पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामहद्रीयसमन्विता । । - प्रत्यक्षेऽधिकरणयोग्यत्वम् । अतः स्तम्भादौ पिशाचादिभेदोऽपि चक्षुषा गृह्यते । एवं प्रत्यक्ष प्रभा. स्वस्याप्यप्रसिद्धशा निरुक्तयोग्यानुपलम्भविरहात् अन्योन्याभावप्रत्यक्षे केवलप्रति योग्यनुपलम्भस्य हेतुत्ये स्तम्भे पिशाचवदन्योन्याभावस्यापि प्रत्यक्षापत्ति रेत्याशङ्का कार्यतावच्छेदककोटी योग्यत्वमुपलक्षणतया निवश्य परिहरति । अन्योन्याभावप्रत्यक्ष इति ॥ जासवच्छिन्नप्रतियोगिताकत्वयोग्यधर्मावच्छिन्न प्रतियोगिताका दिनकरीयम्, गिनो योग्यतेति ॥ योग्यमात्रप्रतियोगिकत्वे सति योग्यधर्ममात्रावच्छिन्नप्रतियोगिताकत्वमित्यर्थः । अ. त्र द्रव्यसामान्याभाववारणाय मात्रेति । गुरुत्ववद्धटात्यन्ताभाववारणाय विशेष्यदलम् । रूपगुरुत्वान्यस्तराव च्छिन्नाभाववारणाय विशेष्यदले मातेति । अधिकरणयोग्यतेति ॥ योग्याधिकरणवृत्तिस्वामित्यर्थः । इ. रामद्रीयम्, मेव तादृशयोग्यत्वाकल्पनेऽपि गुरुत्वाभावादौ विषयत्वाभावेन अप्रत्यक्षत्वस्य पिशाचत्वाभावादी विषयत्वा- भावेन अप्रत्यक्षत्वस्य चोपपत्तेः । न च गुरुत्वाभावादेः प्रत्यक्षाविषयत्वोपलक्षितत्वाभाचे मि प्रयोजकमित्या- का निरासायैव संसर्गाभावे योग्यता प्रदर्शितेति वाच्यम् । गुरुत्वादौ विषयत्वाभावो यथा तादात्म्येन गु- रुत्वत्वादिना प्रत्यक्षप्रतिबन्धकताप्रयुक्तस्तथा प्रत्यक्षे सामान्यतः संसर्गाभावत्वेन प्रतिबन्धकत्वासम्भवेऽ. पि गुरुत्वाभावादीनां तत्तद्यक्तित्वेन प्रत्यक्षप्रतिबन्धकत्वकल्पनयैव तेषां विषयत्वाभावोपपादनसम्भवात्तथा- पि तत्तदभावानां तत्तव्यक्तित्वेन अनन्त प्रतिबन्धकताकल्पने गौरवमित्यभिप्रायेणैव योग्यताप्रदर्शनामति बोध्यम् । ननु केयं योग्यता नाम न तावजातिरूपति शक्यते वक्तुं अभावावृत्तित्वग्रसङ्गात् नापि प्रत्यक्ष- प्रयोजकोपाधिरूपा सप्तातिरिक्तपदार्थस्य सिद्धान्ते अभावात् । न चाभावरूपैव सेति वाच्यम् । कस्याभाव- रूपा सेत्याक्षेपथ्य तथाप्यनुद्धारादिति मैचं । प्रतिबन्धकाभावत्वस्यैव योग्यतारूपत्वोपगमात् घटादियोग्यत्व- स्य गुरुत्वाद्ययोग्यत्वस्य चोपपादनसम्भवात् । न चैवं मुरुत्वाभावादीनां गुरुत्वप्रतियोगिकाभावत्वेनैकप्रतिव- न्धकतासम्भवेऽपि परमावादितदतानन्तरूपादीनां