पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ कारिकावली प्रमा. साकर्यप्रसज्ञादित्यर्थवर्णनमाहुः ॥ अस्मद्गुरुचरणास्तु रूपनाशाश्रयनाशयोः न दैशिकविशेषणतासंबन्धेन कार्यकारणभावः आश्रयस्यैवासत्त्वात् किन्तु कालिकविशेषणतासंबन्धेन । तथाच जनकतायां कालिक- संवन्धानवच्छिन्नत्व विशेषणेनैव व्यभिचारवारणे प्रथमद्रव्यपदं व्यर्थम् । प्रागभावानङ्गीकर्तृनवीनमत प्रागभावस्यालीकतया तद्धंसस्थाप्यलोकत्वेन द्वितीयद्रव्यपदं व्यर्थम् । अथवा पापाणध्वंसजन्यव. हो व्यभिचारवारणाय व्यायकोटौ सजातीयत्वं निवेश्य यद्यत्सजातीयं सद्यद्धंसजन्यं तनदुपादानो. पादेयमिति व्याप्तिर्वक्तव्या । तत्रापि येनकेनचिद्रूपेण साजाश्यस्वीकारे उक्तदोषापत्त्या द्रव्यविभा- जकोपाधिरूपेण साजात्यं वाच्यं तथाच द्रव्याविभाजकोपाधीन विशिष्योपादाय पृथिवीस्वाश्रयं यत्पृथि. वत्विाश्रयध्वंसजन्यं तत्तदुपादानोपादेयमिति रीत्या विशिष्य व्याप्तिलाभात् न पूर्वोक्तदोषाचकाशः । वस्तुतस्तु जन्यतायां समवायसंवन्धावच्छिन्नत्वनिवेशात् यद्यद्वंसनिष्टकारणतानिरूपितसमवायसंवन्धा- मञ्जूषा. ध्वंस: मणिध्वसो हि दैशिकविशेषणतया मण्यायवे वर्तेत नेन्धने दहने वा किंच मणेस्संयो. गसामानाधिकरण्यादिसंबन्धावच्छिनप्रतियोगिताकाभाव एव हि कारणं न समवायसंबन्धावच्छिन्न प्रतियो गिताकस्तस्य माणिसंयुक्तन्धनदहनादावपि सत्त्वात् । नच ध्वंसस्संयोगाद्यवच्छिन्न प्रतियोगिताकल्वेनेष्यते । अभ्युपगम्यते तु कैश्चिसमवायावच्छिन्नप्रतियोगिताकत्वेन तस्माद्यत प्रतिबध्यताप्रतिवन्धकतयोरुभयो। रपि समवायोऽवच्छेदकस्तत्रैव ध्वसः कारणं भवेत् यथा द्रव्यं प्रति व्यस्य प्रतिबन्धकतया घटान्तर प्रति पूर्वघटध्वंसः तस्य समवायावच्छिन्न प्रतियोगिताकत्वात् कार्याधिकरणे दैशिकविशेषणतया वर्त. मानत्वाञ्च । तत्रच पूर्वघटोपादानोपादेयत्वमप्यक्षतं तस्माद्धसत्वेन जनकत्वविवक्षण प्रामादिकमेव नी- लकण्ठस्य । नच द्रव्यत्वेन पटं प्रति द्रव्यसंसर्गाभावत्वेन घटध्वंसस्यापि कारणतया तत्र व्याभिचार इति वाच्यं फलोपहितजन्य त्वस्यैवात्र निवेशात् सत्वेन जनकत्ववादिनोऽपि फलोपहितत्यनिवेशनमा- वश्यकमित्यनुपदं जदयामः । ननु ध्यसप्रागभावयोरत्यन्ताभावविरोधवादिन एवं प्रतिवन्धकसंसर्गाभाव- खेन कारणता स्वीकुर्वन्ति तथाच मणिध्वसेन माणसंयोगध्वंसवतीन्धने न तदवच्छेदकावच्छेदेन मणि. संयोगात्यन्ताभावः । नातः संयोगेन मण्यत्यन्ताभावोऽपि तत्संयोगात्यन्ताभावस्य संयोगेन तदत्यन्ता. भावसमशीलत्वात् अतस्तत्र नात्यन्ताभावः कारणीभवितुमर्हति किंतु ध्वंस एव सच स्वप्रतियोगि. रामवायिनीव स्वप्रतियोगिसंयोगध्वंसो यत्रानुपदमुत्पत्स्यते तत्रापि दैशिकविशेषणतयास्ति तस्य संयोगसंबन्धावच्छिन्न प्रतियोगिताकत्वाभावेऽपि न क्षतिः संयोगातिरिक्तसंबन्धावच्छिन्न प्रतियोगिताकम- णिसंसर्गाभावत्वेनैव कारणतास्वीकारात् वंसप्रागभावयोस्समवायावच्छिन्नप्रतियोगिताकत्वमपि न स्वी- कियते अतो ध्वंसस्य कारणतावच्छेदकाक्रान्तत्वनिर्वाह इति चेत्स्यादेवम् यदि संयोगेा तदत्य- न्ताभावं प्रत्यपि तत्संयोगध्वंसप्रागभावयोर्विरोधिता स्यात् नत्वेवं घटासमवधानकालीनभूतलस्वरूप मेव घटाभावस्य संबन्ध इति प्राचीनैरुतत्वात् अन्यथा कदाचिद्धटसंयुक्ते भूतले घटात्यन्ता. भावस्यैव प्रसक्त्यभावेन संबन्धशरीरे कालनिवेशनमफलमेव स्यात् तथाच यथा घटापनयने घट. संयोगध्वंसवति संयोगेन घटाभावस्तथा घटध्वंसेन घटसंयोगध्वंसवति संयोगेन तदभावे न किंचिद्वाधकम् । आवश्यकश्च तदपसरणेन तत्संयोगध्वंसवति संयोगेन तदत्यन्ताभावस्वीकारः अन्यथा मण्यपसारणेन माणसंयोगध्वं सवति तवापि वह्नयुत्पादानुपपत्तेः तस्मात स्वप्रतियोगिसंयोगिनि ध्वंसस्वीकारो नियुक्तिक एवेति किं ध्वंसत्वेन जनकत्वविक्षया परन्तु यत्र कस्यचिद्रन्थिलस्य दृढस्य काष्टमूलविशेषस्यावयवेषु यावदवयविसत्त्वं वह्निसंयोगों नोत्पद्यते तत्र संयोगसंवन्धेन वह्नि प्रति तत्काष्ठविशेषस्य समवायेन प्रति- वन्धकता वाच्येत्यभिप्रायेणेय नीलकण्ठोक्तिसङ्गमनीया । तत्र तदवयवनिष्ठप्रत्यासत्या तत्काष्टवि- शेषध्वंसस्यापि काठान्तरवृत्तितदत्यन्ताभावसाधारणसंसर्गाभावत्वेन कारणत्वात् इदंच संयोगस्य कार्य तापच्छेदकत्वस्वीकारपक्षे तदस्वीकारे सु समवायेन वहिं प्रत्येव तत्काष्टविशेषस्य संयोगेन प्रतिबन्धकता