पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली -प्रमा-मजूषा-दिनकरीय-रामरुद्रीयसमन्वितम पूर्ववन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् ॥ ४३ ।। वायुर्न प्रत्यक्षस्तथाऽने वक्ष्यते ॥ पूर्ववदिति ॥ वायुर्द्विविधो नित्योऽनित्यश्च परमाणुरूपो प्रभा. संयोगासमानकालीनप्रत्यक्षविषयस्पर्शः क्वाचेदाश्रितः स्पर्शत्वात् वह्निसमवेतस्पर्शवत् पृथिव्यादिसमवेतस्पर्श सिद्धसाधनवारणाय रूपब व्यसंयोगासमानकालीनत्वं प्रत्यक्षविशेषणम् । एवं वीणाध्वनिः स्पर्शवद्वेगवद् व्यसं- योगजन्यः विभागाजन्यशब्दसन्तानत्वात् मृदङ्गावच्छेद्यशब्दसन्तानवत् । वंश दलद्वयविभागजन्यशब्दे व्यभि- चारवारणाय हेतौ विभागाजन्यत्वनिवेशः । एवं मेघनिष्ठपतनाभावः स्पर्शवद्वेगवद् व्यसंयोगजन्यः जन्यप्रयत्ना- जन्यधृतित्वात् नौकादिश्रुतिवत् । प्रयत्नवदात्मसंयोगजन्यपुस्तकादिधृतौ व्यभिचारवारणाय धृतौ जन्यप्रयत्ना- अन्यत्वनिवेशः । एवं रूपवव्याभिधातशून्यतृणसमवेतकर्म स्पर्शवद्वेगवव्याभिघातजन्यं विजातीयकर्मत्वात् प्रवाहाभिखातकुशादिकर्मवदिति ॥ अग्रे वक्ष्यत इति ॥ रूपमत्रापि कारणमिति कारकाव्याख्यानावसर दिनकरीयम्, सिद्धसाधनवारणाय रूपबद्दव्यासमवेत इति विशेषणम् । एवमसति रूपबद्दव्याभिधाते पर्णादिषु श ब्दसन्तानः स स्पर्शवद्वेगवद्व्यसंयोगजन्यः अविभज्यमानावयवद्रव्यसम्बन्धिशब्दसन्तानत्वात् दण्डाभिह- तभेरीशब्दसन्तानवत् । पृथिव्याभिधातजन्मनि सिद्धसाधनवारणायासतीत्यादिपक्षविशेषगम् । विभागजन्म- नि शब्दे व्यभिचार वारणाय हेतावविभज्यमानेति । एवं नभसि तृणतूलस्तनयित्नुत्रिमानादीनां धृतिः स्पर्श- वद्वेगवव्यसंयोगहेतुका अस्मदाद्यनधिष्ठितद्रव्यधृतित्वात् नौकाधृतिवत् जलादिगततृणादौ सिद्धसाधनवारणाय नभसीति । प्रयत्नवदात्मसंयोगहेतु कधृत्यादौ व्यभिचारवारणायास्मदादीति । एवं रूपवव्याभिघातमन्तरेण तृणे कर्म स्पर्शवद्वेगवद्व्याभिधातजन्यं विजातीयक भवात् नदीपूराहतकाशादिकर्मवदिति ॥ अग्रे वक्ष्यत इ ति॥ आत्मनिरूपणावसर इत्यर्थः ॥ मूले पूर्ववन्नित्यतायुक्तमिति ॥ पूर्ववज्जलवादित्यर्थः । नित्यतादीत्या दिनाऽनित्यत्वपरिप्रहः । उक्तं बोध्यामत्यर्थः । एतदेव स्पष्टयति ॥ मुक्तावळ्यां वायुर्द्धिविध इति ॥ तत्र रामरुद्रीयम्. सिद्धसाधनवारणायेति ॥ इदं च स्पर्शत्वसामानाधिकरण्येन द्रव्याश्रितत्वसाधनाभिप्रायेणावच्छेदकाव- च्छेदेन साध्यसिद्धौ सामानाधिकरण्येन सिद्धेरप्रतिबन्धकत्वादेवमग्रेऽपि बोध्यम् ॥ शब्दसन्तान इति ॥ यद्यपि वेगवव्यसंयोगस्यैव शब्दजनकतया साध्ये स्पर्शवत्त्वविशेषणमनर्थकं शब्दजनने स्पर्शानुपयो। गात्तथापि उक्तानुमानेनैव वायोः स्पर्शस्यापि सिद्धयर्थं तदुपातं साध्ये व्यर्थविशेषणत्वस्यादोषत्वादिति ध्ये. यम् । यत्तु गगनादिसंयोगहेतुकत्व सिद्धयाऽर्थान्तरतावारणाय स्पर्शवदिति नन्वेवमपि तेजःसंयोगहेतुकत्व. सिद्धयाऽर्थान्तरता तदवथैवेत्यस्वरसादाह वेगवदिति तन्न वेगपदं चात्र व्यान्तरक्रियाजनकवेगपरं तेन ते. जस्यपि वेगसत्त्वेन तदुपादानेऽपि नार्थान्तरतापत्तिरेवं च स्पर्शवत्त्वोपादानं वायो स्पर्शसिद्धयर्थमेवेत्यवधेयम् । अस्मदाद्यनधिष्ठितेति ॥ प्रयत्नवदात्मसंयोगाप्रयुक्तद्रव्यधृतित्वादित्यर्थः ॥ नौकातीति ॥ जलस्थ- द्रव्यधृतिवादित्यर्थः ॥ जलादिगतेति ॥ इदं चावच्छेदकावच्छेदेन साध्यसिद्धेर्नोद्देश्यता किं तु सागना- विकरण्येनेत्यभिप्रायेण । अन्यथा तादृशतृणादिभूतौ साध्यस्य सिद्धावपि वायुमात्राधिष्टिततृणादिधृता. वेव साध्यस्यासिद्धतया अवच्छेदकावच्छेदेन साध्यसिद्धयभावात्तादृशानुमितौ बाधकःभावेन सामानाधि-. करण्येन साध्यसिद्धरकिंचित्करत्वापातात् सामानाधिकरण्येन साध्यासिद्धयाऽपि वायुसिद्धिसम्भवेनावच्छे- दकावच्छेदेन साध्यंसिद्धरुद्देश्यत्वे प्रयोजनाभावादिति भावः ॥ नमसीति ॥ वायुभिन्नस्पर्शवदनाधिष्ठितेति तदर्थः । नभःसंयुक्तार्थकत्वे जलस्थतृशादितिव्यावर्तनासम्भवादिति मन्तव्यम् ॥ प्रयत्नवदिति ॥ पर मेश्वरधृतपृथिव्यादिलोकधुत्यादा वित्यर्थः नत्वस्मदादिधृतघटादिधृत्यादाविति तदर्थः सम्भवति । तत्रास्मदा. दिहस्तादिरूपतादृशद्रव्यसंयोगहेतुकत्वरूपसाध्यस्यापि सत्वेन व्यभिचाराप्रसक्तरिति ध्येयम् । कर्मणा वायुसिद्धिप्रकारमाह ॥ एवमित्यादिना ॥ पार्थिवाभिघार जन्यतृणादिकर्मणि सिद्धसाधनवारणायान्तरेणे- स्युक्त साध्ये स्पर्शवत्वोपादानप्रयोजनं पूर्ववदेवं । चेष्टात्मकक्रियायां व्यभिचारवारणाय हेतौ विजा- -