पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - त्तरसंयोगप्रागभायो वा उत्तरसंयोगावच्छिन्नं कर्म वा । नचोत्तरसंयोगानन्तरं क्षणव्यवहारो न स्यादिति वाच्यम् | कर्मान्तरस्यापि सत्त्वादिति । महाप्रलये क्षणादिव्यवहारो यद्यस्ति प्रभा. हारीपयि कोपाधिोध्यः । क्वचित्पुस्तके पूर्वसंयोगावच्छिन्नविभागो घेति पाठः स तु नवीनमताभिप्रायकत- या एवं व्याख्येयः । चतुर्थक्षणे तादृशोपाधिमाह ॥ उत्तरलंयोगेति । स्वजन्यसंयोगावच्छिन्नं स्वमि त्यर्थः । तेन संयोगमात्रस्योत्तर संयोगत्वेन संयोगात्पत्तिकालीनोत्पत्तिकर्मणः क्षणचतुष्टय स्थायिनः न क्षण त्वापत्तिरिति ॥ नन्वेतादृशक्षणलक्षणं महाप्रलयामकक्षणे अव्याप्तं तत्र क्रियादेरभावात् । नच तत्र क्ष. णत्वाभाचे का क्षतिरिति वाच्यं तथा सति अस्वस्तक्षणयोगस्य क्षणयोगा जनिमतेति उत्पत्तिलक्षणप्रति- पादकाचाय कारिकायाः मणिकास्कृतस्य तदधिकरणक्षणावृत्तित्वव्याप्यस्ववृत्ति वंसप्रतियोगिताकसमयवृत्तित्व रूपोत्पत्तिलक्षणार्थस्याव्याप्ल्यापत्तेः तत्र महाप्रलयाधिकरणक्षणाप्रसिद्धरत आह ॥ महाप्रलय इति ॥ नच. तादृशसमयसंबन्धरूपोत्पत्तिलक्षणं नित्येऽतिव्याप्तमिति वाच्यं यदधिकरणक्षणावृत्तित्वव्याप्या यत्समयवृत्ति ध्वंसप्रतियोगिता तस्य तत्समयसंबन्ध एवोत्पत्तिरित्यर्थकरणेन घटीया बक्षणवृत्तिध्वंसप्रतियोगित्वस्य पदाधि करणक्षणावृत्तित्वव्याप्यत्वेग घटे तादृशसमयसंबन्धसत्त्ववत् घटत्वाधिकरणक्षणावृत्तित्वव्याप्या यत्समयवृत्ति- ध्वंसप्रतियोगिता ताशसमयस्यैव घटलादेः नित्यत्वेनाप्रसिद्धतया घटत्वादावतिव्याप्स्यः सके । यद्यपि य- बृत्तित्वव्याप्येत्येव वक्तुमुचितं लाघवात् तथापि जन्यमात्रस्य कालोपाधितानङ्गीकर्तृमते द्वितीयादिक्षणस्यापि यत्समयशब्देनोपादातुं शक्यतया नृतीयादिसमयसंबन्धम्यापि उत्पतिपदार्थत्वापत्तेरिति उपोक्षतं । यदधिः करणक्षणा नित्वं च दधिकरणक्षणवृत्तित्वसामान्याभावरूपं ग्राह्य नातः विशिष्टाभावाभयाभावमादाय घटा. दावव्याप्तिः । मापकता चाभावीयदैशिकविशेषणतासंवन्धेन । तेन कालिकसंबन्धमादाय नोक्तदोषः । व्या. प्यता च स्वरूपसंबन्धेन ग्राह्या तेन न कालि कसंबन्धमादायोक्तदोषप्रसक्तिः । एवंच यदाधिकरणवृत्तित्वघटक: वृत्तित्वं अत्तित्वप्रतियोगिवृत्तित्वं ध्वंसस्य यत्समयवृत्तित्वं च कालिकसंबन्धावच्छिन्नं न संबन्धसामान्या- दिनकरीयम्. प्रागभाव इत्यर्धानातिप्रसङ्गः । कचित्पुस्तके पूर्व संयोगनाशावच्छिन्नविभागो वेति पाठः स च प्रामादिकः प्र. धमद्वितीय चतुर्धक्षणेचकैकोपाधेरेवाभिहिततया तृतीय क्षणे उपाधिद्वयाभिधाने सन्दर्भविरोधापत्तेः उत्तरसं. योगस्यैव विभागनाशकतायाः सिद्धान्तसिद्धतया निरुतोपाधेः क्षणद्वयावस्थायिनः क्षणत्वायोगाच । यदि च तत्पाठप्रामागेऽप्याग्रह स्तदा पूर्वसंयोगनाशस्यैव विभागनाशकत्वाभिप्रायेण स योजनीयः । चतुर्थक्षणे तमाह उत्तरसंयोगेति ॥ स्वनाशकोत्तरसंयोगेत्यर्थः । तेन सर्वस्यैव संयोगस्योत्तरसंयोगतया तद्विशिष्टकर्मणः क्षणचतुष्टयावस्थायिनः क्षणत्वापत्तिनिरस्ता। नन्वेतादृशक्षणलक्षणे महाप्रल यात्मकक्षणेऽव्याप्तं तत्र तादृश कर्माभावात् । न च महाप्रलयस्य क्षणत्वाभाच इष्ट एवेति वाच्यम् । तत्रापि क्षणव्यवहारस्य सत्त्वात् अन्यथा महाप्रलयोत्पत्ती उत्पत्तिलक्षणस्य तदधिकरणक्षणावृत्तित्वव्याप्यस्ववृत्तिध्वंसप्रतियोगिताकसमयवृत्तित्वरूपस्या व्याप्स्यापत्तेः तत्र महाप्रलयाधिकरणक्षणाप्रसिद्धरत आह ॥ महाप्रलय इति ॥ महाप्रलये क्षणव्यवहारो रामरुद्रीयम्. तथाऽपि निक्षणवृत्तित्वेऽपि. ॥ नातिप्रसङ्ग इति ॥ पूर्व संयोगनाशे स्वजन्य विभागजन्यत्वाप्रवेशे स्व. जन्यत्वाप्रवेशे च पूर्ववदतिप्रसङ्गो यः स नेत्यर्थः ।। सन्दर्भति ॥ ननु तृतीयक्षणे उपाधिद्वयस्यापि सम्भ बेन एकमात्राभिधाने न्यूनता स्यादिति द्वयमप्युक्तं इतरत्र एकैकोपाधेरेव सत्त्वादेकैकमेवोक्तमिति नैता- वता सन्दर्भविरोध इत्यत आह ॥ उत्तरेति ॥ एवकारेण पूर्वसंयोगनाशव्यवच्छेदः तथा चोत्तरसंयोगोप- त्तिक्षणेऽपि विभागस्तिष्ठत्येवेति भावः ॥ स्वनाशकेति ।। उत्तरसंयोगोत्तरं क्रिया न तिष्ठतीति लाभायैत- दाभिहितं लाघवेन स्वजन्यत्वस्यैव वक्तुमुचितत्वात् । न च पूर्वसंयोगनाशस्यत्रोत्तरसंयोगजनकत्वमिति वा. च्यम् । तथासति क्रियाविगमेऽपि तदुत्पत्त्यापत्तिः संयोगविभागयोरनपेक्षकारण कर्मेति सूत्रविरोधापत्तेश्चेति ॥