पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्ताकळी-प्रभा-मजूषा-दिनकरीय-रामभद्रीयसमन्विता । शेन विलक्षणशब्देन तृणादीनां धृत्या शाखादीनां कम्पनेन च वायोरनुमानात् । यथाव प्रभा. मूले स्पर्शादिलिङ्गक इति ॥ भावप्रधाननिर्देशात स्पर्शत्वादिलिङ्गक इत्यर्थः । अथवा स्पर्शादीने लिङ्गा- निज्ञापकानि पक्षरूपाणि यस्येति विग्रहात् हेतुज्ञानस्येव पक्षज्ञानस्यापि अनुमितिहेतुत या पक्षस्याफि ज्ञाप- कत्वलाभात् तथाच स्पर्शादिपक्षकानुमित्या वायुत्सिध्यतीति भावः । स्पशादिलिङ्गक इलि मूलस्य यथाश्रु- तार्थमाह ॥ मुक्तावळ्यां वायुहत्यिादि ।स्पर्शत्वावच्छिनादीनां पक्षत्वे भागासिद्धिप्रसक्त्या तादृशमूल- स्य तात्पर्यार्थमाह !| विजातीयस्पर्शनेत्यादिना ॥वायोरतुमानादिति ॥ अनुमानप्रकारश्च रूपवह व्य. मजूषा. नातिरिक्त क्रियाशून्यत्वे सति क्रियावानित्यर्थः । यदि तु वायौ भ्रमणादिकं स्वीक्रियते तदा नेदं लक्ष. णपरं किंतु वायाबुत्सर्गतः तिर्यग्गमनमेव वात्यादौ क्वचिदेव भ्रमणाद्युत्पादादिति प्रदर्शनपरं वक्तव्यम् ॥ स्प. शादिलिङ्गक इति ।। अथ वक्ष्यमाणानुमानेषु स्पर्शवादीन्येव लिङ्गानि तत्कथमुच्यते स्पर्शादिलिङ्गक इति । अन्न केचित् वक्ष्यमाणानुमानेषु स्पर्शादीनामेव तादात्म्यादिसंबन्धेन हेतुत्वामित्यभिप्रायेणेदमुक्त- मित्याहुः अन्ये तु स्पर्शादिपदं स्पर्शत्वादिपरं अतो न दोष इति व्याचक्षते । एतन्मते स्पर्शादिलि. नक इति मूलसङ्गतावपि मुक्तावळीग्रन्थः क्लिश्यते । तत्राहि विजातीस्पर्श नेत्युक्तं । तत्र यदि स्पर्श- त्वमेव स्वर्शपदार्थः तदा विजातीय पदार्थः कुत्र अभेदेनान्वीयात् विजातीय पदस्य सामानाधिकरण्यसं.. बन्धेन वैजात्यविशिष्टपरत्वं तु स्वारास कलक्षणैकानिर्वाह्यम् । विजातीयवस्वामित्यक्ष तु अभेदेन विजा- तीयपदार्थान्वितस्य शस्य स्वप्रत्ययार्थे सामानाधिकरण्यासंबन्धेन' चैजात्यविशिष्टस्पर्शत्वे आधेयतासं- बन्धेनान्वयान्नानुपपत्तिः नच विजातीयस्पर्शनेत्यत्र स्पर्शपदं स्पर्शत्तित्वविशेषितस्पर्शत्वपरं तत्र स्पर्श विजातीयपदार्थान्वयान ममाप्यनुपपातरिति वान्यं स्पर्शस्य ससंबन्धिकातिरिक्तपदाथै कदेशतया स्प. शंवृत्तित्वविशेषितात्पर्शत्वतात्पर्य के दम्पदघटिते विजातीय मिदमिति वाक्य इव विजातीयस्पर्श इति वा- क्येऽपि स्पर्शे पदार्थान्तरान्वयासंभयात् एवं विलक्षणशब्देनेलादावपि योजनीयम् । अस्मद्गुरुचर- णास्तु लिङ्गपदं ज्ञापकपरं हेतुज्ञानस्येच पक्षज्ञानस्यापि अनुमितिहेतुतया पक्षस्यापि ज्ञापकत्वम- विरुद्ध तथाच स्पर्शादिपक्षकानुमितिविषय इति फलितोऽर्थ इत्याहुः । एतन्मते विजातीयस्त- शेनेत्यादिमुक्तावळीग्रन्थोऽपि पक्षीभूतेन विजातीयवादिना बायोरनुमानादित्यर्थकतया सूपपाद एव । युज्यते चायमेव पक्षः । तथाहि वक्ष्यमाणानुमाने स्पर्शदमव हेतुः ग वैज्ञात्य विशेषितं स्पर्शत्वं प्रयोजनाभावात् सर्वसपक्षव्यावृत्तत्वेनासाधारण्यापाताच । अत एव केदलमपि वैजात्यं न हेतुः । एवं तादात्म्येनं स्पर्शहेनुतापक्षे स्पर्शत्वमेव हेतुतावच्छेदकं नतु वैजात्यनिशेषितं वैजात्यमेव वा उक्तदोषात् । तथाच विजातीयस्पर्श नेत्यादिग्रन्धो यदि हेतुप्रदर्शनपर एवं स्थात् तहि दिजातीय- पदं व्यर्थ स्यात् । पक्षप्रदर्शनपरत्वे तु पृथिव्यादिस्पर्शस्य पक्षताब्युदासाय तत्पदं सार्थकम् । य- द्यपि पृथिव्यादिस्पर्शसाधारणस्पर्शस्वस्य पक्षतावच्छेदकत्वेऽपि अवच्छेदकावच्छेदेन साध्यसिद्धरुद्दे. इयत्वे सिद्धसाधनानवकाशात् न दोपप्रसक्तिः । तथापि पक्षतावच्छेदकसामानाधिकरण्येन साध्यसि. द्धदेश्यत्वेऽपि दोषाभावाय वैजात्यमेव पक्षतावच्छेदकं वक्तव्यम् । अथैवं सति स्पर्शपदमनर्थकामिति चेत् स्पर्शनिष्ठमेव वैजात्यमिह ग्राह्यमित्येतदर्थ स्पर्शपदोपादानात विजातीयसंयोगी विजातीयरूपमि.या. दिरीत्या विजातीयशब्दस्य सामान्यधर्मावच्छिन्नयत्किंचिद्विशेष्यवाचकपदसमाभिव्याहारेणैव भूरिप्रयोगात् कल्पवृक्षो नाकलोकोऽङ्गदेशो गङ्गानदीत्यादौ वृक्षत्वादेरिव स्पर्शत्वस्याप्युपरक्षकत्वसंभवाञ्छ । विजातीयत्वं तु नोपरञ्जक सामान्यधर्मस्वाभावात् विधेयत्वाच । दृश्यते च पक्षस्यापि कारणधारानुमापकत्वमिति निर्देशः यथा कार्यायोजनधृत्यादरित्यादिः । तस्मात् युक्तसेव स्पादिलिङ्गक इति कथनम् ॥ मुक्तावळ्या विजातीयस्पर्शेनेति ॥ अत्र विजातीयस्पर्शी द्रव्याश्रितः स्पर्शत्वात् घटादिस्पर्शवदित्यनुमानम् ॥ विलक्षणशब्देनेति ॥ अनासति रूपबद्दव्याभिधाते योऽयं पर्णादिषु मर्मरशब्दसन्तानः स स्प- 45