पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूपा-दिनकरीय-रामरुद्रायसमन्विता । २४५ प्रभा. तियोगितासंबन्थेन योग्यविभुविशेषगुणनाशः तल स्वसामानाधिकरण्यस्वाव्याहतपूर्ववृत्तित्वोभयसंबन्धेन योग्यविभुविशेषगुण इति सामानाधिकरण्येन नाशकत्वं बोध्यम् । कार्यतावच्छेद के योग्यत्वोपादानेन प्रा. यश्चित्तादिजन्याटनाशे न व्याभिचारः । योग्यत्वम्तीन्द्रियजातिशून्यत्वं रूपादिना व्यभिचारवारणाय विभिवति आत्मसंयोगनाशे व्यभिचारवारणाय विशेषेति कारणतावच्छेदके योग्यत्वविशेषत्वयोरुपादानात् द्वितीय क्षणोत्पन्नादृष्टसंयोगादिना न तृतीयक्षणे अपेक्षाबुद्धिनाशः सामानाधिकरण्यसंवन्धनिवेशान शब्दादिना व्यधिकरणानामिच्छादीनां नाश: स्वाव्यहितपूर्ववृत्तित्वनिवेशाच्च न ज्ञानादीनां उत्पत्तिकाले इच्छा- दिना नाश इत्याहुः । तदसत् कारणतावच्छेदके योग्यत्वविशेषत्वयोरुपादानेऽपि अपेक्षाबुद्धिद्वितीय क्षणो- स्पन्नेच्छादिना तृतीयक्षणे अपेक्षाबुद्धे शापत्तेर्दुरित्वात् कारणतावच्छेद के योग्यत्व विशेषत्वनिवेशवयात् मञ्जूषा. कल्पकान्यतरत्वमतीन्द्रियजातिशून्यत्वं वा । रूपादिनाशे व्यभिचारवारणाय विभिवति संयोगादिनाशे व्यभिचारवारणाय विशेषेति कारणतावच्छेदके योग्यत्वविशेषत्वयोरुपादानान्न द्वितीयक्षणोत्पन्नादृष्टसंयो- गादिना तृतीयक्षणे अपेक्षाबुद्धिनाशः सामानाधिकरण्यसंवन्धनिवेशान्न शब्दादिना व्यधिकरणानां ज्ञाने- च्छादीनां नाशः स्वाव्यवहितपूर्ववृत्तित्वनिवेशाच न ज्ञानादीनामुत्पत्तिकाले इच्छादिना नाश इत्याचट । अत्र ज्ञानाद्युत्पत्तिकाले वर्तमानं यत्तत्पूर्वक्षणोत्पनेच्छादि तेन ज्ञानादेः स्वोत्पत्तिद्वितीयक्षणे नाशापत्ति- वेत्यर्थः । यथाश्रुते तु ज्ञानादिपूर्वकालोत्पनेच्छादिना ज्ञानादेः स्वोत्पत्तिकाले नाशापत्तिनैति लभ्यते तच्चायुक्तम् प्रतियोगितासंबन्धेन वंसत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन सतः कारणतया उत्पत्ति- क्षणे तनाशापत्तेरयोगात् । अत्र विचार्यते । सुषुप्तिप्राकालोत्पन्नज्ञानेच्छादिव्यक्तेः नाशक दुर्भिक्षं तत्समानाधिकरणस्य तदुत्तरवृत्तेः योग्यविशेषगुणस्याभावात् । किंच जीवन योनियत्ननाशस्य कार्यताव च्छेदकानाकान्तत्वापत्तिः तस्य पूर्वोक्तयोग्यत्वाभावादिति । अथोच्येत सुषुप्तिप्राकालोत्पन्नमेव ज्ञान स्वोत्पन्नद्वितीयक्षणविशिष्टं सत् स्वनाशकं भवति तथाहि तज्ज्ञानसामानाधिकरण्यं तज्ज्ञानेऽपि वर्तते एवं स्वाधिकरणीभूतो यः कश्चित्क्षणः तत्प्रागभावाधिकरणक्षणप्रागभावानधिकरणतरप्रागभावाधिकरण. दिनकरीयम्. रणाय विशेषेति । कारणतावच्छेद के योग्यत्वाविशेषत्वयोरुपादानान्न द्वितीयक्षणोत्पन्नादृष्टसंयोगादिना नृती- यक्षणेऽक्षाबुद्धिनाशः सामानाधिकरण्यसम्बन्धनिवेशान्न शब्दादिना व्यधिकरणानां ज्ञानेच्छादीनां नाशेः- स्वाव्यवहितपूर्ववृत्तित्वसम्बन्धनिवेशाच न ज्ञानादीनां उत्पत्तिकाले इच्छा दिना नाशः | केपितुः स्व- स्वस्य तद्वयक्तिपर्यवसायितया तत्सद्गुणस्य तत्तद्गुणो नाशकः अपेक्षावुद्धेस्तु द्वित्वप्रत्यक्षमित्याहुः । परे रामरुद्रीयम्. सत्त्वे रूपान्तरानुत्पत्या अन्वयष्यभिचारासम्भवात् । एवमुत्तरत्रापि । पाकजन्यरूपादिना घटवतिगगनादिसं. योगस्य नाशानुत्पादायभिचारो बोध्यः ॥ न्यधिकरणानामिति । इदं च समानाधिकरणगुणानामेव ना. शकत्वमिति वस्तुगतिमनुरुध्योक्तं व्यधिकरणेच्छया शब्दनाशेऽपि तस्य द्विक्षणावस्थायित्वनिर्वाहेष्टापतिस- म्भवात, परं तु अस्मदुक्त्यैव व्यावृत्तिरिति ध्येयम् । उत्पत्तिकालिकेच्छादिनेति ॥ पूर्वक्षणोत्पने- च्छादिनेत्यर्थः । यद्यपि खस्यैव खनाशकत्वापत्तिरेव वक्तुमुचिता तथापि स्वाव्यवहितपूर्ववर्तित्वस्य गुरुत्वेन तत्स्थाने स्वभिन्नरत्रमेव निबेश्य स्वस्य स्वनाशकत्ववारणसम्भवादेतावत्पर्यन्तानुधावनमिति मन्तव्यम् । अपे. क्षाधुद्धिनाशं प्रत्यपि तृतीयक्षणोत्पन्न द्वित्वनिर्विकल्पकव्यक्तीनां तत्तयक्तित्वेन कारणत्वेऽनन्त कार्यकारणभा. बापत्त्या गौरवात्तककारणताया अपि वक्तुं शक्यत्वेन गौरवम्त्रीकारानौचित्लादित्याशयेनाद ॥ अपेक्षा: स्थिति ॥ एकस्मिन् क्षणे नानाविशेषगुणच् यकीनां नाशेन तधक्तिनाशं प्रति तत्तबत्तित्वेन कारणत्व- कल्पनं बहुतरादिकार्यकारणभावाधिश्यसम्पादकं अतो लाघवेन तत्तत्क्षणोत्पन्नयोग्यविभुविशेषगुणनाशं प्रति -