पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० कारिकावली अथवा घट- . पादेयत्वं सिध्यति यहव्यं यद्दव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तेः । दृष्टं प्रभा. स्मनः पाषाणध्वंसजन्यत्वेऽपि पाषाणोपादानोपादेयत्वे मानाभाव इत्यत आह ॥ यहव्यमिति ॥ केचित्तु अन घटध्वंसप्रत्यक्षे घटोपादानानुपादेये व्यभिचारवारणाय प्रथम द्रव्यपदं ध्वसंजन्यरूपावसे व्यभिचारवारणाय तत् । मिथ्याज्ञानध्वंसजन्यकायव्यूहे नवीनमते दण्डस्वरूपदण्ड प्रागभावध्वंसजन्यघटे या व्यभिचारवारणाय द्वितीयं द्रव्यपदम् । प्रतिबन्धकात्यन्ताभावजन्ये द्रव्ये मजूषा. पापाण; अपि वा निर्गन्धत्वावस्थापनैरेव परमाणुभिः पाषाणारम्भ इति बहुधोत्प्रेक्षितुं शक्य सोऽयमना- दरः । एवं तत्र गन्धसिद्धयभावेऽपि सन्दिग्धतया न परोक्कतोर्निश्चायकत्वं स्वमते च तत्र गन्ध- वत्वनिश्चयं विनापि पृथिवीपरमावारब्धदव्यत्वहेतुनैव पृथिवीत्वसिद्धिरिति तदिदमनावश्यकत्वं परन्तु यत्र पाकेन पूर्वगन्धनाशः तत्र तदुत्तरक्षणमेव गन्धान्तरोत्पाद औत्सर्गिकः अतः पाषाणारम्भकपर- माणुषु निर्गन्धत्वावस्था न कल्पयितुं युक्ता नानाजातीयगन्धवत्त्वमपि न नियन्तुमुचितं अतः पा- पाणस्य गन्धवत्त्वे न वाधकं किंचिदस्ति असति प्रतिबन्धके च पृथिव्या गन्धवत्वं न नियतम् । एवं प्राणेन्द्रियेऽपि तस्य हि पृथिवीत्वं हेत्वन्तरेण साधयिष्यते वाधकाभावाच्च गन्धवक्त्वं उद्भूतग- न्धवद्भिस्तु परमाणुभिः प्राणं नारभ्यते घ्राणं प्रत्युद्भूतगन्धस्य प्रतियन्धकत्वकल्पनादित्यादि स्वयमू हनीयम् । दीधितिकृतस्तु अनुद्भूतगन्धादिकमेव नाभ्युपयन्तीति सर्व समञ्जसम् । अथ य व्यं यव्यध्वंसजन्यमित्यादिनियमघटकविशेषणप्रयोजनादिकं विचार्यते । अत्र घटध्वंसप्रत्यक्षे आश्रयनाशजन्य - रूपनाशे वा व्यभिचारवारणाय प्रथमं द्रव्यपदं मिथ्याज्ञानध्वंसजन्यकायव्यूहे दण्डस्वरूपदण्डप्रागभाववं- दिनकरीयम् पाषाणे पृथिवीत्वसिद्धया तेन गन्धानुमानसम्भवादिति ॥ यहव्यमिति ॥ अत्र च घटध्वंसप्र- त्यक्षे घटोपादानानुपादेये व्यभिचारवारणाय प्रथम द्रव्यपदम् । अथवा घटध्वंसजन्यरूपध्वंसे व्यभि- चारवारणाय तत् । मिथ्याज्ञानध्वंसजन्यकायव्यूहे नवीनमते दण्डस्वरूपदण्डनागभावध्वंसजन्ये घटे व्यभिचारवारणाय द्वितीयं द्रव्यपदम् । प्रतिबन्धकद्रव्यात्यन्ताभावजन्ये द्रव्ये व्यभिचारवारणाय वं. सपदम् । ध्वंसत्वेन चेह जनकत्वं विवक्षितम् । तेन प्राचां मते प्रतिबन्धकसंसर्गाभावत्वेन त. स्य हेतुत्वेऽपि न क्षतिः ध्वंसजन्यत्वं चादृष्टाद्वारकं विवक्षितम् । तेन सालग्रामशिलाध्वंसजन्य नारकीयशरीरे रामरुद्रीयम्. पत्त्या तद्वारणायैव पृथिवीत्वेन गन्धहेतुता आव श्यिकेति वाच्यम् । विजातीयतेज संयोगस्यैव पा कत्वात् । जलादित्तिसं योगे वैजात्यानीकारादिति भावः ॥ द्रव्यपदमिति ॥ ननु अग्रे ध्वं. सत्वेन ध्वंसजन्यत्वं विवक्षणीयं तथा चान न व्यभिचारः प्रत्यक्षं प्रति विषयस्य सामान्यतो विषयत्वेन विशेषतश्च तत्तद्वयक्तित्वेन हेतुतयैवोपपत्तौ मध्यमविधानन्तकार्यकारणभावे मानाभावादित्य- त आह ॥ अथवेति ॥ कायन्यूह इति ॥ झटिति प्रारब्धक्षयार्थ सौभरिप्रभृतीनां युगपद. नेकशरी(परिग्रहः पुराणेषु श्रूयते तादृशकायसमूहे मिथ्याज्ञान जन्यानादिवासनाध्वंसोऽपि हेतुत्वेनाशी- करणीयस्तत्वज्ञानरहितानां युगपदनेकशरीरपरिग्रहस्य काप्यननुभवादिति यद्धसजन्यमित्युत्तौ वास- नोपादानानुपादेये कायसमूहे भवति व्यभिचार इति भावः ॥ नानमत इति ॥ दण्डप्राग- भावध्वंसस्य नवीनमते दण्डरूपत्वानीकारेण दण्डजन्यघटादौ वक्ष्यमाणव्यभिचारासम्भवेन उक्कमेव प्रयोजनं तन्मत इति सूचनाय इदमुक्तम् । प्राचीनमते घटेऽपि व्यभिचारस्तदनुपादान इत्याह । दण्डेति ॥ प्रतिबन्धकद्रव्यात्यन्ताभावजन्येति ॥ मण्यभावजन्यवढ्यादावित्यर्थः ॥ प्रा. चां मत इति ॥ नवीनमते तु प्रतिबन्धकालन्ताभावस्यैव कार्य हेतुतया मायं व्यभिचारः सम्भ- वतीति भावः ॥ नारकीयशरीरइति ॥ न च निषिद्धाचरणमवे पापद्वारा नरके तदुपयोगिशरीरे च हे.