पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता। मञ्जूषा. धर्मिविशेषणत्वेऽतीन्द्रिये द्रव्ये कर्मणि च व्यभिचारापत्तेः । नच बहिरिन्द्रियग्राह्यत्वस्यापि धर्मिः विशेषणत्वस्वीकारानायं व्यभिचार इति वाच्यं तथापि दैवात्त्वगिन्द्रियमात्रगृहीते घटविशेषे व्यभि- चारस्थ दुर्वारत्वात् । अथ वायुस्पार्शनाङ्गीकर्तृनव्यमते वायुत्वजातिमादाय वायौ व्यभिचरत्ययं हेतुः । नच द्रव्यावृत्तित्वमपि जातिविशेषणमिति वाच्यं तथा सत्यात्ममनसोव्यभिचाराप्रसक्त्या तद्वारकस्य बहि- रिन्द्रियग्राह्यत्वविशेषणस्य वैयापत्तेः । नच तद्विशेषणस्य द्रव्यावृतित्वरूपजातिविशेषण एव तात्पर्यमास्ता- मिति वाच्यं तद्विशेषणेन तदर्थस्य दुर्घहत्त्वात् । कथंचिल्लाभसंभवेऽपि शब्दो निरवयवद्रव्यामिति ये वद. न्ति ये च सावयवद्रव्यमिति तन्मतद्वयस्य प्राचीनप्रन्धेषपन्यस्तस्य निराकरणाथैव एतदनुमानप्रवृत्त्या हेतोः साध्याविशेषताया दुरित्वाच्च । उच्यते वायुस्पार्शनानङ्गीकर्तृप्राचीनमतानुसारेणैवेदमुक्तम् । नव्यमते स्वी- श्वरातिरिक्तस्याकाशस्यैवानङ्गीकारेण तन्मतसाधारणहेत्वभिधानस्यानावश्यकत्वात् । ननु नव्यमत्ते ईश्वरा. तिरिकाकाशानङ्गीकारेऽपि शब्दस्य गुणत्वसाधनमावश्यकमेव शब्दस्य ईश्वरगुणत्वानङ्गीकारादिति चेत् अ- स्तु तेषामपि शब्दस्य गुणत्वं किन्तु तत्साधको हेतुरयमेव तेषामपीति न नियमः । चक्षुर्ग्रहणायोग्यत्व- गिन्द्रियातिरिकबाहिरिन्द्रयग्राह्यजातिमत्त्वस्य हेतुत्वसंभवात् । एतन्मते चक्षुर्ग्रहणायोग्यत्वं त्वगिन्द्रियाति. रिक्तवहिरिन्द्रियाग्राह्यत्वं तच्च धर्मिविशेषणमपि संभवति चक्षुस्त्वगुभयातिरिक्तबहिरिन्द्रियग्राह्ययोदव्यकर्म- जोरभावादिति बोध्यम् । अत्रेदं शङ्कयते । अनुकूलतकाभावादुक्तो हेतुरप्रयोजक इति । यत्तु यथा रूपादि. रासनवारणाय रासनप्रत्यक्षे तादात्म्येन रसस्य कारणतायां नाच्यायां रसत्वमधुरत्वादिरासने रसाभावरस- स्वाद्यभावरासने च व्यभिचारवारणाय गुणवृत्तिलौकिकविषयताया एव कार्यतावच्छेदकसंबन्धत्वं वाच्य यथा वा रूपादिघ्राणजवारणाय घ्राणजप्रत्यक्षे तादात्म्यसंबन्धस्य गन्धस्य कारणतायां वाच्यायां गन्ध- त्वसुरभित्वादिध्राणजे गन्धाभावगन्धवाद्यभावघ्राणजे च व्यभिचारधारणाय गुणवृत्तिलौकिकविषयताया एव कार्यतावच्छेदकसंबन्धत्वं वाच्यं तथा सङ्खयादिनावणवारणाय