पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामभद्रीयसमाविता। उष्णः स्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । तेजो निरूपयति ।। उष्ण इति ॥ उष्णत्वं स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिद्धः मन्जूषा. न्ये न क्षमन्ते करकायां द्रवत्वानुत्पादस्य विश्वनाथाभिप्रेतत्वे सांसिद्धिकद्रवत्वलक्षणे जातिघटनामा वानुपपत्तेः सांसिद्धिकरवत्वजनकतावच्छेदकतया जलत्वजातिसिद्धद्युत्कीर्तनानुपपत्तेश्च । नच यथा ग. न्धसमवायिकारणतावच्छेदकतया सिद्धायाः पृथिवीत्वजातीलादिजनकतावच्छेदकत्वं तथा स्नेहादिज. नकतावच्छेदकतया सिद्धाया जलत्वजातेस्ससिद्धिकदवत्वजनकतावच्छेदकरवं न विरुध्यत इति वाच्यं यतो न वयं जलवस्य सांखिद्धिकद्रवत्वजनकतावच्छेदकत्वानुपपत्तिमुद्भावयामः किन्तु तदवच्छेद. कतया तत्सिद्धयभिधानानुपपत्तिमेव । नोकदेशमात्रवृत्तिजनकतावच्छेदकतया निश्शवं जातिसिद्धिमभि- धत्ते विश्वनाथः तथा सति नानारूपवती मतेत्यादौ नीलादिजनकतावच्छेदकतया पृथिवीत्वसिद्धयभि. धानोपेक्षाया निबोजतापातात् । किंच करकादेरद्रवत्वाभिप्राये रूपद्रवस्त्र प्रत्यक्षयोगिनः प्रथमास्त्रय इत्यत्र द्रवत्वलक्षणे घटादौ द्रुतसुवर्णादिभिन्ने तेजसि चेत्यनेन प्रन्थेन पृथिवीतेजसारव्याप्तिशङ्कायां क- रकादिरूपजलाव्याप्तिशोपेक्षा निर्वाजा स्यात् तस्मात् द्रवत्वतिरोधानं द्रवत्वसाक्षात्काराभावः तत्प्रयोजकत्वं च करकत्वादिसाक्षात्कारजनकादृष्टस्य कल्प्यते द्रवत्त्वसाक्षात्कारे करकत्वादेस्साक्षात्कमशक्यत्वात् । तत्र दवत्वनिष्ठलौकिकावषयतानिरूपितलौकिकविषयतासंबन्धेन साक्षात्कारत्वावच्छिन्न प्रति जन्यतासंबन्धेन करकत्वसाक्षात्कार प्रयोजकादृष्टग्वेन करकारम्भकादृष्टत्वेनैव वा प्रतिबन्धकत्वं करकात्वविशिष्टजन्यतासंबन्धे- नादृष्टत्वेनैव वा प्रतिबन्धकत्वं प्रतिबध्यत्वन्तु पूर्वोक्तमेव । नन्वनुभूयमानारोपजनकदोषविशेषसमवधा- नेऽन्यदीयद्वत्वनिष्टलौकिकविषयतानिरूपितविषयतासंबन्धेन साक्षात्कारस्य करकायामुत्पत्त्या व्यभिचारः करकाद्रवत्वनिष्ठलौकिकविषयतायाः कार्यतावच्छेदकसंवन्धघटकत्वं च न संभवति अप्रसिद्धेः हरिरामदर्शि- तरीत्या भगवज्ञानीयविषयताथा लौकिकावस्वीकारेऽपि कार्यतावच्छेदकसंबन्धन कार्योत्पत्त्यप्रसिद्धेदुरित्वा. त् नित्य साधारणधर्मस्य कार्यतावच्छेदकत्वानजीकारपक्षे जन्यसाक्षात्कारत्वस्यैव कार्यतावच्छेदकताया वा- च्यतया कार्यतावच्छेदकसंबन्धेन कार्यतावच्छेदकधर्मावच्छिन्नस्यैव क्वचिदसत्त्वाच । अन्य दीयद्रवत्वनिष्टलौकि कविषयताशालिकरकासाक्षात्कारस्यापि किंचिदशे प्रमात्वेन कार्यतावच्छेदककोटौ प्रमात्वनिवेशनेनापि नो कव्यभिचारवारणसंभवः । सर्वाशे प्रमावनिवेशे च करका नीलेल्याकारके नीलत्वाद्यशे भ्रमात्मके करकासा- क्षात्कारे तदीयद्रवत्वस्य लौकिकविषयतायो वाधकाभावप्रसङ्ग इति चेन्न स्वाश्रयद्रवत्वसमानाधिकरणत्वस्वनि- रूपितत्वोभयसंबन्धेन लौकिकविषयताविशिष्ट विषयतायाः कार्यतावच्छेदकसंबन्धत्वस्वीकारेण सर्वानुपपत्तिप. रिहारात् । स्वं द्रवत्वनिष्ठलौकिकविषयता परन्तु यथोपदर्शितसंबन्धेन साक्षात्कारत्वावच्छिन्नं ति करकाया एव प्रतिबन्धकत्वमुचितं लाघवात् एवं पूर्वकल्पेऽपि समवायेन द्रवत्वं प्रति तादा- स्म्यसंबन्धेन करकाया एवं प्रतिबन्धकत्वं युक्तं न त्वदृष्टस्य गौरवादिति बोध्यम् । अत्राचीनाः हिमकरकयोः इवत्वसाक्षात्कारे नादृष्टविशेषस्य विशिष्य प्रतिबन्धकता तथा सति लोके प्रतिबन्धका- न्तरविलोपप्रसङ्गात् । नापि हिमकरकयोस्तादात्म्येन तथा सति प्रतिबन्धकताद्वयस्वीकारापत्तः । किंतु घनीभावापरनामा विजातीयो निबिडाख्योऽवयवसंयोग एवं सामानाधिकरण्यसंबन्धेन हिमकरको. भयसाधारण्येन फेनबुझुदादिसाधारण्येन च प्रतिबन्धकः । एवंच मुक्तावळीस्थादृष्टविशेषशब्दोऽपि नि. विडावयवसंयोगपरः । दृष्टं दर्शनं साक्षात्कार इति यावत्तद्यतो न संभवति सोऽयमदृष्टः साक्षात्का. राभावप्रयोजक इत्यर्थः । तादृशो यो विशेषो विलक्षणधर्म इति तद्व्युत्पत्तिस्वीकारादित्याहुः । अन्ये तु हिमकरकयोरुपष्टम्भकः पार्थिवभागोऽभ्युपेयते तथाच तादृशपार्थिवभागोपष्टम्भक एव द्रवत्वसा- क्षात्कारे प्रतिबन्धकस्स एवादृष्टविशेषशब्दवाच्य इति वदन्ति ॥ ४० ॥ ** ॥ इति जलप्रन्धः ।। 12