पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रमा-दिनकरीय-रामरुद्रायसमन्विता । अहङ्कारस्याश्रयोऽयं मनोमावस्य गोचरः ॥ ५० ॥ अब दृष्टान्तमाह ॥ रथेति । यद्यपि रथकर्म चेष्टा न भवति तथापि तेन कर्मणा सारथि- यथाऽनुमीयते तथा चेष्टात्मकेन कर्मणा परात्माऽनुमीयत इति भावः ।। अहङ्कारस्येति ।। अहङ्कारोऽहमिति प्रत्ययः तस्याश्रयो विषय आत्मा न शरीरादिरिति । मन इति ।। मनो- भिन्नेन्द्रियजन्यप्रत्यक्षाविषयः मानसप्रत्यक्षविषयश्चेत्यर्थः । रूपाद्यमावेनेन्द्रियान्तरायोग्यत्त्वा- त् ॥ ५० ॥ प्रभा. कपञ्चमादिस्वररूपहेतुस्समुञ्चीयते । अनान्यदीयक्रियाविशेषवत्त्वादिहेतुना परात्मसमवेतप्रवृत्त्यनुगिती दृष्टान्तमाह ॥ मूले रथगत्येति ॥ ननु एकधर्मावच्छिन्नलिङ्गेन तत्र यथा एकधर्मावाच्छन्नविधेयकानुमितिः तथात्रापति दृष्टान्तो वाच्यः । यथा घटे पृथिवीत्वेन द्रव्यत्वानुमिरि था पटेऽपि तेन तस्यानु- मितिस्संभवतीति पक्षभेदमानं पुरस्कृत्यानुमितिदृष्टान्तेनानुमितिसमर्थनमनुभवसिद्ध । प्रकृते च प्रयत्न वत्त्वावच्छिन्नसाध्यस्यैकत्वेऽपि रथगमनस्य चेष्टात्वरूपहेतुतावच्छेदकानाश्रयत्वेन भिन्नहेतुकत्वादेतादृशा- नुमितेर्दृष्टान्तत्वन्नोपपद्यत इत्यभिप्रायेण शङ्कते ॥ मुक्तावळ्यां यद्यपीति ॥ अत्र स्थाक्रियायास्सा. क्षात्प्रयत्नाजन्यत्वेन चेष्टत इति प्रतीतिसिद्धचेष्टात्वजातस्तत्राभावेऽपि तादृश क्रियायाः प्रयत्नप्रयोज्यत्वेन हितप्राप्त्यहितपरिहारानुकूलत्वस्य चेष्टायामिवात्रापि सत्त्वेन तादृशानुकूलत्याविशिष्टकमत्वेन रथाक्रियाचेष्टा- न्यतरत्वेन वा उभयोर्हेतुत्वं संभवतीत्यभिप्रायेण परिहरति । तथापीत्यादिना ॥ इदमुपलक्षणं । वी- भ्यां कोलाहल इति सर्वेषामनुभवात् अवच्छेदकतासंबन्धेन कोलाहलात्मकशब्दालेलेन बीथ्यां पुरुष इत्यनुमान द्वितीयानुमाने दृष्टान्तो वोध्यः । उक्तार्थमुपसंहरति ॥ मूले अहङ्कारस्याश्रयोऽयमि ति ॥ तस्मादित्यादिः । तस्माच्छरीरादीनां कर्तृत्वासंभवात् ॥ अहङ्कारस्याहमिति प्रत्ययस्याश्रयः विषय इत्यर्थः । तथाचात्मन एव कर्तृत्वादहमिति शब्दबोध्योऽपि आत्मैवेति भावः । उक्तार्थमेव प्रक- ट्यति ॥ न शरीरादिारति ॥ मनोभिन्नेन्द्रियेति ॥ तादृशप्रत्यक्षनिरूपितलौकिकविषयताशून्य इत्य- थः । तेनायं घटो मया ज्ञात इति चाक्षुषविषयत्वमादाय न दोषः चाक्षुषपार्शनान्यतरनिरूपितलौ- किकविषयताशून्य इति फलितोऽर्थः । तेनेन्द्रियत्वस्य एकस्याभावेन इन्द्रियजन्यप्रत्यक्षाप्रसिद्धथा तदी- यलौकिकविषयत्वाभावाप्रसिद्धिरिति दूषणस्य नावकाशः । मानसप्रत्यक्षविषय इति ॥ मानसत्त्वा- वच्छिन्ननिरूपितलौकिकविषयतावानियर्थः । तेन गगनादेरपि मानसोपनीतभानविषयत्वेन निरुक्तसत्य- न्तदळसत्त्वेन च तस्यापि मनोमात्रगोचरत्वव्यवहारापत्तिरिति दूषणस्य भावकाशः । नव गौरवात्प्रयो- जनाभावाच लौकिकविषय तायां मानसत्वावच्छिन्ननिरूपितत्वनिवेशनं व्यर्थं सत्यन्तदळविरहेणैवान्यत्र तादृशष्यवहारापत्त्यप्रसक्तरिति वाच्यं इष्टापत्तेः । यद्यपि विशेष्य दळं व्यर्थ अध्यक्षो विशेष इत्यादिपूर्वप्रन्थेनात्म नो मानसप्रत्यक्षप्रतिपादनात तथापि मनोमात्रस्य गोचर इति कारिकाया अपि इतरेन्द्रियाग्राह्यत्वबोधन एव तात्पर्य नतु मनोग्राह्यत्वबोधनेऽपि । अत एव मुक्कावल्यां, रूपाद्यभावेनेन्द्रियान्तरायोग्यत्वनियामक- रूपाद्यभाववत्त्वप्रदर्शनं मानसविषयत्वनियामकज्ञानादिमत्त्वस्याप्रदर्शनं च सङ्गच्छत इति हृदयम् ॥ ५० ॥ दिनकरीयम् . ति ॥ यद्यपीति ॥ तथा चोत्तरसंयोगप्राप्तियोग्यक्रियावत्त्वस्यैव हेतुत्वमिति भावः । आत्मनो मनोमात्रजन्यज्ञानविषयत्वे हेतुमाह ।। रूपाद्यभावेनेति ॥ ५० ॥ रामरुद्रीयम्. तासिद्धिमिति ॥ शरीरमिदं चेतनाधिष्ठितं चेष्टावत्त्वादथवदित्यनुमाने चेतनाधिष्ठितत्वं चेतनप्रयुकंक्रिया- वश्वमेव तस्य दृशान्तरथे सत्त्वेऽपि चेष्टारूपहेतोरभावात् शरीरक्रियायामेव चेष्ठात्वाशीकारादिति भावः ॥ ५० ॥