पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ कारिकावली रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमास्त्रयः । गुरुणी द्वे रसवती द्वयोनैमित्तिको द्रवः ॥ २८ ॥ रूपद्रवत्वेति ॥ पृथिव्यप्तेजसा रूपवत्र द्रवत्ववचं प्रत्यक्षविषयत्वं चेत्यर्थः । न च चक्षुरादीनां भर्जनकपालस्थवढेरूष्मणश्च रूपवत्त्वे किं मानमिति वाच्यम् । त- मजूपा तानां तत्तयक्तीनामन्यतमत्वेन विशेषसामग्रीत्वस्वीकाराद्वा दर्शितदोषानवकाशात् । यदिच योग्यत्व विभुस- मवेतत्वविशेषगुणत्वानां बहुपदार्थघटितानां मिथो विशेषणविशेष्यभावे विनिगमनाविरहः अवच्छेदकगौरवं चेति मन्यते तदा बुद्धिनाशत्वेच्छानाशत्वादिकमेव कार्यतावच्छेदकं बुद्धिनाशम्थले अपेक्षाबुद्ध धन्यबुद्धिना- शत्वमेव कार्यतावच्छेदकमपेक्षाबुद्धित्वं च एकत्वान्यसंख्याद्युपधायकत्वम् । अथापेक्षावुद्धिनाशे द्वित्वादिप्रत्य- क्षस्य कारणत्वं न संभवति घटद्वयविषयकापेक्षाबुद्धिजन्यघटद्वयनिर्विकल्पकात्म पटद्वयविषयकापेक्षाबुद्धेः घटद्वयद्वित्वसविकल्पकेन नाशापत्तिरेवमपेक्षाबुद्धिद्वितीयक्षणे योग्यविभुविशेषगुणोत्पत्तिस्वीकारपक्षे घटद्वय- विषयकापेक्षावुद्धिीद्वतीयक्षणोत्पन्नपटद्वयविषयकापेक्षाबुद्धेः घटद्वयनिर्विकल्प केन च नाशापत्तिरिति चेन्नापे-- क्षाबुद्धिनाशे द्वित्व प्रत्यक्षस्य स्वप्रागभावाधिकरणक्षणप्रागभावाधिकरणक्षणवृत्तित्वसंबन्धनैव द्वित्वप्रत्यक्षादेः कारणत्वस्वीकारादित्यास्तां विस्तरः ॥ अव्याप्यवृत्तिविशेषगुणवत्त्वमिति ॥ एतच्चाकाशजीवात्म- नोरेच साधर्म्यमिति पक्षे सर्वात्मसाधारणसाधर्म्यपक्षे तु अव्याप्यवृत्तिवृत्तिगुणत्वव्याप्यजातिमावशेषगुणवत्त्व. मिति बोध्यम् ॥ चतुःक्षणवृत्तीति ॥ अत्र चतुर्थक्षणवृत्तीति केचित् पठन्ति तत्पक्षे ज्ञानाद्युत्पत्तिक्षण- स्यापि किञ्चिदपेक्षया चतुर्थत्वात् अप्रासद्धिः । स्वचतुर्धत्वं विवक्ष्यत इति चेकि स्वचतुर्थत्वं स्वाधिकरणक्षण- ध्वंसाधिकरणक्षणध्वंसाधिकरणक्षणावंसाधिकरणक्षणध्वंसानधिकरणत्वे सति स्वाधिकरणक्षणध्वंसाधिकरण क्षणध्वंसाधिकरणक्षणध्वंसाधिकरणत्वमिति चेत्तहिं ईश्वरज्ञानस्येत्याद्यमिमग्रन्थविरोधः । ईश्वरज्ञानीय हर्शित- चतुर्थक्षणाप्रसिद्धेः । यदि तु चतुर्थत्वघटकं सत्यन्तमिह न निवेश्यले प्रयोजनाभावादित्युच्यते तदा चतुर्धेत्युक्तावपि न क्षतिः ॥ क्षणत्रयं तिष्ठति ॥ तथाच ज्ञानत्वसंग्रहाय विक्षणवृत्तित्वं प. रित्यज्य चतुःक्षणवृत्तित्वमुक्तमिति भावः । ननु ज्ञानत्वस्य संग्रहामावे का क्षतिः इच्छात्वादिकमादाय ल. क्षणसमन्वय संभवात् । नचैतदने ग्रन्धकृदेव वक्ष्यतीति वाच्यम् । तथाप्युदक्षरत्वानपायादिति चेदवास्म- द्गुरुचरणाः यद्यपि इह गगनात्मनोरेव लक्षणं प्रकृतं तथाप्यनेन योग्यविभुविशेषगुणानामपि लक्षणं प्रा- प्तं न तत्परित्यागमहति संभवति हि योग्यविभुविशेषगुणानां अव्याप्यवृत्तविशेषगुणत्वं क्षणिकविशेष- गुणत्वञ्च लक्षणं एवञ्चास्य लक्षणस्य ज्ञानेऽव्याप्तिवारणाग त्रिक्षणवृत्तित्वपरित्यागः अत्र योग्यविभुवि शेषगुणलक्षणस्याप्रकृतत्वेनावश्यं वक्तव्यत्वाभावमभिप्रेत्य चाग्रे त्रिक्षणवृत्तित्वं वा बाच्यामिति वक्ष्यतीत्याहुः ॥ द्वेपत्वादिकमिति ॥ अनुमितित्वचाक्षुषत्वादेरपि लक्षणघटकत्वसंभवेऽपि तस्य विभागवाफ्यादनुप. स्थित्या तदपेक्षया द्वेपत्वादेरेव प्रथममुपस्थित्या अनुमितित्वादिकमिति नोक्तम् ॥ परममहत्व स्येति ॥ इदन्छ जन्यत्वघटितलक्षणाभिप्रायेण । लक्षणद्वयाभिप्रायेणाप्याह ॥ चतुर्धक्षण इ. ति ॥ त्रिक्षणवृत्तित्यं वेति ॥ अत्र कल्पे जन्यत्वाघटितलक्षणे विशेषपदं व्यर्थमिति बोध्य. म् । एतत्सूचनायैव विशषपदप्रयोजनाभिधानोसरं निक्षणावृत्तित्वं वेत्युक्तं अन्यथा चतुःक्षणवृत्तित्व. पर्यन्तानुधावनप्रयोजनाभिधानानुपदमेवेदमभिध्यात् ॥ २७ ॥ मूले रूपेति ॥ अत्र रूपद्रवत्वप्रत्यक्षाणां योग इति षष्ठीतत्पुरुषान्मत्वीय प्रत्ययस्वीकारे रूपादिसंबन्धवत्त्वस्य लक्षणत्वं लभ्यते तच्चायुक्त लाघवेन रूपादिमत्त्वस्यैव लक्षणत्वसंभवात् । अत एव रूपद्रवत्वप्रत्यायुज्यन्त इति युजेणिनिप्रत्ययोऽपि न संभवति किन्तु रूपक्ष व्ववच प्रत्यक्ष.