पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रर -प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ३४९ - प्रभा. निसंयोगसमानकालीनपूर्वरूपविजातीयरूपानाधारत्वादिति हेतु: फलितः । एककाला बच्छिन्नसामानाधि- करण्यसंवन्धेनात्यन्ताग्निसंयोगविशिष्टपूर्वरूपविजातीयरूपानाधारत्वादिति निष्कृष्टो हेतुरिति न काप्यनु- पपत्तिरित्यास्तां वित्तरः । नचोक्तानुमानस्याप्रयोजकत्वमिति वाच्यं प्रतियोगितासंबन्धेनाश्रय-. नाशाजन्यरूपनाशं प्रति स्वानुयोगिसमवेतत्वसंबन्धेन विजातीयतेजस्संयोगस्य प्रतिबन्धकाभावसहितस्य फलोपधायकत्वात् एतादृशकार्यकारणभावरूपानुकूलतर्कसत्त्वेनाप्रयोजकत्वशङ्काया अनवकाशात् । नच द्रव द्रव्याभिन्नमेव प्रतिबन्ध कमित्युच्यतामिति वाच्यम्। द्रवद्रव्यभिन्नस्य प्रतिबन्धकत्वे वाय्वादिसंयोगस्य प्रतिबन्ध कस्यात्रैव घटादाच पि सत्त्वेन विजातीयतेजस्सयोगकाले रूपनाशानापत्तेः अदृष्टस्य प्रतिबन्धकरवे तु अदृष्टरूपक. ल्पनापेक्षया द्रवद्रव्यस्य कृप्तस्य प्रतिबन्धकत्वकल्पनाया एव लघुत्वात् ॥ तस्य चेति ॥ द्रवव्यस्य चेत्यर्थः ॥ पृथिवीजलभिन्नस्येति ॥ पृथिव्याः पक्षविजातीयत्वाभावात् जलस्य तत्रासंभवादिति भावः ॥ तेजस्त्वनियमादिति ॥ वाय्बादौ रूपाभावादिति भावः । नचान्धकारे पीतद्रव्यप्रत्यक्षापत्तिः सुवर्णरूपालोकसंयोगसत्त्वादिति वाच्यम् उद्भूतानभिभूतवदालोकसंयोगस्यैच द्रव्यप्रत्यक्षहेतुत्वस्वीकारेण सुवर्णसंयोगस्यातयात्वात् । नच तदानी पीतरूपस्याग्रहात्सजातीयग्रहप्रकृतमग्रहणं न सुवर्णरूपस्येति न तस्याभिभूतत्वमिति वाच्यं लाघवेन सजातीयसंवन्धस्यैवाभिभवपदार्थत्वस्वीकारात् । नच तथाप्यन्धकारे सुवर्णसाक्षात्कारापत्तिः तेजोभिन्नद्रव्यचाक्षुषं प्रत्येवालोकसं योगम्य हेतुत्वादिति वाच्यं सुवर्णभिन्नतेजाभि- नद्रव्यचाक्षुषं प्रत्येव तस्य हेतुत्वस्वी कारादिति । नवोनास्तु सुवर्ण पार्थिवमेव पीतं सुवर्ण कृतमिति साक्षात्संवन्धेन द्रवस्व प्रतीतेभ्रमत्वायोगात् द्रुतं द्रुततरमिति प्रतीतेवत्वस्याप्यत्यन्तमुच्छेदात् मञ्जूषा. लीनस्य सुवर्णरूपग्रहणाभावस्य स्वसजातीयमहाप्रयुक्त वासंभवात् । नच स्वसजातीयसंबन्धप्रयुक्तस्वग्रहणा- भावकत्वमभिभूतत्वमिति वाच्यं एवमपि स्वग्रहणपदेन स्वविषयकज्ञानसामान्यविवक्षणे सुवर्णरूपविष. यकानुमिति दशायां तस्याभिभूतत्वानुपपत्तिः स्वविषयकलौकिकप्रत्यक्षविवक्षणे सुतरी सुवर्णरूपविषय-- कलौकिकप्रत्यक्षाप्रसिद्धः । यत्तु स्वसजातीयसंवन्ध एवाभिभव इति नीलकण्ठः तन्न सौरालोकादेरपि रूपबद्दव्यान्तरसंयोगात् रू व व्योपष्टब्धवृत्तित्वमेव सजातीयसंबन्धपदार्थः उपष्टम्भश्च विजातीयसंयोग इति चेदेवमपि चन्द्रकिरणादेः शीतलसलिलावयवोपन्धस्य चाक्षुषजनकत्वानुपपत्तेः पार्थिवभागोपष्टम्भ- विवक्षणेऽपि वैश्वानरपद्मरागकिरणादेस्तदनुपपत्तेः । उच्यते । स्वसजातीयसंबन्धनयुक्तं यल्लौकिकवि- षयतासंबन्धावच्छिन्न प्रतियोगिताकप्रत्यक्षाभावाश्रयत्वं तदेवाभिभूतत्वम् । सुवर्णरूपनिष्ठलौकिकविषयतया प्रत्यक्षाभावे पातपार्थिवभागोषष्टम्भस्य प्रयोजकत्वान्नानु पत्तिः । वैश्वानरपद्मरागकिरणादौ रूपं नाभिभू. तं किन्तु शुक्लत्वमभिभूतमिति स्वीकारेण न तस्य प्रत्यक्षजनकत्वानुषपत्तिः । अथैवं सत्यन्धकारे सुवर्णा- स्मकं तेजः कुतो न गृह्यते तेजोभिन्नद्रव्य चाक्षुषं प्रत्येव तेजस: कारणत्वात् । नचैवं द्रव्यचाच. पजन्यतावच्छेदककोटौ तेजोभिन्नत्वनिवेशे तेजश्चाक्षुषोपधायकचक्षुस्संयोगादिघटितसामग्रीबलादन्धकारे घटादिचाक्षुषापत्तिः तेजश्चाक्षुणे व्यभिचारेण चक्षुस्संयोगादिघटितसामग्या फले जननीये संयोगेन तेजससहकारित्वासंभवादिति वाच्यम् तेजश्चाक्षुषं प्रति तादात्म्येन तेजसोऽपि कारणतां कल्पयित्वा चक्षुस्संयोगादिघटितसामय्या फले जननीये संयोगतादात्म्यान्यतरसंबन्धेन तेजसस्सहकारित्वकल्पनेनानु- पपत्त्यभावात् । तथाच तादात्म्येन सुवर्णात्मकतेजोरूपसहकारिबलादन्धकारे सस्य चाक्षुषापत्तिः । अथ तेजोनिष्ठायां संयोगसंबन्धावच्छिन्नायामिव तादात्म्य संवन्धावच्छिन्नायामपि चाक्षुषकारणतायाम- नभिभूतरूपवत्तेजस्त्वस्यैवावच्छेदकतास्वीकारान्नान्धकारे सुवर्णचाक्षुषापत्तिः । न चैवमालोकसंयोगसम- पधानकालीनचाक्षुषविषये सुवर्णे तादात्म्येनानभिभूतरूपवतः तेजसोऽसत्त्वाद्यभिचार इति वाच्यम् अ- नभिभूतरूपवत्तेजश्चाक्षुषत्वस्यैव तादात्म्यसंबन्धावच्छिनतेजोनिष्ठकारणतानिरूपितकार्यतावच्छेदकत्वस्वीका. रादिति चेदेतावता तेजोभिन्नद्रव्यचाक्षुषे संयोगेनानभिभूतरूपवत्तेजश्चाक्षुषे च तादात्म्येनानाभिभूतरूपवरोज.