पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली । - कर- मजूरा. लाद्यातक्तदुग्धवंसोत्तरकालोत्पत्ति के दनि व्यभिचारः । एवं वैशेषिकमतेऽपि सर्वत्र नैययिकमते च कचिदग्निसंयोगजनितपूर्वघटनाशोत्तरकालोत्पत्तिके घटान्तरेऽपि स्वसामानाधिकरण्यं स्वसमवायिमहत्समवेतत्वमतो न दोपः आतश्चनेन दुग्धधणुकपर्यन्तनाशोत्तरमेव हि ह्मणुकादिकमेण दध्यारभ्यते अतो महति दुग्धाक्यवे दध्नो न संमवायः किंतु दुग्धधणुकावयवे परमाणो दधिधणुकस्य तत्र च न व्यभिचार: परमाणोरमहत्वात् । एवं पाकस्थलेऽपि धटान्तरे न व्यभिचार प्रसक्तिः किन्तु घटान्त- रारम्भकम्यणुके तत्रच परमाणोरमहत्वान्न दोप इति वाच्यम् । एवमाप पात्रस्थितत्य महाजलस्य कतिपया. वयवपारस्तावेण विनाशे परिशिष्टेप्ववयवेषु देवादागन्तुक जलान्तरसंयोगेनोत्पादिते महाजले व्यभिचारात नव स्वनःशोत्तरकालीनास्मदीयप्रयत्नासाध्योत्पत्तिकावयवान्तरसमवेतत्वं प्रथमदळार्थः भङ्गादिना पूर्ववृक्षना- शोत्तरवृक्षन्तरारम्भकस्य शाखान्तरस्योत्पादात पक्षे हेतुसत्वं इहतु जलान्तरं न पूर्वमहाजलनाशोत्तरकालो- त्पत्तिकं किंतु तत्संयोगमात्रमिति वाच्यम् । एवमपि यत्र घटावयवे एकस्मिन्नेव कपाले वहिसंयोगेन तत्कपालस्य द्यणुकमारभ्य नाशः पुनर्यणुकादिक्रमेण पूर्वकपालसजातीय कपालान्तरारम्भः उत्पन्नेन च तेन कपालेन पूर्वकपालान्तरसंयुक्तेन पूर्वघटसजातीयघटान्तरारम्भः तत्र घटान्तरे व्यभिचारात् । नच स्वानारम्भकपरमाण्वारब्धत्वं स्वारम्भ कपरमाण्वनारब्धत्वं वा प्रथम दळनिवेशितावयवान्तरविशेषण- मिति वाच्यं एवमपि पात्रस्थितस्य मह्त्तरस्य जलस्य कतिपयावयवपरिसावोत्तरमेव यत्र कादिविलयन युतानामने केपां जलानां संयोगन वा किंचिन्महाजलमुत्पन्नं पश्चाच तत्संयुक्तेन पूर्व परिनुतायशिटेन पानस्थितेन जलेन पुनमह्त्तरं जलमारब्धं तत्र तस्मिन्महत्तरजले व्यभिचारात् । किंचात्र प्रथमकल्ले वन घटारम्भकैकमात्रकपालपाकस्थले पूर्वघटानारम्भका अपि कतिपयपरमाणवो दैवात्तत्र लाना घटान्तरमारभन्ते तत्र व्यभिचारो दुर्वार: द्वितीयफल्पे तु स्वरूपासिद्धिः ताहि छिन्नमरूद यद्यपि शाखान्तरमन्तःपवनोपनीत परमाणुभिरारभ्यते तथापि छिन्नविशेषितपू-- वावयवारम्भका अपि कतिचिदन्तःपरमाणवस्तत्र मिळन्ति । नचैवं पूर्वावयवस्य विनाशापत्तिरिष्ट- त्वादुपचयापचयाभ्यामुत्पादविनाशयोः सर्वसम्मतत्वात् । एषा ह्यत्र रीतिः तरुवन्तःसञ्चरता नेन सलिल सेकशिथिलिताः पार्थिवाः परमाणवः सततमुत्कृप्यान्तरेव व्यूहन्ते व्यूहमानैरुत्सर्पद्भिश्च तैस्सह पू- पूर्वव्यूढा अपि परमाणको यथायोग प्रसर्पम्ति उत्सर्पन्ति च तत्र केचित्परमाणवः शाखामारभ- न्ते केचित्पत्राणि केचित्पुष्पाणि केविस्फलानि भग्नायो शाखायां तत्सजातीयशाखान्तरोत्पादेऽप्येषेव रीतिः । एवं मानुषादिशरीरेप्वपि भुक्तानकवलाद्यारम्भकाः केचन परमाणवोऽन्तस्सचरता पवनेनैव यथायोग व्य- हन्ते तेन चौपचीयन्ते शरीरावयवाः एवं प्रच्छिन्ने चर्मखण्डे तत्सजातीयचर्मखण्डान्तरोत्पत्तिरपि दृष्टव्या । कचिदनागन्तुकैः पूर्वावयन्यारम्भकैरेव परमाणुभिः अन्तःपवनसञ्चारितः म्भो दृष्टः यथा गृहान्तरूपरिबद्धोऽपि कुमारीदळकाण्डः किसलयति अननतोऽपि कस्यचिचम खण्डः प्ररोहति यद्यप्येतावता मनुष्यादिशरीरेष्विव तरुवप्यन्तःपरमाणूनां सञ्चारको वायुः प्राण एव भवितु. मर्हति तथापि न वयं तत्र प्राणस गारो नास्तीति बमः किन्तूक्तदेतोरदुष्टस्य निर्वचनमशक्यमित्येव । अत्रोच्यते भरने क्षते वा पूर्वस्यावयविनो यस्मिन्कस्मिश्चिदवयवे सति पश्चारसंहिणं तदनार- म्भकतत्समवेतद्रव्यारम्भकपरमाणुसंयोगनाशासहकृतपरमाण्वप्रयोज्या उत्पत्तिरुतरावयविसंबन्धिनोऽवयवस्य भग्नक्षतसंरोहणन्नाम । अथवा भग्नक्षतशब्दौ विभक्तपतितावयवमिव विभकावशिष्टमध्यवयवमाचक्षाते अतो भग्नात् क्षताद्वा विभक्तावशिष्टात् प्रकाण्डादेवयवात् सरोहणं तदारम्भकपरमाणुसंयोगना- शासकृतपरमाण्वप्रयोज्या उत्पत्तिरुत्तरात्रयविसंबन्धिनोऽवयवस्य भनक्षतसंरोहणन्नाम । तथाहि भन्ना. यां शाखायां शास्त्रान्तरारम्भकाः परमाणवो भन्मशिष्टावस्थितप्रकाण्डादिरूपावयबारम्भकपरमाणुपुजात् बहिनिस्सरन्त एव शाखान्तरमारभन्ते । अतस्तैः शाखान्तरारम्भे भग्नशिष्टप्रकाण्डारम्भकपर. पत्र- अवयवान्तरार-