचि- दटत्व भिन्नत्वस्य धूमत्वे सत्त्वात् यद्यद्धर्मावच्छिन्नानाधिकरणत्वं हेतुमत्तः तत्तद्धर्मभिन्नत्वमित्युको गौरवात् मू- लोकप्रतियोगित्वघटितलक्षणस्य परिष्काररूपत्वासंभवाश्चेति हृदयम् ॥ महाकालान्यत्वविशिष्टघटा. भाव इति ॥ कालिकविशेषणतादेशिकविशेषणतोभयधटितसामानाधिकरण्यसंबन्धेन महाकालान्यत्वविशि- एघटस्य कालिकसंवन्धेन अभाव इत्यर्थः ॥ महाकालभेदाभावादिति ॥ तथाच विशेषणविशेष्यो- भय संबन्धाभ्यां विशेषणविशेष्योभयसत्त्वं यत्र तत्रैव विशिष्टाधिकरणत्वमिति नियमात् देशिकविशेषणतया महाकाले महाकालभेदासत्त्वेन महाकालान्यत्वविशिष्टाधिकरणावं न संभवतीति खण्डकाले प्रसिद्धताहशविशिष्टा• धिकरणत्वस्याभावः हेत्वधिकरणे महाकाले वर्तत इति तादृशप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वाभाव्याप्तिरिति भावः । ननु कालिकसंबन्धेन विशेषणविशेष्योभयसत्त्वं यत्र तत्रैव विशिष्टाधिकरणत्व- मिति नियमान्तरस्य सर्वाधारत्वान्यथानुपपत्या स्वीकरणीयतया तद्बलात्कालिकसंबन्धेन महाकालान्यत्वघट- योः महाकाले सरवेन पूर्वोकसंबन्धद्वय घटितसामानाधिकरण्यसंबन्धेन महाकालान्यत्वविशिष्टघटस्यापि कालिकसंबन्धेन सत्त्वसंभवात् अव्याप्तिस्तदवस्थेत्यत आह । वस्तुतस्त्विति ।। केचित्तु महाकालमात्र- दिनकरीयम्. हाकालभेदविशिष्ट्रघटाभाव इति ॥ अभावीयविशेषणताघटितसामानाधिकरण्यसम्बन्धेन महाकाल. भेदविशिष्टस्य घटस्याभाव इत्यर्थः । महाकाले महाकालभेदाभावादिति ॥ अभावीयविशेषणता- सम्बन्धेन महाकालभेदाभावादित्यर्थः सामानाधिकरण्यघटकीभूतावशेषणविशेष्यसम्बन्धाभ्यां यत्र विशेषणवि. शेष्योभयसत्त्वं तत्रैव विशिष्टाधिकरणत्वोपगमादिति भावः । ननु महाकालमात्रवृत्तिविशेषणतासम्बन्धेन सा. ध्यतायां महाकालान्यत्त्वविशिष्टघटाभावोऽपि न प्रतियोगिव्यधिकरणस्तत्र तेन सम्बन्धेन महाकालान्यत्ववि. शिष्टघटाधिकरणाप्रसिद्धरत आह ॥ वस्तुत इति ॥ अत्र प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरण- रामरुद्भीयर. प्रतियोगितानवच्छेदकत्वमते गुरुवघटितकम्बुग्रीवादिमद्भेदस्याप्यप्रसिद्धया साम्यादिति भावः ॥ अभा. वीयविशेषणतेति ॥देशिकविशेषणतत्यर्थः । न त्वभावप्रतियोगिकविशेषणतेति तदर्थः । तथासति का- लिकविशेषणताया अध्यभावप्रतियोगिकत्वेन तवयावृत्तरसम्भवादेवमप्रेऽपि बोध्यम् ॥ महाकालभेदाभा. वादित्तीति ॥ ननु देशिकविशेषणतया महाकाले महाकालभेदासत्वेऽपि कालिकसम्बन्धेन तत्र महाकालभे. दविशिष्टघटसत्वे बाधकाभावः तेन सम्बन्धेन तस्य जगदाधारस्वादित्याशङ्कायामाह ॥ सामानाधिकर- व्येति । विशेषणेति ॥ विशेषणविशेष्यप्रतियोगिक संसर्माभ्यामित्यर्थः ॥ महाकालमात्रबृत्तीति ॥ महाकालाजुयोगिकविशेषणतया साध्यत्व इत्यर्थः । अप्रसिद्धेरिति ॥ यद्यपि पूर्वोक्कोभयाभावघटितप्र- तियोगिवैयधिकरण्यप्रवेशे गगनाभाव एव तत्रापि प्रसिध्यति तथापि गानादेरपि कालिकसम्बन्धेन महा- कालतित्वमस्स्येव अन्यथा पूर्वत्तिताघटितशब्दादिकारणत्वं गगनादौ न स्यादत्तित्ववादस्तु कालिकदिवक- तविशेषणतातिरिकसंसर्गणावृत्तित्वादेव । अत एव जगतामाश्रयो मत इति मूलमपि समच्छत इति भावः ।