पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मंजूषा-दिनकरीय-रामरुद्रीयसमान्विता । २९१ महत्परिमाणतारतम्यस्य गगनादौ विश्रान्तत्वमिवाणुपरिमाणतारतम्यस्यापि क्वचिद्विश्रान्त- त्वमस्तीति तस्य परमाणुत्वसिद्धिः । न च त्रसरेणावेव विश्रामोऽस्त्विति वाच्यम् । त्रसरेणुः सावयवः चाक्षुपद्रव्यत्वात् घटवदित्यनुमानेन तवयवसिद्धौ त्रसरेणोरक्यवाः सावयवाः महदारम्भकत्वात् कपालवदित्यनुमानेन तद्वयवसिद्धेः । नचेदमप्रयोजक अपकृष्टमहत्त्वं प्रभा. प्रसङ्गादित्यर्थः । समवायिकारणाभावादिति भावः । विधामाश्रयस्याणुत्वं व्यवस्थापयति ॥ मह. त्परिमाणेति ॥ अपकर्षानाश्रयमहत्त्वस्येल्यर्थः ॥ गगनादाथिति !! आकाशादिचतुष्टय इत्यर्थः ॥ विश्रान्तत्वमितिः ॥ वृत्तित्वमित्यर्थः ॥ अणुपरिमाणेति ॥ अपकर्षानाश्रयागुपरिमाणस्थापीत्य- थः ॥ काचेत् कुत्रचित् ।। विश्रान्तत्वं वृत्तित्वमस्तीत्यवश्यमीकार्यमित्यर्थः । परिमाणस्य गुणत्वा- दिति भावः ॥ इतीति ॥ इति हेतोरित्यर्थः ॥ तस्येति ॥ विश्रामाश्रयस्येत्यर्थः ॥ त्रसरेणु- स्सावयच इति ॥ अत्र सावयवत्वं समवेतद्रव्यत्वं न द्रव्यसमवायिकारणकद्रव्यत्वं तस्य कारण- ताघटितत्वेन गौरवात् तावन्मात्रेणष्टसिद्धेश्च ॥ चाक्षुषद्ध्यत्वादिति ॥ अन्न चाक्षुषत्वं चाक्षुष त्वावच्छिन्ननिरूपितलौकिकविषयतावत्वं नतु चक्षुर्जन्यप्रत्यक्षनिरूपितलौकिकविषयतावत्त्वं गौरवात् प्रयो- जनाभावाच्च । घटत्वादौ व्यभिचारवारणाय द्रव्यत्यनिवेशः । यदिच द्रव्यवृत्तिलौकिकविषयतासंवन्धे. न चाक्षुषत्वा वच्छिन्नं द्रव्यवृत्तिस्वरूपसंबन्धेन चाक्षुषत्वावच्छिन्ननिरूपितलौकिकाविषयतावत्त्वं केवलस्व- रूपसंवन्धेन चक्षुस्संयोगेतराप्रयोज्यलौकिकविषयतावत्त्वं वा चाक्षुषत्वशब्दार्थ इत्युच्यते तदा हेतुको- टौ पृथक् द्रव्यत्वविशेषणं न देयमिति हृदयम् ॥ त्वसरेण्ववयचा इति ॥ अत समवायसंबन्धेन त्रुटिमत्त्वं पक्षतावच्छेदकं नतु त्रसरेणुसमवायिकारणत्वं गौरवात् प्रयोजनाभावाञ्च ॥ सावथवा इति । अत्रापि पूर्ववत्समवेतद्रव्यत्वं समवेतत्वमानं वा सावयवत्व शब्दार्थः तावतैवेष्टसिद्धेः ॥ महदारम्भ : मजूपा. परमाणुसंज्ञाप्रवृत्तिनिमित्तं अपकर्षानाश्रयागुत्वं दर्शयति ॥ महत्परिभाणतारतम्धस्येति ॥ महत्परि- माणनिष्ठस्यापकर्षावधित्वसमानाधिकरणस्योत्कर्षस्येत्यर्थः ॥ गगनादौ गगनादिपरिमाणे ॥ अवच्छेद्यत्वं सप्तम्यर्थः ॥ विश्रान्तत्वमिव उत्कर्षानवाधित्वसामानाधिकरण्याभव ॥ अणुपरिमाणतारम्यस्य अणुपरिमाणनिष्ठस्यापकपविधित्वसमानाधिकरणस्योत्कर्षस्य क्वचित् किंचिदवच्छेदेन विधान्तत्वं उत्कर्षा- नबधित्वसामानाधिकरण्यं अस्ति अशीकार्यम् । अन्यथा उत्कर्षापकर्षपरम्परायाः अनवस्थितत्वा. पातादिति भावः । यद्यपि उत्कर्षः अपकर्षावधित्वसमानाधिकरण एवेति तत्र तत्सामानाधिकरण्यविशे- षणमनर्थक तथापि तारतम्यशब्देन लोकानां स्वरसतो न्यूनाधिकभाव एव प्रतीयत इति तदनुः रोधेनापकर्षावधित्वसमानाधिकरणोत्कर्षः तारतम्यशब्दार्थः उक्तः ॥ इति अतो हेतोः ॥ परमाणुत्व- सिद्धिरिति ॥ परमाणुसंज्ञाप्रवृत्तिनिमित्तभूतेत्यादिः । अस्मद्गुरुचरणास्तु विश्रामाश्रयस्थाणुत्वं साधयति महत्पीरमाणेति अपकर्षानाश्रयमहत्त्वस्येत्यर्थः ॥ गगनादाविति आकाशादिचतुष्टय इत्यर्थः ॥ विधान्त- त्वमिति वृत्तित्वमित्यर्थः । अणुपरिमाणेति अपकर्षानाश्रयाणुपरिमाणस्यापि इत्यर्थः । कचित् कुलचित् । विश्रान्तत्वं युत्तित्व अस्तीति अवश्य मङ्गीकार्यमित्यर्थः । परिमाणस्य गुणत्वादिति भाव इति व्याचकुः । एतदेव नीलकण्ठस्याप्यभिप्रेतं महत्परिमाणेयादिग्रन्थस्य । ननु तस्थ नित्यत्वसिद्धावप्यणुत्वे किं मानमित्यत आहेति तेनावतराणिकादानात् । दीधितिकृन्मतमाशङ्कय निराकरोति ॥ नचंति ॥ विश्राम इत्यस्याव- दिनकरीयम् स्य नित्यत्वसिद्धावप्यणुस्ने कि मानमित्यत आह ॥ महत्परिमाणेति ॥ चाक्षुपद्रव्यत्वादि- रामरुद्रीयम्. तरसंयोगेनापि परिमाणापकर्षसम्भव इत्यत्र तात्पर्यम् । वस्तुतो मेरोरवयदेषु सर्षपवियवापेक्षयोरक 11