पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ कारिकावल्ली . मञ्जूषा. तक्यत्रयवेषु कषायरसः किं तव कदापि न नश्यति तथा सति नित्यत्वापत्तेः कित्वायनाशादने यदाकदाचिन्नतीति त्वमङ्गीकरोषि वयं विदानीमेव नश्यतीत्यङ्गीकुर्मः । न तत्रास्माकं गौरयम् । एवं मधुररसरासनमपि तदानीमुभयसिद्धं तच जलरसमवगाहता हरीतक्यवयवरसं वा कोऽनयोवि शेषः । किंतु यादृशहरीतकीव्यक्तिभक्षणोत्तरं जलपानं क्रियते तादृशहरीतक्यचयवेष्वेव त्वदनभिमत- मधुररसव्याक्तिकल्पनमन्माकम् । युष्माकन्तु हरीतकीभक्षणोत्तरपातेषु तदनुत्तरपीतेष्वपि तेषु च स. वैषु अलष्वस्मदनभिमतमधुररसकल्पनामति कस्यदं गौरवम् । तम्माज्जलीयमधुररसोऽनुभवसिद्ध इत्य. व युक्त वक्तव्या । अनुभूयते हि वर्षासाललं मधुरं भूपतितं तु भौगरसविशेषरुपलभ्यते किन्तु गुडादिमधुररसेषु यः प्रकर्षः स जलमधुरिमण्यस्ति न वेत्येतावती विप्रतिपत्तिः । स च हरीत- कोभक्षणोत्तरपरिपोतसाललरसेऽनुभूयते स चानुभवो यदि प्रमेत्युच्यते तदा तयञ्जकत्वं हरीतकोगक्ष- णस्य वाच्यं तदानी च जलीयमधुररसे पार्थिवमधुररसव्यावृत्तजातिविशेषा नास्तीत्यापनम् । यदि च सोऽनुभवो श्रमः हरीतकीभक्षणं च तत्र स्मर्यमाणारोपजनकदोषः हरीतकीभक्षणसन्धुक्षितजलपा. नसंधुक्षितो जिह्वाग्रवर्ती प्रकृष्टमधुररसशालिपित्तद्रव्यविशेषो वानुभूयमानारोपजनकदोष इत्युच्यते तदा पार्थिव- मधुररसव्यावृत्तः अपकर्षाख्यः जातिविशेषो जलेऽस्तीत्यापन्नं अनयोश्च पक्षयोरेकतरं न वयं विनिश्चतु प्रभवा. मः एतेन कषायरसैमधुररसैवावयवैरारब्धा हरीतकी नानारसैव तत्र व मधुररसम्य व्यजको जलसंयोगः नतु तद्गतरसान्तरस्य फलबलात् अतो नीरसमेव जलमिति केषांचिदुक्तिरपास्ता । अनुभवेन जल माधुर्यसि- द्धरुतत्वात् । किंच नानाजातीयरसवदवयवारब्धत्वे चित्ररसव हरीतकी स्यात् । नेष्यते चित्ररसः । तत्राव्याप्यवृत्तिनानारसोत्पत्तिपि न संभवति व्याप्ववृत्तिजातीयगुणानामव्याप्यवृत्तित्वविरोधात् । व्याप्य- वृत्ति च विजातीयं रसदयं युगपद्विरुम् । अथास्तु नीरसव हरीतकी जलसंयोगो हरीतक्यवयवगतमा- धुर्यस्यैव व्यञ्जकोऽस्तु जलथानाभावदशायां उपलभ्य मानकषायरसोऽध्यवयवगत एवास्त्विति देताब- ता हि कतिपये हरीतक वयवाः कषायाः कतिपये मधुरा इति प्राप्तम् । एवं च सात जल- पानेऽपि कातेचन हरीतक्यवयवाः कषाया एवोपलभ्येरन् नचैवमुपलभ्यन्ते । नच हरीतक्यवयवस- मवेतकवायरसरासने प्रति जलसंयोगम्य प्रतिबन्धकत्वमिति वाच्यं तावता तव लाघवाभावात् हरी- तक्यामेवेत्यनन्तरं जलोप्मसंयोगादित्यत्र 'तेजस्सयोगादित्येव बहुपु पुस्तकेषु पाटो दृश्यते । अथवा हरीतक्यवयवेषु रसान्तरोत्पत्ती जलसंयोगस्यैव कारणतामभ्युपगच्छन्तो न वयं त्यवेयाम नवा राज्ञामाज्ञा तत्रास्मानिन्द्धे । एतेन पर्युषितानादौ रसान्तरोत्पादानुरोधेन तत्र विजा- तीयतेजस्संयोग उभयमतकल्पनीयः । इहतु रसात्पादानुकूलस्य विजातीयतेजस्सयोगस्य कल्पने तदेव भवतां गौरवमित्यपास्तम् । जलसंयोगनैव तत्र रसान्तरोत्पादाभ्युपगमात् । नचोक्तमेवात्र गौरवं अ- पूर्वकारणताकल्पनाप्रयुक्तमिति वाच्यं जलसमदेतमधुररसनिष्टलौकिकविषयताशालिरासनप्रत्यक्षत्वावच्छि- नं प्रति हरीतक्यवयवसंयोगत्वेन कारणताया अस्माकमपूर्वायास्त्वया कल्पनीयतया तदंश साम्यात् । प्रत्युत तवैव गौरवमतिरिच्यते मधुरत्वावच्छिन्नं प्रति पृथिवीत्वेनेव जलत्वेनापि कारणत्वान्तरस्य त्वया कल्पनीयत्वात् । नच हरीतक्यवयवेषु पूर्वरसनाशमन्तरेण रसान्तरोत्पादो न संभवति रसं प्रति र. सस्य प्रतिबन्धकत्वात् ततश्च हरीतक्यवयवसमवेतकपायरसनाशं प्रति जलसंयोगस्य कारणताकल्पनं तवाधिकमिति वान्यं जलपाने जिह्वालग्नेषु हरीतक्यच यथेषु कषायरसानुभवस्य तवाप्यसिद्धतया हरीतक्यवयवसमवेतरसनिष्टलौकिकविषयताशालिरासनत्त्वावच्छिन्नं प्रति जलसंयोगस्य प्रतिबन्धकताया- स्त्वया वाच्यतया तदंशेऽपि साम्यात् । अथ जले पूर्व सिद्ध एव मधुररसः इदानी हरीतक्यव- वसंयोगेनाभिव्यज्यत इत्यस्माकं लाघवम् । तव तु जलसंयोगेन हरीतक्यवयचेषु पूर्वरसनाशः रसा न्तरोत्पत्तिः तदभिव्याक्तश्चेत्यधिकव्याक्तिकल्पनया गौरवामिति चेत् विपरीतं मन्यसे । तथाहि हरी.