पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तांवळी-प्रभा-मञ्जूषा-दिनकरीय-समरुद्रीयसमन्विता । गक्षमत्वं जलादीनां प्राधान्याञ्जलीयत्वादिकमिति । अत्र यो विशेषस्तमाह ॥ देहव्यापीति ॥ शरीरव्यापक स्पर्शग्राहकमिन्द्रियं त्वक् तच्च वायवीयं रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्ज- प्रभा. समाधानमाह ॥ जलीयेति ॥ ननु तर्हि कथं जलीयत्वादिव्यवहार इत्यत आह ॥ जलादीनामिति ॥ अत्रेति ॥ त्वगिन्द्रिय इत्यर्थः । यो विशेष इति ॥ सर्वशरीरवृत्तित्वादिरूप इत्यर्थः ।। शरीरब्यापक. मिति ॥सर्वशरीरवृत्तीत्यर्थः । देहत्वव्यापकमिति यावत् । तथाच शरीरत्वव्यापक वे सति इन्द्रि यत्वं त्वांग- न्द्रियस्य लक्षणमिति फलितम् । नच नखलोमादीनां त्वगिन्द्रियानाधारत्वात् असंभव इति वाच्यं तेषां सं. योगिद्रव्यत्वेन शरीरत्वाभावात् । मूलस्थत्वगिन्द्रियमित्यस्य त्वचि स्थितमिन्द्रियमित्यर्थः । एतेन देहसहजाव. रणं त्वगित्युच्यते तच्च पार्थिवं प्रत्यक्षसिद्ध नेन्द्रियं न वायवीय चेति शङ्का निरस्ता । यद्यपि देहव्यापीति मूलस्योकरीत्या लक्षणपरत्वं संभवति तथापि तस्याश्रयपरत्वाभिप्रायेण प्रयोजनप्रदर्शनपूर्वकं तल्लक्षणं स्वय- माह ॥ स्पर्शग्राहकेति । अत्र स्पर्शविषयकत्वेन ज्ञानस्य निवेशे गौरवात् पार्शनरवेनैव निवेशः त. थाच स्पार्शनत्वावच्छिन्नकार्यतानिरूपितकारणत्वं त्वगिन्द्रियलक्षणमिति फलितं त्वक्सन्निकर्षे व्यभिचारंवा- रणाय इन्द्रियत्वनिवेशः । यदि सन्निकर्षे व्यभिचारवारणाय कारणतायां सयोगसंबन्धावंच्छिन्नत्वं निवेश्यते तदा एतादृशकारणतालाभायैव इन्द्रियपदमिति बोध्यान ॥ तच्चेति ।। त्वगिन्द्रियं चेत्यर्थः ॥ रूपादिषु मध्य इति ॥ अत्र रूपरसगन्धस्पर्शाः आदिपदार्थाः अत्रापि सप्तम्यर्थों घटकत्वं एतल्ला भाय मध्य इत्युक्त दिनकरीयम्. लादीनामिति ॥ अत्र त्वमिन्द्रिये ॥ यो विशेषः अधिष्टानादिः ॥ शरीरव्यापकमिति ॥ नच नखलोमकेशादीनां त्वगिन्द्रियानाधारत्वाद सम्भव इति वाच्यम् । तेषां संयोगिद्रव्यत्वेन श. रीरस्वाभावात् । मूलस्थत्वागिन्द्रियमित्यस्य त्वचि स्थितमिन्द्रियमित्यर्थः । एतेन देहसहजावरणं त्वगित्यु च्यते तच्च पार्थिव प्रत्यक्षसिद्धं चेति नेन्द्रियं मच वायवीयगिति परास्तम् । स्वगिन्द्रियलक्षणमाह ।। स्प. शति ॥ कार्यमात्रजनककालादावतिव्याप्तिवारणायेन्द्रियमिति । चक्षुरादावतिव्याप्तिधारणाय स्पर्शग्राहकेति । त्वक त्वगिन्द्रियमित्यर्थः ॥ तच्चेति ॥ त्वगिन्द्रियं चेत्यर्थः । पक्ष स्पर्शत्वाभिव्यजकत्वादसिद्धिवारणाय रामरुद्रीयम्. र्थकत्वे तेजसि नित्यत्वादेः कारिकायो कण्ठतोऽनुक्तेरसातिरित्यतस्तदर्थ माह । जलवादिति । ननूक्तमित्यसतं कारिकायां वायोनियतादीनामनाभिधानादित्यतस्तदर्थमाह ॥ बोध्यमिति ॥ तेयामिति ॥ लोमा- दीनामित्यर्थः ॥ संयोगिद्रव्यत्वेन ॥ शरीरसंयुक्तदव्यत्वेनेत्यर्थः । द्रव्यदयस्यैव संयोगसम्भवालोम्नो नश- रीरत्वमिति द्योतनाय शरीरसंयुक्तत्वाभिधानम् । यद्यप्येवमपि पुरातति शरीरावयव नाडीविशेषे त्वगि- न्द्रियाभावेन तस्यैवमपि न देहव्यापकतासम्भवः सुपुप्तिकाले ज्ञानवारणानुरोधेन पुरीतति तदनीकारा. तथापि देहव्यापकत्वं यावदेहावयववृत्तित्वमेव विवक्षितं तच्च पुरीतति स्वगिन्द्रियाभावेऽपि स्वप्नजन. कमध्यस्थनाडीविशेषस्यैन पुरीतत्वाङ्गीकारेणाक्षतमेव । पुरीतत्प्रदेशस्य नाज्यवयवत्वेऽपि शरीरावयवत्वा- भावात् । न च शरीरध्यापकत्वं शरीरनिष्ठप्रतियोगिव्यधिकरणाभावाप्रतियोगित्वमेव तथा च पुरी- ततः शरीरावयवत्वेऽपि तद्वच्छेदेन शरीरवृत्त्यभावप्रतियोगित्वेऽपि त्वगिन्द्रियस्य न शरीरध्यापकत्वानुपपत्ति- रिति वाच्यम् । तथासति केशादीनां शरीरावयवत्वेऽपि क्षतिविरहेण ग्रन्थकृतां तेषां द्रव्यान्तरताव्यवस्था- पनस्य वैफल्यापत्तेः । परे तु मिद्धान्तनभोभाग एव पुरीतत् । गगने त्वगभावादेव तन्त्र मनसोऽवस्था- नदशायां ज्ञानानुत्पादः एतदभिप्रायेणैव रे रे मानस पालितं प्रतिजनुर्देहान्तरे त्वं सदा तस्म स्कृष्णपदाम्बुजे क्षणमपि प्रस्थीयतां रे मनः । इत्थं प्रार्थितमानसं निजगृहप्रध्वंसशकाकुलं मिद्धा. मध्यवियद्तं न च गतं तत्पादपक्केरुहं इति प्राचीनपद्यमपि सङ्गच्छत इति प्राहुः । सहजावरणं स्वाभाविका- वरणं चर्मरूपम् ॥ कालादाविति ॥ यद्यपि स्पार्शनत्वावच्छिन्नजन्यतानिवेशे न कालादावतिव्यप्तिः आवश्य- कश्च लक्षणे ताशजन्यतानिवेशः अन्यथा जन्यमानस्य कालोपाधितामते चक्षुष्यतिव्याप्तितादवस्थ्याव 1