श्रावणप्रत्यक्षे तादात्म्येन शब्दस्य कारणतायां वाच्यायां शब्दत्वकत्वादिश्रावणे शब्दाभावशब्दत्वाद्यभावश्रावणे च व्यभिचारवारणाय गुणव- तिलौकिकविषयताया एव कार्यतावच्छेदकसंवन्धत्वं वाच्यम् । तथाच यदि शब्दस्य गुणत्वं न स्यात् तदा तत्र गुणवृत्तिलौकिकविषयतासंबन्धेन श्रावणप्रत्यक्षोपादासंभवेन चक्षुरतिरिक्तं श्रीनन्द्रियरूपं यद्दहिरिन्द्रिय तबाह्यत्वं न स्यात् । तथाच हेतूच्छितिरनुकूललर्क इति तत्तुच्छम् । शब्दस्य द्रव्यत्वमशीकुर्वतां परेषा द्रव्यवृत्तिलौकिकविषयताया एव शब्दकार्यतावच्छेदकसंबन्धत्वस्वीकारसंगवात् । वस्तुतस्तु शब्दवृत्तिलौकि. कविषयताया एव शब्दकार्थतावच्छेदकसंबन्धत्व अथैवं न्यायनये गुणश्रवणकारणीभूतस्य श्रोत्रसमवायस्य संख्यादौ परनये द्रव्यश्रावणकारणीभूतस्य कर्णशष्कुलीसंयोगस्य च घटादौ सत्त्वात् संख्यादेपटादेश्च श्रावणाप- त्तिः शब्दकार्यतावच्छेदकीभूतशब्दश्रावणत्वावच्छिन्नापत्तेः तत्र तादात्म्येन शब्दविरहेण असंभवेऽपि सन्निक- फंकार्यतावच्छेदकावच्छिन्नापत्तेदुर्वारत्वादिति चेन्न श्रोत्रसमवायेन कर्णशकुलीसंयोगेन वा फले जननीये ता. दात्म्येन शब्दस्य विशेषसामप्रीत्वस्वीकारेणानुपपत्त्यभावात् । वस्तुतस्सन्निकर्षकार्यतावच्छेदकमपि शब्दना. वणत्वमेव । अतः सन्निकर्षशब्दयोः परस्परसहकारित्वान्नानुपपत्तिः इत्यादिकं स्वयमूहनीयम् । एवं रासना. दिस्थलेऽपि रसरासनत्वादिकमेव कार्यतावच्छेदकमिति बोध्यम् । तथाचाप्रयोजकोऽयं हेतुरिति । उच्यते । शाब्दस्य गुणस्वाभावे किं स्यात् न तावत्कर्मत्वं चलनाकारानुभवविषयाभावात, संयोगविभागाद्यहे. तुत्वाच्च । न सामान्यादिरूपता उत्पादविनाशादिप्रत्ययगोचरत्वात् माश्रयानिरूपणात् आंशिकत्वादि. दोषाश्च । अतः परिशेषाव्यरूपतैव वाच्या सैव च निराकरणीया पराभ्युपेतत्वात् तत्र शब्दात्मकं द्रव्यं किमुद्भूतरूपवत् उत तच्छ्न्यं आये चक्षुर्ग्रहणयोग्यता स्यात्, अन्खे बहिरिन्द्रियग्राह्यता- नुपपत्तिः । बहिन्द्रियजन्यद्रव्यप्रत्यक्षं प्रति उद्भूतरूपस्य कारणत्वात् तत्र शब्दातिरिकत्वनिवेशे शब्दा. तिरिकत्वबहिष्ट्वदव्यत्वानां विशेषणविशेष्यभावे विनिगमनाविरहेण कार्यकारणभावानन्त्यप्रसशाच शब्दप्रत्य- क्षे कारणान्तरकल्पने गौरवाचेति प्राचीनमतरीत्या हेतूच्छित्तिरनुकूलतः । नच शब्दस्य व्यत्वे तत्यैव