पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली घट. दिविशिष्घटादिवैशिष्टयमानं झाने न सम्भवति घटत्वाद्यप्रकारकं च घटादिविशिष्टज्ञा- नं न सम्भवति जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किञ्चिद्धर्मप्रकारकत्वनियमात् ।। प्रभा. षणतावच्छेदकप्रकारकनिर्णयरूप कारणासत्त्वमाविष्कृतम् ॥ घटत्वादिविशिऐति ॥ ज्ञानांश घटत्वादि- विटवैशिष्ट्यावगाहि प्रत्यक्षमित्यर्थः ॥ न संभवतीति ॥ नोत्पत्तुमर्हतीत्यर्थः । तथाच विशिष्टवैशि- चावगाहि प्रत्यक्ष प्रति विशेषणतावच्छेदकप्रकारकातर्ण यसप हेतुतया निर्विकल्पकम्य घटत्वादिप्रकारक- निर्णयानात्मकस्वेन तदुत्तरं ज्ञानांशे घटत्वविशिष्टवैशिष्ट्यावगाहिनो घटं जाना मीत्याकारकप्रत्यक्षस्यासं- भवादिति भावः । नच निर्विकल्पकस्य ताशनिर्णयानात्मकतया कारणाभावेन घटमहं जानामात्याकारकनि- विकल्पकगोचरविशिष्टवैशिष्ट्यावमाहिप्रत्यक्षासंभवेऽपि विशेष्ये विशेषणमिति रीत्या निर्विकल्पकगोचरतादृशप्र- त्यक्षे वाधकाभावः विशेषण ज्ञानरूपकारण सत्त्वादिति वाच्यं । तथासति कुण्डली चैत्रः रक्को मैत्र इति समूहालम्बनानन्तरं रक्तं चैत्रं जानामि कुण्डलिनं मैत्रं जानामीत्यनुव्यवसायापत्त्या विशिष्टवै- शिष्टयान वगाह ज्ञानानुव्यवसायानभ्युपगमात् । ननु विशिष्टज्ञान सामान्यं प्रति विशेषणज्ञानस्य हेतुत्वे .मा. नाभावः घट इति ज्ञानोत्तरं घटज्ञानज्ञानामाचेऽपि घटं जानामीत्याकारकघरज्ञानग्रकारकप्रत्यक्षोत्पत्तः एवं विशिष्टशिष्ट्याव माहिप्रत्यक्षमात्रेऽपि विशेषणतावच्छेदकप्रकारका नर्णयस्य हेतुत्वं मानाभावः प्रकारकागावशेष्यकानिण याभावेऽपि घट इनि ज्ञानोत्तरं घट जानामीत्या कारकघटविशिष्टज्ञानवशिष्ट्याच . गाप्रित्यक्षोत्पत्तेः । एवंच निर्विकल्पकस्य घटत्वप्रकार कानी यानात्मकतया तगोचरघटत्वविशिष्टवैशिष्ट्याव- गाहामुव्यवसायासंभवेऽपि स्वरूपतो घटविशिष्टज्ञानवैशिष्टयानगाहिनिर्विकल्पकगोचरानुव्यावसाये बाधका- भावान्न निर्विकल्पस्यातीन्द्रियत्व मित्सत आह ॥ घटत्वादीति || अप्यर्थे चकारः घटत्वाद्यप्रकारकमपी. त्यर्थः । बटादिविशिष्टज्ञानमिति ॥ घटादिविशिष्टज्ञानवैशिष्ट्यावगाहिप्रत्यक्षमित्यर्थः । तत्र हेतुमाह ॥ जात्यतिरिक्तति ॥ जात्यतिरिकपदार्थनिष्ठप्रकारत्वविशेष्यत्वान्यतरनिरूपितविषयितायाः तादृशपदार्थ- निष्ठविशेष्यतानिरूपिताकचिद्धमनिष्टप्रकारतानिरूपित प्रकारेत्वव्याप्यत्वादित्यर्थः । पदार्थज्ञानस्येत्यत्र ज्ञान- पदमप्ये तादृशार्थलाभाय नतु तस्य व्याप्यकोटी निवेशः व्यर्थत्वात्तेन यथाभुते निर्विकल्पकस्यापि जास्यतिरिक्तपदार्थविषयकत्वेन तन किंचिद्धर्मप्रकारवागावेऽपि न क्षतिः । नच तादृशविषये माना. भाव इति वाच्यं । तथासति घट इत्यादिप्रतीतेरपि म्वरूपतो पटाविषय कत्ले बाधकामावेन तस्यापि नि दिनकरीयम् . यत्वं साधयति ॥तथाहीत्यादिना॥ ज्ञानस्य प्रत्यक्षं वैशिष्टयानवगाहि न भवतीत्यन्वयः ॥ इति प्रत्य यादिति ॥ घटाद्यवाहित्वेनैव ज्ञानप्रत्यक्षस्यानुभवसिद्धत्वादित्यर्थः। तत्र घटमहं जानामीति प्रत्यये ॥ घ. टत्वादिविशिष्टघटादिवैशिष्टयभानं ज्ञाने न सम्भवतीति । नच विशेष्ये विशेषणमिति रीत्यै- व निर्विकल्प कानुव्यवसायोऽस्त्विति वाच्यम् । रक्तः पटो घटो द्रव्यमिति समूहालम्चनानन्तरं रक्तं घट जा- नामीति प्रतीत्यापत्त्या विशिष्टवैशिष्टयविषयताशुन्यज्ञानानुव्यवसायानभ्युपगमादिति ।। रामरुद्रीयम्. वः ॥ समूहालम्बनेति ॥ विशेष्ये विशेषणमिति न्यायेनानुव्यवसायोपगमे रक्तत्वघटयोः पूर्वमुपस्थित्या तादृशानुव्यवसायसम्भवाद्विशिष्टवैशिष्ट्यावमाहित्ये तु पूर्व रक्तो घट इति ज्ञानविरहान्न तादृशानुव्यवसाय इ. ति भावः । यद्यपि घटत्वप्रकारकशाब्दबोधोत्तरोत्पन्ननिर्विकल्पकस्य तादृशानुव्यवसायः सम्भवत्येव तथापि पूर्व घटत्वज्ञानसत्त्वे विशिष्टप्रत्यक्षस्य सामग्रीसत्त्वाञ्चक्षुःसंयोगानन्तरं विशिष्ट प्रत्यक्षमेव स्वीक्रियते नतु निर्वि. कल्पकमत एव स्थिरचक्षुःसंयोगस्थले घट इति विशिष्टप्रत्यक्षधारैवोपयते न तु निर्विकल्पकान्तरितप्रत्यक्ष- धारेति मन्तव्यम् । अथैवमपि निर्विकल्पकस्य घटत्वरूपविषयोपरागेण प्रत्यक्ष दुर्वारमेव जातीतरस्यैव स्व- रूपनः प्रकारत्वानभ्युपगमेन तस्य ज्ञाने विषयितया स्वरूपत एव प्रकारत्वसम्भवादिति मैवं जातेस्समवा. येनैव स्वरूपतः प्रकारत्वाभ्युपगमादन्यथा कालो घटो ज्ञानं पट इत्यादिप्रत्ययापत्तेः तादृशमतीतेरनुभवनि- 1