पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - पंः । तस्यापि भावत्वादेव क्षणिकत्वं पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञानहेतुत्वात् सुषुप्त्यवस्था- यामप्यालयविज्ञानधारा निरावाधव मृगमदवासनाबासितवसन इव पूर्वपूर्वविज्ञानजनितसं- स्काराणामुत्तरोत्तरविज्ञाने संक्रान्तत्वान्नानुपपत्तिः स्मरणादेरिति चेन्न । तस्य जगद्विषय- कत्वे सर्वज्ञत्वापत्तिः यत्किञ्चिद्विपयकत्वे विनिगमनाविरहः सुपुप्तावपि विषयावभासप्रस- गाच ज्ञानस्य सविपयत्वात् । तदानीं निराकारा चित्सन्ततिरनुवर्तत इति चेन्न । तस्याः प्र- प्रमा. यामपि स्वामित्रज्ञानविषयत्वरूपचैतन्यं निराबाधमेवेति भावः । नन्वात्मनः क्षणिकविज्ञानरूपत्वे सु- खादिसमवायिकारणत्वानुपपत्तिः ज्ञानोत्पत्तिक्षणे सुखाद्युत्पत्ती विज्ञानस्य पूर्ववृत्तित्वाभावेन कारणत्व- स्यैवानुपपत्तेः विज्ञानोत्पत्तिद्वितीयक्षणे सुखाशुत्पत्तिस्वीकारे मुखाद्युत्पत्तिकाले विज्ञानस्यैव नाशात्सम-- वाथिकारणत्वानुपपत्तेः समवायिकारणस्य कार्यकालवृत्तितया हेतुत्वादित्यत आह ॥ ज्ञानसुखादि- कमिति ॥ तस्यैवाकारविशेष इति ॥ तस्याकारविशेष एवेत्यर्थः । तदाकारविशेषावं च व- स्तुतस्तदाभिन्नत्वे सति तद्भिवत्वेन भासमानत्वं । एवंच ज्ञानसुखादीनामात्माभिन्नत्वेन कार्यकारण- भावाप्नसक्त्या न पूर्वोक्त दोष इति भावः । ननु ज्ञान सुखादीनामात्माभिन्नत्ये अहं सुखीत्यादि सर्वानुभ वसिद्धसुखाधिकरणत्वावगाहप्रत्ययो न स्यात् अभेदे आधाराधेयभावासंभवादिति चेन्न आधाराधेययोरैक्ये. ऽपि आधारतावच्छेदकाधेयतावच्छेदकभेदनाधाराधेयभावस्य सर्वैः स्वीकृतत्वात् । नच तथापि तादात्म्य. संबन्धयाधिकरणत्वानियामकतया कथं तेन संबन्धेनाधाराधेयभाव इति वाच्यं तादात्म्यस्य तादात्म्य. त्वेनाधिकरणबानियामकत्वेऽपि स्वरूपत्वेनाधिकरणत्वनियामकरवे बाधकाभाव इत्यभिप्रायात् । ननु ज्ञाना-- दीनामात्मनः आकारविसेषरूपत्वे आत्मनो विकारित्व प्राप्त्या अनित्यत्वापत्तिरियन इष्टापत्तिमाह ॥ तस्य भावत्वादेवेति । तथाच भावमात्रस्यापि क्षणिकरयेनै तस्यापि क्षणिकत्व प्राप्या अनित्यत्वमिष्टमेवेति भावः । नन्वेवं सति सुषुप्ताचात्मा न सिध्येत् पूर्वोत्पन्न विज्ञानस्व क्षणिकत्वेन नाशात् विज्ञानान्तरस्योत्पादकाभावात् अत आह ॥ पूर्वपूर्वति ॥ एतन्मत कार्यकारणयोरेकाधिकरणवृत्तित्वानि यमात् कारणताया: कार्यपूर्वयात्तत्वमा त्ररूपत्वाच्च पूर्वविज्ञानस्य उत्तरविज्ञान हेतुत्वसंभव इति ध्येयम् । ननु विज्ञानस्यापि क्षणिकत्वे तदाग्रिटसंस्का- रस्यापि भावत्वेन क्षणिकत्वात् कालान्तरे स्मरणन्न स्यादित्याशकां परिहरति । मृगमदेति ॥ कस्तूरिकाग- न्धस्य यथा वसने संकमा तथा पूर्वविज्ञानजनित संस्कारस्योत्तरोत्तरविज्ञाने संक्रमः संभवतीति स्मरणं निरावा- धमिति भावः । विज्ञानस्य जगद्विषयकत्वं यत्किचिदिपयकत्वं वेति विकल्प्याद्ये दूषणमाह ॥ तस्येति ॥ द्वि- तीये त्वाह ॥ यत्किचिदिति ॥ विनिगमकामावादिति । तथाच यत्किचिद्विषयकत्वेऽपि सर्वज्ञत्वाप- तेरिति भावः । आत्मनः सविषयकत्वे दूपणमाह ॥ सुषुप्तावपीति ॥ शकते । तदानीमिति ॥ सुषुप्ति- काल इत्यर्थः ॥ निराकारा निर्विपयिणी ॥ चिरसंततिः ज्ञानसन्ततिः ॥ अनुवर्तत इति ॥ जायत दिनकरीयम्. विज्ञानस्य । ननु सुषुप्तावात्मा न सिध्येत् पूर्वोत्पन्नविज्ञानस्य क्षणिकत्वेन नाशाद्विज्ञानान्तरस्य च त. दानीमुत्पादकाभावादत आह ॥ पूर्वपूर्वेति ॥ ननु विज्ञानस्य क्षणिकत्वेन तदाश्रितसंस्कारस्यापि क्ष. णिकत्वात् कालान्तरे स्मरणं न स्यादित्याशङ्का परिहरति ॥ मृगमदेति ॥ विज्ञानस्य जगद्विषय कत्वं किञ्चिद्विषयकल वाभिप्रतमिति विकल्प्याये दूषणमाह ॥ तस्यति ॥ विज्ञानस्य । द्वितीये आ- ॥ यत्किञ्चिदिति ।। आत्मस्वरूपनि सस्य सविषयत्वे दूषणमाह ॥ सुषुप्ताविति ॥ शङ्कते ॥तं. रामरुद्रीयम्. ज्ञानविरहेण जानामीत्याकारकज्ञाने च घट पट इत्यादिप्रवृत्तिज्ञानस्यैव विषयत्वेन आलयविज्ञानानुवृत्तेस्तदा. नीगसम्भवापत्तेः अहभित्या कारकज्ञाने च स्वयमेव विषयः घट इत्यादिज्ञानस्य तद्गोचरप्रवृत्तिसाधनत्वात्प्र- वृत्तिज्ञानत्वमिति बोध्यम् ॥ उत्पादकाभावादिति ॥ पुरीतद्भिनदेशावच्छिन्नमनस्संयोगरूपकारणाभा-