पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली 1 मजूषा. गसाधनत्वात् नाव्याप्तिशट्टा । एवं तत्पुरुषायादृष्टजन्यं यत्तदेव तत्पुरुषीयभोगसाधनं अन्य दन्यथा- सिद्धं तत्पुरुपीयभोगजनकादृष्टजन्यस्यैव लघूपस्थितिकत्वात् । अतो न परमाणुगगनादावातिव्या- प्तिः । अत्र गुणादावतिव्याप्तिवारणाय द्रव्यत्वमपि विशेषणं देयम् । असाधारणकारणत्व विवक्ष- णान्न कालादायतिव्याप्तिः ॥ नहि बीजेति । अत एव महाप्रळयोऽपि सिध्यति । तथाहि सं. सरता जीवानां प्रतिकल्पं केचित्कचिदपज्यन्ते अपयुक्ताश्च न पुनस्संसरन्ति नाप्यपवृक्तसमसंख्या. कानि संसार्यन्तराणि कुतश्चिदागच्छन्ति । अतः पूर्वपूर्वसर्गापेक्षयोत्तरोत्तरसमें न्यूनता वाच्या अपवृक्तात्मभोगसाधनानां शरोरेन्द्रियविषयाणामसात् । ततो यदा सर्व एवापवृज्यन्ते तदा वी- जप्रयोजनयोरभावात् विश्वसृष्टयुपरमो महाप्रळयः संशिते तमेव च महाप्रळयं मोक्ष इति केच- न व्यवहरन्ते । नन्वत्र सत्यां दृष्टसामन्यां अष्टविळम्बान कार्यविळम्बं क्वचिदीक्षामहे तत्कुतः का- र्थमात्रेऽष्टस्य कारणतेति चेत् । इतस्ततो नीयते यन्न स्यूत इव कर्मणा । अधिष्ठानं तधा कर्ता करणं च पृथम्बिधम् । विविधा च पृथक् चेष्टा देवं चैवात्र पञ्चमम् । भोगाथैवास्य सकलं क- मभिः परिकाल्पतम् ॥ इत्याद्यागमवशादिति ब्रूमः । ननु कार्थमात्रस्यादृष्टाधीनत्वे कार्यत्वाविशेषा- ददृष्टम यदृष्टाधीनं स्यादिति चेदिष्यत एवेदम् । किन्तु केचिददृष्टविशेषा भोगानुत्पादनन्तो यथोचि. तमदृष्टविशेषानप्युत्पादयन्ति केचन भोगानेव केचन अदृष्टविशेषानेव । इदं पुनरिहावसेयम् । दे- वदत्तीयभोगविशेषजनिका घटव्यक्तिनादृष्टेन जनिता तेनैव तद्धटव्यस युपधायकः कपालसंयोगः कपा. लस्तत्कियाविभागादिस्तत्कियानुकूलनोदनादिकं चक्रभ्रमणादिकं चोत्पद्यते आत्ममनस्संयोगादिवत् । य. था हि कचिदेकेनैवात्ममनस्संयोगेन ज्ञानमिच्छा कृतिश्चोत्पाद्यन्ते तद्वत् । नन्वेवं घटः कपालसंयो- गाधीनस्स च चक्रभ्रमणाधीनः तच्च दण्डसंयोगाधीनं सच दण्डाधीनस्स च वृक्षाधीनः स च बी- जाधीन इति रीत्यकैकादृष्टकार्यधारा तदृष्टोत्पत्तिप्राकालोत्पत्तिकपदार्थसाधारणी अनवस्थिता च स्या- दिति चेन्न यावत्या कारणधारमा तद्धटव्यक्तिविशेषजनितभोगातिरिक्तभोगेनोपयुज्यते तावत्या तद्धटव्यक्तबुपधायकादृष्टाविशेषाधीनत्वस्य लाधवानुरोधात् कल्पनयोक्तदोषद्वयानवकाशात् । अत्र नी. लकण्टः । अदृष्टस्य कार्यमा प्रति हेतुता न साक्षात् । नहि सामग्रीसमवधानेऽदृष्टविळम्बे कार्यविळम्बो दृष्टः येन तत्साक्षाद्धेतुस्स्यातू किंतु सामग्रीसम्पादकतया प्रायः परम्परयैव तदुपयोगः क्वचिन्मे घसञ्चारादौ साक्षादेव तद्धेतुः अन्यथा सामग्रीसम्पादनस्यैवानुपपत्तेः एतदर्थमेव साक्षात्परम्परासा- धारणजन्यत्ववोधकमधीनपदमुपात्तमित्याचख्यो । तन्मन्दम् । यथा सामग्रीसत्त्वेऽश्वविळम्बान्न घटवि. कम्बः तथा मनीभूतानां चक्रभ्रमणादिपदार्थानामपि मिथो या सामग्री तस्यां सत्यामदृष्टविळ- म्बात्तापदार्थविळम्बाभावेन तत्रापि त्वदुक्तरीत्या साक्षाद्धेतुत्वासंभवेन अष्टहेतुताया एव विलोपप्रध. गात् मेघसञ्चारादेरपि या सामग्री वायुनोदनादिरूपा तस्या भूमात्रसञ्चारिभिः अस्माभिरपारकलि- तत्वेऽपि वस्तुतो लब्धात्मकतया तस्यां सत्यामवश्यमेव तदुत्पत्तरिति । अत्र तत्तत्कर्मविशेषजनिता. नां सुकृतदुष्कृतरूपाणामदृष्टविशेषाणां तत्तन्नियतफलोपधायकत्वस्यागमसिद्धतया तत्तत्काविशेषे तत्त. ददृष्टविशेषाणां यथोचितसंबन्धाभ्यां यथोचितरूपाभ्यां च विशेषकार्यकारणभावा: कल्पनीयाः । सामान्यकार्यकारणभावस्तु कार्यत्वावच्छिन्नं प्रति स्वसमवायिसंयुक्तसंयोगसंबन्धेनादृष्टस्य कारणतेति नीलकण्ठेन दर्शितः । कालिकसंबन्धेन कार्यत्वावच्छिन्नं प्रति कालिकसंबन्धेनादृष्टत्वेन कारणतेत्यन्यैरुतम् । तत्र प्रथमपक्षे कार्यतावच्छेदकसंबन्धो यदि समवायः तदा ध्वंससाधारण्याभाव: गुणोत्पत्तेः प्रागावक्षणावच्छिन्नघटादौ तदसंभवश्च तादृशसंयुक्तसंयोगस्यापि कार्यतया तत्पूर्व तदपेक्षणेऽ नवस्थादोषश्च । कालिकसंबन्धावच्छिन्न कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्न कारणत्वरूपकाललक्षणे ता. दात्म्यसंबन्धावच्छिन्नत्वनिवेशनस्यादृष्टातिव्याप्तिवारणप्रयोजनकत्वं अप्रे नीलकण्ठेनैव अभिधास्यमानं व