पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-मजूषा-दिनकरीय-रामाद्रीयसमन्विता । पाकज इति । अपाकजस्पर्शस्य जलादावपि सञ्चादुक्तमनुष्णाशीतेति । एतेन वायवीयो त्रि- जातीयस्पर्शी दर्शितः तज्जनकतावच्छेदकं वायुत्वमिति भावः ।। ४२ ॥ प्रभा. अपाकजानुष्णाशीतस्पर्शस्तु पवने मत इति मूलस्य वायुवजातौ प्रमाणपरत्वं दर्शयितुं अपाकजादि- पदानां प्रथमं प्रयोजनमाह ॥ अनुष्णाशीतस्पर्शस्येति ॥ अनुष्णाशीत इतीति ॥ नच तथापि पटादावतिव्याप्तिः तदीयस्पर्शस्यापाकजत्वादिति वाच्यं अपाक जत्वघटकजन्यत्वस्य साक्षात्परम्परासाधार- णप्रयोज्यत्वपरतया पृथिवीपरमाणुस्पर्शस्य तेजस्संयोगजन्यत्वेन पटादिनिष्ठस्पर्शस्यापि पाकप्रयोज्यत्वात् पाकाप्रयोज्यानुष्णाशतिस्पर्शवत्वं न कस्याधिपृथिव्या इत्यतिव्याप्त्यप्रसक्तः । केचिनु पटादाबातिव्याप्तवा- रणायापाकजानुष्णाशीसस्पर्शवत्त्वव्याप्यद्रव्यत्व साक्षायाप्यजातिमत्त्वं पाकजानुष्णाशीतस्पर्शवदवृत्त्यनुष्गाशी. तस्पर्शववृत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वं वा तदर्थोऽबसेय इत्याहुः तदसत् यथाश्रुतस्यैव निर्दुष्टत्वसंभवे उ. कपरिष्कारस्य निर्वाजत्वात् । नच यथावतलक्षणस्योत्पन्नाविनष्टवायवङ्गीकर्तृमते अव्याप्तिरिति वाच्यं तादृश. वायौ मानाभावात् । अथवा अनुष्णाशीतस्पर्शवद्वृत्तिपृथिव्यवृत्तिजातिमत्त्वमेच तलक्षणम् । अनुष्णाशीतस्प. शवत्वे अपाकजत्वकथनं तादृशजातौ पृधिव्यवृत्तित्वलाभायेति बोध्यम् । एतेनेति ॥ अनुष्णाशीतस्पर्श- मञ्जूषा. मूलोक्तलक्षणघटकानां त्रयाणां । २५ णानां प्रयोजनान्याह ॥ अनुष्णाशीतस्पर्शेत्यादिना ॥ जला. दाविति ॥ जलतेजसोरित्यर्थः । नच कारणगुणप्रकाजन्यस्पर्शवति घटादौ उक्तलक्षणमातव्याप्तमिति वाच्यं अपाकजपदस्य पाकप्रयोज्यभिन्नपरतया पार्थिवस्पर्शमात्रस्य परमाणुस्पर्शद्वारा पाकप्रयोज्यतया- तिव्याप्त्यप्रसक्तेः । वाथुत्वजातौ प्रमाणोपन्यासार्थमाह ॥ एतेनेति ॥ अपाकजत्वादिकथनेनेत्यर्थः॥ वि- जातीयः पृथिव्यादिस्पशव्यावृत्तजात्यवच्छिन्नः ॥ दर्शितः स्मारितः । अशकजवादिसहितस्पर्श. स्वोपस्थित्या तत्सहचारततादृशवजात्यस्य स्मरणसंभवादिति भावः । तादृशवैजात्ये प्रमाणाभाव इति तु न शङ्कयं क्षीररसादौ गुडादिरमव्यानजातिविशेषत्येव वायुम्पर्शे पृथिवीस्पशव्यावृत्तजातिविशेषत्यानु भवसिद्ध वादिति केचिद्याचक्षते । न चात्र पाकजस्पर्शवत्वरूपपृथिवी लक्षणेऽपि पाकप्रयोज्यस्वनिवेशेनैव दिनकरीयम्, शवदवृत्त्यनुष्णाशतिस्पर्शवगृत्तिद्रव्यत्वसाक्षाद्याप्यजातिमत्त्वं वा तदर्थोऽवसेयः ॥ एतेन स्पर्शस्या- नुष्णाशीतत्वादिकथनेन ॥ तज्जनकतावच्छेदकामिति ॥ तथा च विजातीयस्पर्शजनकतावच्छे. देकतया वायुत्वजातिसिद्धिः । इदमुपलक्षणम् । शब्दविशेषस्य वह्नित्वावाच्छन्नस्य वा निमित्तकार- णतावच्छेदकतया वायुत्वजातिसिद्धिरित्याप द्रष्टव्यम् ॥ ४२ ॥ रामरुद्रीयम्. द्भिन्नावृत्तित्वमात्रं न तु तादृशस्पर्शवद्वृत्तित्वमपि तत्र घटकं प्रयोजनविरहादात्मत्वादेरपि तादृशस्पर्शवाद्ध- अवृतित्वादेव वारणात् । पटत्वादिकमादायातियाप्तिवारणाय साक्षाद्वयाप्यत्वनिवेशः तच्च द्रव्यत्वव्या- प्यजात्यव्याप्पत्वमात्रं गुणादिवृत्तिजातीनां तादृशस्पर्शवद्भिन्नावृत्तित्वदलेनैव वारणात् वायुपटद्वित्वमा- दायातिव्याप्तिवारणाय जातिपदम् । अपाकजस्पर्शवाद्भन्नावृत्तित्वानवेशनैव पृधित्विवारणसम्भवेऽपि जलवादीनामवारणादनुष्णाशीतस्पर्शवादियुक्तम् । प्रथमस्याधिकाभावद्वयावच्छिन्ने धृत्तिताद्वयघटितत्वेन आ- धिक्यादेकाधिकरणाधेयत्वघटितं लधुभूतं कल्पान्तरमाह ॥ पाकजेति ॥ पृथिवीत्ववारणायावृत्त्यन्तम् । जलत्वधारणाय वृत्त्यन्तम् । स्पर्शत्वव्याप्यजातिविशेषावाच्छन्न परमनुष्णाशीतपदमिति लाभायैवात्र स्प- शंपदमन्यथा उष्णशीतभित्रज्ञानादिमद्वृत्त्यात्मत्वजातिमादायैव आतिव्याप्तः । पूर्वदले स्पर्शपदं तु स- मवायेन पाकजवत्त्वलामायान्यथा वायोरपि कालिकादिना पाकजस्पर्शवत्तयाऽसम्भवापत्तेः अन्यत्पूर्वव. वदनुसन्धेयम् ।। एतेनेति ॥ वस्तुतस्तु यद्यपीत्यादिना दर्शिताशङ्कानिरासायैव मूले एतेनेत्यादिग्रन्थः । त..' था च विजातीयस्पर्शवत्त्वस्यैव वायुलक्षणत्वे न कोऽपि दोष इति मूलाभिप्राय इति युक्तमुत्पश्यामः ॥ ४२ ॥