पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली परत्वापरत्वयोरसमवायिकारणसंयोगाश्रयो लाघवादतिरिक्त: काल एव कल्प्यत इति भावः। नन्वेकस्य कालस्य सिद्धौ क्षणदिनमासवर्षादिसमयभेदो न स्यादित्यत आह ॥ क्षणादिः स्यादुपाधित इति ॥ कालस्त्वेकोऽप्युपाधिभेदात् क्षणादिव्यवहारविषयः । उपाधिस्तु स्द- प्रभा. भ्यथा रूपादिकं प्रत्यपि कालत्यासाधारणकारणत्वापत्तेः अतो भावार्थमाह ॥ परत्वापरत्वयोरिति ॥ तथाव परवापरत्वे सासमवायिकारण के भावकार्यत्वात् रूपादिवदित्यनुमानात् असमवायिकारणसिद्धौ तन्त्र गुणविभा- गकारिकया क्रमेणोपस्थितसमवायिकारणमात्रगतगुणानां केषांचित् व्यभिचारित्वात् केषांचित् विनिगमनावि. रहेण बहूनामसमवायिकारणत्वापत्त्या गौरवादुमय वृत्तिद्वित्वादेरसमवाय कारणत्वं तु न संभवति द्वित्वादेर- पक्षाबुद्धयधीनत्वात् कार्योत्पत्तेः पूर्व नियमेनावर्त मानत्वात् विनिगमनाविरहाच अतो गुणविभागकारिकया विभागात्पूर्वमुपस्थितस्य संयोगस्यवो कानुमानात् सिद्धासमवायिकारणत्वं वाच्यं तादृशसंयोगस्य द्विनिष्ठत्वेन तदाश्रयत्वं कृप्तानां विनिगमनाविरहेणासंभवात् तदाश्रयतया लाघवात् अतिरिक्त एकः कालस्सिध्यतीति भावः। केचित्त ननु लाघवादेककालसिद्धौं क्षणदिनादिविरुद्धनानाव्यवहारो न स्यात् नहि क्षणत्वदिनत्वादिक- मविरुद्धं तथा सति दिनं क्षण इति व्यवहारापत्तरित्यभिप्रायेण क्षणादिस्स्यादिति मूलमवतारयति नन्वित्या- दिनेत्याहुः तदसत् क्षणत्वदिनत्वादीनां विरुद्धत्वे मानाभावात् । नचैवं सति दिनं क्षण इति व्यवहारापत्ति- रिति वाच्यं उत्पत्तिकालीनो घटो गन्धवानिति व्यवहाराभावात् दिनत्वस्य क्षणत्वाधिकरणतावच्छेदक. त्वाभावेनैव तथा व्यवहारापत्त्यभावात् कालस्त्वेकोऽपात्युत्तरप्रन्थविरोधाच । वस्तुतस्तु नन्वेककालसिद्धौ क्ष- णादिविभिन्नव्यवहारो न स्यात् व्यवहर्तव्यभेदाभावादित्याभप्रायेण मूलमवतारयति ॥ नन्विति ॥ सम यभेदो न स्यादिति ॥ विभिन्नव्यनहारो न स्यादित्यर्थः व्यवहर्तव्यभेदाभावादिति शेषः ॥ उपाधि- भेदादिति ॥ तथाच व्यवहर्तव्याभेदेऽपि व्यवहर्तध्यतावच्छेदकोपाधिभेदाद्विभिन्नव्यवहारो नानुपपन्न इति भावः । केचित्तु इदमुपलक्षणं तादृशोपाधीनामेव क्षणादिव्यवहारविषयत्वं नतु महाकालस्येत्यपि द्रष्टव्यमि- त्याहुः तदसत् मूलाविरुद्धमूलानुक्तार्थस्यैव न्यूनतापरिहारायेदमुपलक्षणमित्यादिना वक्तव्यतया मूलविरुद्धार्थ प्रतिपादनस्योपलक्षणत्वासंभवात् उक्तरीत्या एकस्यैव क्षणादिनानाव्यवहारविषयत्वसंभवे बहूना तादृशष्य. वहारविषयत्वकल्पनाया अन्याय्यत्वाच्च । इदानी क्षणत्वव्यवहारौपयिकोपाधीनाह ।। उपाधिस्त्यिति ॥ दिनकरीयम् परत्वासमवायिकारणत्वमास्त्विति वाच्यम् । कालिकपरत्वापरत्वयो यावुत्पत्त्या व्यभिचारात् । अत एवं पृथिवीपिण्डसंयोगस्य न तत्र कारणत्वम् । पृथिव्यसंयुक्तपदार्थेऽपि तादृशपरत्वापरत्वयोरुत्पादेन व्यभि- चारात् । ननु तथाप्याकाशदिगात्ममनोभिः पिण्ड संयोगस्य तथात्वं स्यात् किं कालकल्पनयेत्यत आह॥ लाघवादिति ॥ आकाशदिग्भ्यां पिण्डसंयोगस्य तथात्वे जीवात्मभिः प्रत्येकं विनिगमनाविरहादात्मम- नसास्त्वनन्तस्वान तथात्वं किं तु लाघवादतिरितः काल एव तथात्वेन कल्प्यत इति भावः ॥ ननु यदि काल एक एव तदा क्षणलवकाष्ठादिनानाव्यवहारस्तत्र न स्यात् । नचैकस्मिन्नेव घटे घटः कलश कुम्भ इति व्यवहारवदनापि क्षणादिनानाध्यवहारे बाधकाभाव इति वाच्यम् । एकस्मिन् विरुद्धनानान्यव. हारायोगात् नहि घटत्वकलशत्वादिकं मियो विरुद्धं क्षणत्वादिनत्वादिकं तु विरुद्धमेव नहि क्षणं दिनमिति प्रतीतिरस्तीत्याशङ्कते ॥ नन्वेकस्येति ॥ समयभेदः समयभेदद्व्यवहारः । विभिन्नव्यवहारविषय इति गावत् । एकस्मिन् विरुद्धनानाच्यवहारविषयत्वाभावादिति भावः ॥ उपाधिभेदादिति ॥ तथा चैकश्य रामरुद्रीयम्. कृतपरत्वादिविषयकत्वासम्भवादिति भावः । प्रत्यक्षे विषयस्थ कारणतया विषयप्रयोजकस्य सत्प्रत्यक्ष- प्रयोजकताऽबसेया ॥ व्यभिचारादिति ॥ यद्यपि स्पर्शस्य कारणत्वेन वायुपरत्वादी भ्यभिचारस्तथा- पि सतपादिकमादाय विनिगमनाविरहादनन्तगुणानां तथात्वापत्त्याइक्लप्तस्य कालसंयोगस्यैव तयारमुचि