पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-दिनकरीय-रामभद्रीयसमन्विता। - प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहामिति मन्यते इत्य- नेन विरोध इति वाच्यम् । प्रकृतेरदृष्टस्य गुणैरदृष्टजन्यैरिच्छादिभिः कर्ताऽहमेवेत्यस्य तदर्थत्वा- त् । तत्रैवं सति कर्तारमात्मानं केवलं तु य इत्यादि वदता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय प्रभा. अन्यभावत्वेन नाशहेतुत्वादिति भावः ॥ तत्त् किं प्रकृत्यादीति ॥ तत्तस्मार पूर्वोक्तरीत्या कृतिचैतन्य- योस्सामानाधिकरण्यस्य उभयाश्रये नित्यत्वस्य च सिद्धत्वादिति यावत् । किं प्रकृत्यादीति मूलप्रकृत्यादिक- ल्पनेन तत्कार्यबुद्धिकल्पनेन च किं प्रयोजनमित्यर्थः । तथाच प्रमाणाभावात् प्रयोजनाभावाच प्रकृति ङ्गीकर्तब्ये- ति भावः। नच प्रकृतरिति प्रकृतिर्माया तस्याः गुणैस्सत्त्वरजस्तमोरूपैस्सर्वशः सर्वाणि क्रियमाणानीत्यन्क्यः । भवन्तीति शेषः । अनेन प्रकृतेः कर्तृत्वं प्रतिपादित । अहङ्कारः अहमिति प्रत्ययः तेन विमूढोऽहमिति प्र. त्ययविषय इत्यर्थः आत्मा अन्तःकरणं यस्य सः अहमितिप्रत्ययविषयान्तःकरणागृहीतासंसर्गक इ. त्यर्थः । एतादृशः पुरुषः कर्ताहमिति मन्यत इति ॥ तादृशागृहीतासंसर्गकत्वदोषेणान्तःकरणनिष्टकर्तृ. त्रादिमत्तया ज्ञायत इत्यर्थः । तेनात्मन: कर्तृत्वाभाव : प्रतिपाद्यत इति प्रकृत्यनङ्गीकारे पुरुषस्य कर्तृत्वाङ्गीकारे च गीतावचनविरोध इति भावः अर्थान्तरं पारकल्प्य विरोधं परिहरति । प्रकृतेरदृष्टस्येति ॥ कार्यमात्रस्यादृष्टाधीनत्वात् प्रकृतिशब्देन जगत्कारणादृष्टेश्वरादिकमेव उच्यत इति भावः । प्रकृतिशब्दोत्तरषष्ठया जन्यत्वरूपसंबन्धार्थकतया अदृष्टजन्येच्छादयो लभ्यन्त इत्यभिप्राय णादृष्टस्य गुणैरिच्छादिभिरित्युक्तम् । सर्वाणि कर्माणि क्रियमाणानि भवन्ति इति योजना तेनादृष्टशब्द. बोध्यानां विश्वेषां कर्तृत्वं प्रतिपादितं अहङ्कारविमूढात्मा अहमिति प्रत्ययविषयः पुरुषः कर्ता महमह मेव कर्तेति मन्यत इति ॥ तदर्थत्वादिति ॥ गीतार्थत्वादित्यर्थः । तथाच तेन स्वतन्त्रकर्तृत्वामान एवं प्रतिपाद्यते नतु कर्तृत्वसामान्याभाव इति भावः । गीतावचनस्य एतादृशार्थकरणे उत्तरगीतावच- नमेव प्रमाणमित्याह ॥ तत्रैवं सतीत्यादि ॥ प्रकटीकृतोऽयमिति ॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधं । विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चममित्यनेन पञ्चानां कर्तृत्वं प्रतिपाद्य तत्रैवं सतीत्यादि- दिनकरीयम् . स्मन इति भावः । अनादेरित्यस्य भावस्येति शेषः । जन्यभावत्वेन नाशे हेतुत्वादिति भावः ॥ नचेति ॥ प्रकृतिमाया तस्या गुणैः सत्त्वरजस्तमोलक्षणैः क्रियमाणानि कर्माणि भवन्ति अहकारोऽहमिति प्रत्ययः तेन विमूढ आत्मा अन्तःकरणं यस्य तथाविधः पुरुषः कर्ताहमिति मन्यते इत्यर्थकेन भगवद्वचनेनेत्यर्थः । तेना- त्मनः कर्तृत्वाभावप्रतिपादनादिति भावः ॥ अहमेवेति ॥ तथा च तेन स्वतन्त्रकर्तृत्वाभाव एवात्मनि प्र. तिपाद्यते न तु कर्तृत्वसामान्याभाव इति भावः ॥ प्रकटीकृतोऽयमिति ॥ अधिष्ठानं तथा कर्मा करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चममित्यनेन पञ्चानामपि कर्तृत्व प्रतिपाद्य सवं अ. तीत्यादिनापि स्वतन्त्रकर्तृत्वस्यैवात्मनो निषिद्धत्वादिति भावः । एवं पुरुषस्यैव कर्तृत्वमस्तु नच कारणत्वा- रामरुद्रीयम्. स्यानादेरपि नाशदर्शनादित्यत आह ॥ अनादेरित्यस्येति ॥ प्रकृतेर्गुणैः क्रियमाणानि सर्वशः कर्मागील स्योत्तरार्धे नान्वयसम्भवः कर्माणीत्यस्य द्वितीयान्तत्वोपगमेऽपि कर्तेति कृयोगे षष्टयापत्त्या साधुत्वानुपप- त्तेनिराकाङ्क्षतापरिहाराय कियापदमध्याहरति ॥ भवन्तीति । इत्थं चोत्तरार्धात्प्रागेवमपीत्यपिः पूरणीय इति भावः । अहमिति प्रत्यय इत्यस्य कर्तरि बुद्धौ इत्यादिस्तथासत्येच तेन विमूढत्वोपपत्तेः आत्मेत्यस्य पुरुषार्थकावे भेदनियतविग्रहस्थषष्टयनुपपत्तिरतो व्याचष्टे ॥ अन्तःकरणमिति विरोधे हेतुमाह ॥ तेनेति ॥ स्वतन्त्र कर्तृत्व कारणान्तरनिरपेक्षनिष्ठकर्तृत्वं अधिष्ठानभाधारः दैवमहष्टं ॥ कर्तृत्वं प्रतिपाद्य कारणत्वं प्रतिपाद्येत्यर्थः । क्रियानुकूलकृतिमत्त्वरूपस्य तस्याधिष्टानादौ बाधात् एवं चाहमेव कर्ता इत्यत्रापि अहमेव कारणमित्येवार्थ: तथासयेव मूढतोपपत्तिरन्यथा कारणानां बहुत्वेऽपि स्वस्यैव कर्तृतयाऽहमेव कतैलस्य प्रमात्वापत्तिरिति ध्ये. 52 -