पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ कारिकावली लब्धिः । अथ जले माधुर्य किं मानं नहि प्रत्यक्षेण कोऽपि रसस्तत्रानुभूयते । नच ना- रिकेलजलादी माधुर्यमुपलभ्यत एवेति वाच्यम् । तस्याश्नयौपाधिकत्वात् अन्यथा जम्बी- ररसादावाम्लादिरसोपेलब्धेराम्लादिमत्त्वमपि स्यादिति चेन्न । हरीतक्यादिभक्षणस्य जल- रसव्यजकत्वात् । नच हरीतक्यामेव जलोप्मसंयोगाद्रसान्तरोत्पत्तिरिति वाच्यम् क- प्रभा. यगतसंयोगाभावादिति भावः । ननु माधुयें प्रमाणाभावात् जले मधुर एवेत्युक्तिरयुक्तेति शङ्कते ॥ अथेति ॥ तत्र प्रत्यक्षप्रमाणं निराकरोति ॥ नहीति ॥ अन्यथेति ॥ नारिकेळजलविषयकरसोपलब्धेः आश्रयौपाधिकरवानङ्गीकोर ॥ अम्लादिमत्त्वमपीति ॥ तवोपलब्धिमात्रस्य वस्तुसाधकत्वादिति भा. वः ॥ हरीतक्यादिभक्षणस्येति ॥ आदिना आमलकपरिप्रहः ॥ व्यञ्जकत्वादिति ॥ तथाच हरीतक्यादिभक्षणसहकृतरसनेन्द्रियस्थैव जलरसग्राहकत्वात् न सर्वदा जले रसप्रत्यक्षापत्तिरिति भावः ॥ जलोप्मसंयोगादिति ॥ जलोष्मभ्यां संयोगादित्यर्थः ॥ रसान्तरोत्पत्तिरिति ॥ तथाच ज. लोप्मसंयोगात जायमानहरीतकीनिष्टमधुररसस्यैव उपलभ्यमानतया जले मधुररसस्वीकारे प्रमाणाभाव इ. ति भावः ॥ कल्पनागौरवादिति ॥ तथाच हरीतकीभक्षणोत्तरकालीनोपलम्भविषयरसस्य हति- मञ्जूषा. अनोप सन्निहिते वस्तुनि आदधाति स्वनिष्टधर्ममारोपयतीत्युपाधिशब्दस्य व्युत्पत्तिमनुसृत्येदमुक्त नील. कण्टेन नंताद्वचारसम् । कालिन्दीजले उपटम्भकपार्थिवभागसत्त्वे वियति विक्षेपेऽपि तस्यानपगमा- दु । यावदाश्रयसत्त्वमनुवर्तमानो दिलक्षणसंयोग एव [पष्टम्भो नाम । नचात्रोपष्टम्भकशब्दः प्रवा- हाधिकरणभूप्रदेशपर इति वाच्यं धवळलोहितवर्णसिकतास्वपि प्रवहत्ति जले नीलिमोपलब्ध्या तत्रो- कसंबन्धाभावात् । नच सिकताप्रवाहदशायामपि कृष्णभूरेणवस्तत्रानुवर्तन्त इति वाच्यं वियति विक्षेपेऽपि तेषामनुवृत्तेः । अत एवान्तराळे धवळतयोपलब्ध कनककटाहतं कृतकक्षोदरेणुभिरपनी- तपकमपि जल नीलतयैवोपलभामहे तस्मादलोपाधिशब्दो भ्रमनिमित्तदोषपरः । तथाच जले नीलरू. पत्रमे आश्रयो दोषः तस्य च न जपाकुसुमादेरिवानुभूयमानारोपजनकत्वं किन्तु दूरत्वमण्डूकवसा• दिनकरीयम्. शितसम्बन्धघटकसंयोगनाशादिति भावः ॥ तत्र जले ॥ तस्य माधुर्यस्य ॥ अन्यथा आ. अयोपाधिकस्वाभावे । व्यजकत्वादित्युत्तरं हरीतकीभक्षणोत्तरं प्रत्यक्षेण माधुर्योपलम्मादिति पूरणीयम् ॥ कल्पनागौरवादिति ॥ अवयवरसाजन्यस्य पृथिवीरसस्याग्निसंयोगसाध्यत्वदर्शनादेतदनुरोध- मात्रेण जलसंयोगस्यापि पृथिवीरसोत्पादकत्वस्वीकारेऽतिरिक्तकार्यकारणभावस्य हरीतक्यां मधु- रामरुद्रीयम्. पाधिकरवं आश्रयविशेषसंयोगरूपदोषजन्यरनमेव मूलप्रन्थकर्तुराभिप्रेतं नतूक्तपरम्परासंसर्गकत्वं तथास- ति जले नीलस्वस्येव पृथिबीत्वस्यापि प्रतीतिप्रसङ्गात् ॥ न च त्वन्मतेऽपि तादृशदोषबलात्कुतो न पृथि- वोत्वप्रत्यय इति वाच्यम् । स्फटिकादिस्वच्छद्रव्ये रक्तपटादिसंयोगवलाद्र तत्वप्रतीतिरेव न तु पढत्व- प्रतीतिरिति सर्वानुभवसिद्धमिति पित्तादिदोषस्य पातत्वमानवान्तिजनकतामात्र कल्पनावबाप्यनुभवा- वरोधेन नीलवश्रान्तिजनकतामात्रस्यैव तादृशदोधे कल्पनीयत्वात् दोषविशेषजन्यत्वादेव विशेषदाशि- नामपि समवायेनैव नालवत्रान्तिः नहि नौलो घटो नीलं जलामिति प्रतीत्यो_लक्षण्यमनुभवसिद्धमि- ति कश्चिदुपैतीति । हरीतकीभक्षणस्येत्यादिना हरीतकीभक्षणस्य जलरसन्यभकत्वमुक्त मूले तत्र च है- तोरनभिधानान्मूलस्य न्यूनतामाशङ्कय हेतुं पूरयति ॥ ब्यञ्जकत्यादीत्यादिना ॥ हरीतक्यामि- ति ॥ यद्यपि हरीतक्यां मधुररसकल्पनं सिद्धान्ते जले मधुररसकल्पनस्थानीयमिति गौरवात्तत्प्रदर्शन-