पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ कारिकावली 1 मञ्जूषा. वच्छेदकभेदात भिन्नतया तथोक्तिः संगच्छते कारणतावच्छेदकतानां भेदप्रसङ्गाच । कारणतावच्छेदकता हि प्रतीतिकल्प्या प्रतीतिश्च कारणाविशेषणे कारणतावच्छेदकतां तद्विशेषणे च तदवच्छेदकतामवगाहमाना ना- नाविधा दृश्यते तत्रच कस्याः प्रमात्वं कस्याश्च भ्रमत्वमिति न विनिगन्तुं शक्यमतो नालोकसंयोगस्य कार- णता युक्ता नत्वेवं तत्र संभवतीत्यवोचाम । नन्वतत्तदा संभवति यद्यालोकवृत्तित्वसंयोगत्वयोरेकमवच्छेदक- मन्यदवच्छेदकतावच्छेदकमित्युपगम्येत वयं तूभयोरपि कारणतावच्छेदकतामेवोपगच्छामः उभयोरपि ध. मिविशेषणतया भानसंभवादिति चेदुच्यते । किमालोकवृत्तित्वसंयोगत्वे च प्रत्येकपर्याप्ते कारणतावच्छेदकते द्वे अभ्युपगम्येयातामुतका तदुभयपर्याप्ता । आद्य कारणतावच्छेदकतापर्याप्त्यधिकरणधर्मवतः सत्वे कार्यो- त्पत्त्यवश्यंभावादन्धकारस्थघटेऽप्यालोकवृत्तित्ववत्तो द्रव्यत्वादः पवनपरमाणुसंयोगस्य च सत्त्वात्प्रत्यक्षापत्तिः कारणतावच्छेदकतापर्याप्त्याधिकरणयावद्धर्माश्रयसत्ताया एव कार्योत्पत्तिव्याप्यतास्वीकारे चक्षुस्संयुक्तसमवा- यादेः कारणत्वानुपपत्तेः कारणतावच्छेदकीभूता यावन्तश्चक्षुस्संयोगास्तद्वत्समवायाप्रसिद्धेः प्रकृतेऽपि कारण. तावच्छेदकीभूतानि यावन्त्यालोकयत्तित्वानि तदाश्रयाप्रसिद्धेश्च । न द्वितीयः तदवच्छेदकसंबन्धानिरूपणात् । नहि तत्र समवायः स्वरूपं वाऽवच्छेदकाभवितुमर्हति न्यूनवृत्तित्वात् इदं हि नवाभिप्रेनं समवायस्वरूपो- भयसंवन्धावच्छिन्नावच्छेदकत का संयोगत्वे आलोकवृत्तित्वे च उभयत्र पर्याप्नोतीति । नचेदं संभवति उभ- यसंबन्धन कस्याप्यवृत्तित्वात् कारणतावच्छेदकताघटकसंबन्धेनैव कारणतावच्छेदकतापर्याप्त्यधिकरणधर्मा. श्रयसत्त्वमेव हि कार्योत्पत्तिव्याप्यम् । नचात्र तादृशं न समवायन स्वरूपेण वा तत्पर्याप्त्यधिकरणोभयवत्वं कस्यचिदस्ति कारणतावच्छेदकताघटकसंभावित संबन्धेन कारणतावच्छेदकतापर्याप्त्यधिकरणकदेशाधयसत्त्व- स्थापि कार्यव्याप्यत्वे पवनपरमाणुसंयोगे सत्यपि प्रत्यक्षापत्तेः । कारणतावच्छेदकताश्रययावद्धर्मवत्कारणसत्त्वं तुनकुत्रापि यावतामालोकवृत्तित्वानां कचिदप्यसत्वात् । किचालोकवृत्तित्वनिष्ठावच्छेदकतानिरूपितत्वसंवन्धा. वच्छिन्नालोकनिष्ठावच्छेदकताका न सा संयोगवे वर्तितुमर्हति संयोगत्वस्यालोकनिरूपितत्वाभावात्। संयो. गत्वनिष्ठावच्छेदकतातु निरवच्छिन्ना नालोकवृत्तिवे वर्तितुमहति आलोकवृत्तित्वनिष्ठावच्छेदकताया आलोकाव. च्छिन्नत्वात् । किञ्च यत्र कारणताल छेदकता किंचिद्धर्भावच्छिन्ना तल कि कारणतावच्छेदकतावच्छेदकध- मविशिष्टं यत् कारणतावच्छेदकं तदाध्यसत्त्वं कार्योत्पत्तिव्याप्यं आहोस्वित् कारणतावच्छेदकतावच्छेदक- विशिष्टं यत् कारणतावच्छेदकतापर्याप्त्यधिकरणं तदाश्रयसत्त्वं आये निरूपित्तत्वसंबन्धेनालोकविशिष्टं यहृति- त्वरूपं कारणतावच्छेदकं तदाश्रयद्रव्यत्वादपि कार्यापत्तिः । द्वितीये कारणतावच्छेदकतापर्याप्त्यधिकरणास्य वृत्तित्वसंयोगत्वोभयस्य कारणतावच्छेदकतावच्छेदकाभूतो य आलोकः निरूपितत्वसंबन्धेन तद्विशिष्टत्वाभा- वादप्रासद्धिः । अधिकमुत्तरत्र तत्रतत्र प्रसक्तस्थलेयूपपादयिष्यामः । तस्मात्कारणतावच्छेदककोटिप्रविष्टप - दार्थानां यत्र भेदस्तत्रैकमवच्छेदकमन्यदवच्छेदकतावच्छेदकामित्येव स्वीकार्य तत्र विनिगमनाविरहात् कार- णतावच्छेदकतानां तदवच्छेदकतानांच नानात्वं दुर्वारम् । तेन कारणताया अपि भेदस्संपद्यते अवच्छेदक. ताभेदस्यावच्छेद्यभेदप्रयोजकत्वात् । तस्मादालोकसंयोगस्य कारणत्वे गौरवमिति प्रथकृतामुक्तिर-- स्माकं संगच्छते नतु नियतपूर्ववृत्तित्वं कारणत्वमिति वादिनः नियतपूर्ववृत्तितावच्छेदकतायास्तदवच्छे- दकतायाश्च दर्शितधर्मद्वये तत्प्रतीतिवलेनानिचार्यत्वात् । इदं च प्रदर्शनार्थं किमपि स्थलमस्माभि- रिहोदाहृतं बहूनि वेवंजातीयकानि स्थलान्यूद्यानि अत्र कारणतावच्छेदककोटिप्रविष्ट पदार्थानां चि. शेषणविशेष्यभावे विनिगमनाविरह युक्तकारणतावाहुन्यप्रतिपादकग्रन्थविरोधं समुचिनोति योरुभयोति वाकारः । तथाच कारणतासु बह्वीषु विशेषणविशेष्यभावे विनिगमनाविरहे वा गुरुता कुत एव स्यादित्यर्थः । अनुपपत्त्यन्तरमुच्यते हेतुता किमिति नो गुरुणावच्छिद्यत इति । घटकार. णतावच्छेदकं दण्डत्वं नतु वंशदळसमवेतद्रव्यत्वं गौरवादिति ग्रन्थकृद्भिराभेधीयते । नचेदं युज्यते पंशदळसमवेतद्रव्यं घटानियतपूर्ववृत्तीति प्रतीतिसिद्धनियतपूर्ववृत्तितावच्छेदकत्वरूपकारणतावच्छेदकत्वस्य कारणत-