पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा दिनकरीय-रामरुद्रीयसमन्विता । ४७७ वान् पर्वत इति ज्ञानं विनापि यत्र पर्वतो धूमवानिति प्रत्यक्षं ततो वह्निव्याप्यो धू- म इति स्मरणं तब शानद्वयादेवानुमितेदर्शनात व्याप्तिविशिष्टवैशिष्टधावगाहिज्ञानं सर्वत्र न कारणं किन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन कारणत्वस्यावश्यकत्वात् प्रभा. तथाच थकसंप्रदायविरुद्धत्वात् अत एव तथाचायमित्याकारक एवं न्यायघटकाभूतोपनयप्रयोगः नतु तथाचास्मि. निति पर्वतादिविशेष्यकवयादिप्रकारकानुमिति प्रति वयादिनिरूपितव्याप्तिप्रकारता- निरूपितहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिनिश्चयो हेतुरिति फलितम् । व्याप्यस्य पक्षवृत्तित्व, मित्यादिकारिकाया अयमेवार्थोऽवसेयः । तथाचोक्तस्थले तादृशेच्छाविशिष्टप्रत्यक्षसामग्रीकाले प्रतिवन्धका- भावरूपकारणाभावादेव नानुमित्यापत्तिरित्यस्वरसं हृदि निधाय अन्य इत्युक्तमिति हृदयम् । मीमांसकमतमुप- न्यस्य दूषयति ।। नन्धित्यादिना ॥ तत्र तस्मिन्नात्मनि ॥ ज्ञानद्वयादेवेति ॥ विशिष्टज्ञानं विनापीत्यर्थः ॥ अनुमितेर्दर्शनादिति ॥ विशिष्टज्ञानोत्पत्तिसमय एवानुमितेरनुभवसिद्धत्वादिति भावः ॥ व्याप्तिविशिष्ट- वैशिष्टयावगाहिज्ञानमिति ॥ तादृशनिश्चयत्वावच्छिन्नमित्यर्थः ॥ सर्वत्रानुमितित्वावच्छिन्ने ॥ न कारणमिति ॥ व्यतिरेकव्यभिचारादिति हेतुः पूरणीयः । तथाच ज्ञानद्वयाव्यवहितोत्तरक्षणोत्पत्तिकानुमितौ दिनकरीयम् . इति भावः । द्विविधयोरपि परामर्शयोः खवाव्यवहितोत्तरानुमिति प्रति ताव्येण हेतुत्यमित्यपि केचित् । वस्तुतस्त्वनुभवानुरोधात् पक्षविशेष्यकपरामर्शस्यैव हेतुत्वमत एंव वह्निव्याप्यधूमवांश्रायमित्याकारकः पक्ष- विशेष्यक एवोपनयः सर्वसम्मत इति ध्येयम् । मीमांसकः शकते ॥ नन्विति ॥ ज्ञान विनापीत्यस्यानुमि- तैर्दर्शनादित्यनेनान्वयः ॥ ज्ञानद्वयादेव ज्ञानद्वयादपि ॥ विशिष्टवैशिष्ट्यावगाहिज्ञानमिति ॥ भावप्रधानो निर्देशः ॥ सर्वन न कारणमिति ॥ अनुमितित्वावच्छिन्नं प्रति कारणतावच्छेदकमित्यर्थः ॥ आवश्यकत्वादिति ॥ व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वस्योभयमतसिद्धनियतपूर्ववृत्तिताव- रामरुद्रीयम् . व्याप्त्यवच्छिन्ना विषयता तन्निरूपिता था हेतुतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिताकव्याप्त्यभावप्रकारवा- निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयत्वसम्बन्धान्य सम्बन्धावच्छिन्ना पक्षतावच्छेदकावच्छिन्ना विषय. ता तच्छालिज्ञानत्वेनानुगत्तकारणत्वं सम्भवति प्रकारता यामेव संसर्गावच्छिन्नत्वं न विशेष्यतायामपाति सि- द्धान्तादिति भावः। एवमपि व्याप्य प्रतियोगिकाभावत्वेन अभावनिवेशे आलोकाभावयति धूमप्रकारकनिश्चयसं. प्रहस्य व्याप्यसामान्याभावानेवेशे च वहिव्याप्यधूमवान वेति संशयवारणस्य वासम्भव एव अप्रामाण्यज्ञाना- नामपि विभिन्नाकाराणामेककनिश्चयकारणतावच्छेदककोटावभावा निवेशनीयाइयतोऽपि नानुगतहेतुतासम्भत्र इत्यभिप्रायेण मतान्तरमुपन्यस्यति ॥ द्विविधयोरिति । ताप्येणेति ॥ पक्षविशेष्यकत्वेन व्यायधि- शेष्यकत्वेनेत्यर्थः । स्वमतमुपदर्शयति । वस्तुतस्त्विति ॥ अनुभवानुरोधादिति ।। पक्षविशेष्यकादेव प. रामदिनुमितिनं व्याप्यविशेष्यकादमितिरित्यनुभवानुरोधादित्यर्थः । स्वोक्ते प्राचां सम्मतिमाह ॥ अत. एवेति ॥ वहिव्याप्यधूमधानिति नवीगमताभिनायेणोक्तम् । प्राचीनमते तु तथा चायमित्युपनयाकार इति मन्तव्यम् । ननु वहिव्याप्यधूमवान् पर्वत इति शाब्दादिपरामर्शस्थले ज्ञानद्वयं विनापि मीमांसकैरप्यनुमि- तिस्वीकारात् ज्ञानद्वयादेवेत्येवकारासातिरित्यतस्तस्याप्यर्धकतामाह॥ ज्ञानयाद पीति । विशिष्टवैशिष्ट्या- दगाहिज्ञानं न सर्वत्र कारणमिति मूलस्य सर्वत्र नानुमित्यव्यवहितपूर्ववतीत्यर्थकत्वे अग्ने अतो विशिष्टवैशि- घ्यावगाहिनिश्चयत्वं नानुमितिजनकतावच्छेदकमिति पूरणीयमुक्तवाक्यस्य साक्षाद्विशिष्टपरामर्शत्वेन हेतुत्व- निरासकत्वादिति प्रयासाधिक्यमतः तद्वन्धस्य विशिष्टपरामर्शत्थेन हेतुतानिरासकत्वं सम्पादयन्नाह । भाव- प्रधानो निर्देश इति ॥ एतदनुरोधेन सर्वत्र न कारणत्वमित्यस्यार्थमाह ॥ . अनुमितित्वावच्छिन्नं प्रतीति । आवश्यकत्वादित्यस्य उभयवादिसिद्धनियतपूर्ववर्तितावच्छेदकलादित्यर्थकतामाह ॥ व्याप्य.