च मनस्त्वपिशाचत्वादीनां च अभावव्य कीनां तत्ता ध्यक्तिप्रतियोगिकाभानरबेन अनन्तप्रतिवन्धकताकल्पनेन गौरवमपरिहार्यमेवेति वाच्यम् । योग्यमात्र प्रति- योगिकत्वे सति योग्यमात्रधर्मावच्छिन्न प्रतियोगिताकान्यसंसर्गाभावत्वेनैकप्रतिवन्धकतायाः प्रदर्शनायैव ए. ताशयोग्यतानिर्वचनादिति ध्येयम् । अथैवमपि पिशाचत्वादीनां संसर्गाभावप्रत्यक्षानुषपत्तिरशक्यसमाधि. रेव निरुक्तप्रतिबन्धकतावच्छेदकधर्माकान्तत्वात्तेषामभावानामिति चेन्न । अन्योन्याभावभिन्नत्वरूपसंसर्गा- भावत्वस्व पिशाचत्वाभावादावभावेन प्रतिबन्धकतावच्छेदकानाक्रान्तत्वात् । पिशाचत्वात्यन्ताभावस्य पि. शाचभेदसमनियततया तदभिन्नत्वाद्वक्ष्यमाणान्योन्याभावयोग्यतायास्तत्र सत्त्वाञ्च न प्रत्यक्षानुपपत्तिः । स- दि च समनियताभावानामनैक्यमते पिशाचत्वाभावप्रत्यक्षानुपपत्तिरिति विभाव्यते तदास्तु पिशाचत्वं ना. स्तीति प्रतीतावपि पिशाचभेद एव विषयः मणिकारमते मूले महीरहो न विहङ्गमसंयोगीति प्रतीतेहिङ्गम संयोगात्यन्ताभावविषयकत्ववत् प्रकृतग्रन्थस्य समनियताभावैक्यपक्षमबलम्ध्यैव प्रवृत्तिरित्यस्यापि सुवच. त्वाच्च तदनैक्यपक्षमवलम्ब्यैव द्वितीययोग्यानुपलब्धेः पूर्वं हेतुताङ्गीकारस्थापि सयुक्तिकत्वाचेति विभावनी- यं सुधाभिः । ननु प्रतियोगिनिष्ठयोग्यतायाः संसर्गामाचे असत्त्वात्कथं तस्याः संसर्गाभावयोग्यतात्वमित्यः भिप्रायेणाह ॥ योग्यमात्रेति ॥ द्रव्यसामान्याभावधारणायेति ॥ तत्प्रत्यक्षत्वचारणायेत्यर्थः । एव. मप्रेऽपि गुरुत्वबद्धदात्यन्ताभावेल्यस्य गुरुत्वावच्छिन्न घटादिनिष्ठप्रतियोगिताकात्यन्ताभावोऽर्थस्तेन गुरुधर्मस्या- भावप्रतियोगितानवच्छेदकतया गुरुत्वघटत्वोभयधर्मावच्छिन्नाभावस्याप्रसिद्धत्वेऽपि न क्षतिः अत एव नान मानपदव्यावृत्तिस्सम्भवतीति तद्वयावृत्तिमन्यत्रैव दर्शयति ।। रूपेति ॥ रूपस्य गुरुत्वस्येव सत्त्वादुभ- यावच्छिन्नाभावस्याप्रसिद्ध या अन्यतरावच्छिन्नेति । एतच्चापाततः रूपवान्नास्तीदि यत्र प्रतीतिः तत्रैवान्यतरवा- नास्तीति प्रतीतेलाचवाद्रूपमावस्यैव तादृशप्रतियोगितावच्छेदकत्वौचित्यान्मात्रपदप्रयोजनं रूपावच्छिन्नाभा. वप्नत्यक्षवारणमेव उद्भूतानुद्भूतरूपयोग्यायोग्ययोयोरेव तदभावप्रतियोगितावच्छेदकत्वादिति मन्तव्यम् ॥ 58