पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २३१ श- मञ्जूषा. ताग्रहवारणाय द्वितीय दळम् । तत्र दण्डत्वदण्डरूपादिवारणाय कालीनान्तं स्वाभावविशेषणं । तादृशदण्डादि- समवधानकाले दण्डत्वाधभाव संभवात्तद्वारणाय दण्डेतरचक्रभ्रमणादिकाले दण्डाभावासंभवात्स्वव्यापारेति । दण्डव्यापारचक्रभ्रमणेतरदण्डसमवधानकाले दण्डाभावासंभवात् स्वेति । येषां पुनस्साक्षादेव कारणता नतु किञ्चिद्वयापारेण तत्र स्वव्यापाराघटितावेवान्वयव्यतिरेको कारणताग्राहको वाच्या तत्र तद्घटनायां प्रयोजना- भावात् । अथात्र दण्डत्वदण्डरूपादीनां कारणत्वाभावऽभिांश्च ते सात दण्डे अन्वयव्यतिरेको दुर्ग्रही दण्डत्वादेः कारणत्वसंभावनायां दण्डतद्वयापारतरयावत्कारणसमधानकाले दण्डाभावग्रहासंभवात् अगृहीतयोश्च तयोः न दण्डे घटकारणतानिश्चयः अनिश्चितायां च दण्डे घटकारणतायां दण्डत्वा- धावप्यन्वयव्यतिरेकग्रहसंभवः । तन्नहि दण्डवतद्यापारेतरदण्डादिकारणसत्त्वे दण्डत्वाद्यभावासंभवाद्धि नान्वयव्यतिरेकग्रह इति वक्तव्यमसति च दण्डकारणतामहे चकादिकमेव तादृशं कारणमिति त- त्समवधानदशायां दण्डत्वाभावस्य सुग्रहत्वात् । नच चक्रभ्रमणस्यापि खखव्यापारतरतया तत्सत्त्वे कथं दण्डत्याभाव इति वाच्यं दण्डस्येव दण्ड वादेरापे चक्रनमणादिव्यापारणैच कारणतायाइशङ्कनी. यत्वादेवं चान्योन्याश्रय इति चेदुच्यते । तद्धर्मावच्छिन्नविशेष्यककारणताग्रह प्रति तद्धर्मावच्छिन्नसम- व्यापकतावच्छेदकधर्मान्तराधाच्छन्नावधिकगौरवज्ञानस्य माणमन्त्रादिन्यायेन तदभावव्याप्यवत्ताज्ञानमुद्रया वा प्रतिबन्धकत्वस्वीकारेण तादृशदण्डत्वावच्छिन्नावाधकगौरवज्ञानेन दण्डत्वत्वदण्डरूपाद्यवच्छिन्नधर्मिक- कारणताज्ञाने निरुद्ध पश्चाद्दण्डादावन्वयव्यतिरेक्रज्ञानेन कारणताही निषबाध एव गौरवं च रीरकृतं संबन्धकृतं च बोध्यम् । अयं च प्रतिबध्य प्रतिबन्धकभावः कारणतातिरेक्तत्ववादिनामस्मा- कमेव युज्यते नतु नियतपूर्व ऋत्तित्वं कारणत्वमिति चादिनां गुरुधर्मावच्छेदेनापि नियतपूर्ववृत्तिवन हादित्युक्तप्रायम् । नचैतादृशान्वयव्यतिरेकवत्त्वमेव कारणत्वमस्त्विति शङ्कनीयम् । एतस्य कारणत्वघटितत्वे. नात्माश्रयापत्तेः कारणत्वस्थाने नियतपूर्ववृत्तित्वनिवेशे च दण्डत्वापि नियतपूर्ववृत्तितया तत्समरधान- काले दण्डामावासंभलेन दण्डादेः कारणत्वानुपपत्त । नच तत्रापि कारणताघटितोकान्वयतिरेका. नस्य कथं कारणताप्राहकत्वामिति वाच्यं पृथिवीसमवेतद्रव्यत्वादेः पृथिवीत्वरूपव्यक्त्यन्तरनिष्टकारणताथटि. तयोस्तयोव्यक्तयन्तरे कारणताच्यञ्जकत्ने बाधकाभावात् । एवंच कारणातामाहकान्वयव्यतिरेकसहचारवि. घटकतया क्रमादन्वयातरेकव्यभिचारयोः कारणताहविरोधित्वव्यवहारः । अथ यस्य पुंसः एतावन्तं कालं न कुत्रापि घटकारणताग्रहः तत्र प्रथम कस्मिंश्चिटे कारण तां कथम सौ निश्चिनुयात् तत्र निरुक्तान्वयव्यति- रेकयोरग्रहादिति चेदुच्यते । न वयं कारणताग्रहमात्रे निरुक्तान्वयव्यतिरेकज्ञानस्य कारणतां ब्रूम है किन्तु लौकिके उपनीतभानात्मके च प्रत्यक्षे कचिदनुमितौ च तत्र च प्रथमं दण्डादौ घटकारणताग्रहो बहुधा संभवति । यथा कस्यचिद्दण्डो घटकारणमित्याप्तवाक्यात्कस्यचिदाप्तवाक्याचक्रादौ कारणताग्रह पश्चादन्वय- व्यतिरेकाभ्यां दण्डेऽपि घटकारणतानिश्चयः । कश्चित्तु घटोत्पत्तेः प्राक् नियमेन दण्डचक्रादीनुपलभमानः तदभाये घटानुत्पादंच पश्यन्नियतपूर्ववृत्तिषु दण्डादिषु दण्डत्वादिषु च अविशेषेण कारणतां संभाव्य दण्डा. दिनियतानां दण्डत्वादीनां कारणतां गौरवेण परमाणुभिन्नविशिष्टेषु किञ्चिदेव कारणमुत सर्वाणि वेति सन्दिहा. नः सर्वेषामेव स्वस्वेतरेषु कारणत्व संभावनाविषयेषु सत्सु कसत्त्वे कार्यसन्वं स्वाभाचे कार्याभाव इत्यन्वयव्य तिरेकाववधार्य सर्वेषामेव कारणतां निश्चिनोतीति किमनुपपनं तस्माद्युक्तमतिरिक्ता कारणतेति । एवं कारणतानुगमकं काराणाकारानुगतप्रतीतिसाक्षिक कारणातात्वमप्यनुगतमेव । एवमिह दण्डसत्त्वात् घटसत्त्व- मिह दण्डाभावात् घटाभाव इति प्रतीत्या कारणान्वयव्यतिरेकयोः कार्यान्वयव्यतिरेक निरूपितं स्वरूपरां बन्धरूपं प्रयोजकत्वमतिरिक्त वाऽवश्यं स्वीकार्यम् । केचिनु तद्धर्मावच्छिन्नान्वयव्यतिरेकप्रयोजकान्वयव्य- तिरेकवत्त्वमेव कारणत्वमस्तु स्वस्वव्यापारतरत्यादिपूर्वोक्तान्वयव्यतिरेकज्ञानस्य कारणतावच्छेदकत्वाभि- मतधर्मावच्छिन्नान्वयव्यतिरेकयोः कार्यतावच्छेदकत्वाभिमतधर्मावच्छिन्नान्वयव्यतिरेकनिरूपितप्रयोजकता-