पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ कारिकावली मञ्जूषा णां च केषांचिदनुगतरूपनिवेशस्संभवति । तद्यथा घटत्वावच्छिन्न कारणताशरीरे धर्मिविशेषणभेदप्रति. योगितानां दण्डत्वदण्डरूपादीनां दण्डचकसंयोगातिरिक्तदण्ड समवेतत्वेनानुगमः । नियतपूर्वत्तितावच्छे. दकविशेषणभेदप्रतियोगिताना दण्डरूपद्रव्यत्वादीनां नु दण्डत्वातिरिक्तदण्डसमवेतत्वेन एवमाकाशकुला- लपितृत्वचकनमिजनकत्वादीनां किंचिन्निरूपितपूर्नवृत्तित्वघटितत्वेनैवानुगमः । पाञ्चभौतिक शरीरमिः ति श्रुत्या शरीर प्रत्याकाशस्य कारणतावोधनाच्छरीरत्वावच्छिन्नकारणताशरीर शब्दपूर्ववृत्तित्वातिरि. कपूर्ववृत्तित्वघटितधर्मभेद एवं नियतपूर्ववृत्तिनावच्छेदकधर्मविशेषणं एवमन्यत्रापि यथासंभवमूहनीय म । यादचैवं दण्डत्वादिभेदस्य घटत्वावाच्छन्नकारणताशरीरे नियतपूर्ववृत्तितावच्छेदकधर्मविशेषणत्वा . भावे कपालसिष्टघटनियतपूर्ववृत्तितायां स्वाधयसंयुक्त संयोगसंबन्धेनावच्छेदकीभूतं यद्दण्डत्वं स्वाश्रयसं- योगसंबन्धेन तद्वत्वस्य कपालनिष्टस्य घटवावच्छिन्नकारातात्वं स्यान्न चैतदिध्यते तान्त्रिकैः द्रव्य- स्वादिनेव तेन रूपेणापि कपालस्यान्यथासिद्धत्वाकारात् दण्डत्यादिभेदस्यापि नियतपूर्वधात्ततावच्छे. दकधर्मविशेषणतया तत्र निवेशे दण्डस्यापि दण्डत्वेन रूपेणान्यथासिद्धथापत्तेरिति विभाव्यते तदा नियतपूर्वत्तितावच्छेदकधर्माधिकरणत्वमेव कारणत्वम् । तत्र नियर पूर्ववृत्तितावच्छेदकधर्मविशेषणभेद- प्रतियोगितया अभिमता ये धर्मा द्रव्यत्वादयः तत्तदधिकरणताभेद एव नियतपूर्ववृत्तितावच्छेदक- धर्माधिकरणत्वविशेषणतया निवदयः तत्रच दण्डत्वनिरूपितावाश्यसंयुक्तसंयोगसंबन्धावच्छिन्नाधिकरण- ताभेदस्य निवेशान कपालस्य दण्डत्वेन रूपेण कारणतापत्तिरिति दिकः । ननु कारणत्वस्ये दृशत्वे तन्न व्यतिरेकव्यभिचारज्ञानस्य ग्राह्याभावावगाहितया प्रतिबन्धकत्वेऽपि अन्वयव्याभिचारज्ञानस्य प्रतिबन्धक- ता न स्यादिति चेलेयत एव तत्र तस्य साक्षात्प्रतिबन्धकत्वं । किंतु इतकारणसन्वे यपविशिष्टसत्वेऽपि न कार्योत्पत्तिः तपबत्त्वपर्यवसन्नस्यान्वयव्यभिचारस्य पूर्वोक्तरीत्या कारणताशरीरनिविष्टभेदप्रतियोगिकति- एयपदार्थपरिचायकतया तज्ज्ञानस्य कारणताज्ञ'नप्रतिवन्धकत्वव्यपदेश इति । ये त्वन्यथासिद्धरनुगतत्व भ्राम्य- न्ति तेशमन्वयव्यभिचारस्यान्यथासिद्धिच्याप्यतया तदभायघाटित कारणताग्रहे साक्षादेव विरोधित्वं संभवती- ति बोध्यम् । अत्र नव्याः कारणत्वमतिरिक्तमाचक्षते युज्यते चैतत् तथा ह्यभियुक्ता मन्यन्ते। कारणत्वमति- रिक्तमिति स्यात्तन्त्रकार वचसामकुसृष्टः । अन्यथातु गुरुता कुत एव स्याद्धि कारणतयोरुभयोर्वा ॥ हेतुता कि- मिति नो गुरुणावच्छिद्यते भजति न व्यपदेशम् । केन पालुपरिमाणनिवृत्ता सा हि पूर्वसमयस्थितिरूपा ॥ इत्यादि । अयमर्थः । कारणत्वमतिरिक्तामत्येच युक्तं तथा सत्येव बहीनां अन्धकृदुक्तानामकुमृष्टेः उपपत्तरित्यर्थः । अन्यथा स्वनुपपत्तिस्यादिति भावः । अनुपपत्तिरेव प्रदर्यते । अन्यथा विति । यदि कारणत्वं नियतपूर्ववृत्तित्वं तदवच्छेदकधर्मवत्त्वं वा स्यात्तदेत्यर्थः । गुरुतेति । चित्ररूपाङ्गी- कर्तारो हि साम्प्रदायिका नानाजातीयरूपवश्वयवारब्धेऽवयविनि नालपीताद्यारम्भवारणाय समवायेन नीलं प्रति स्वाथ्यसमवेतत्वसंवन्धेन पीतादीनां प्रतिवन्धकतामजीकुर्वन्ति । तत्रच तत्संबन्धावच्छि- नप्रतियोगिताकानां पतिाद्यभावानां पण्णां कारणत्वे गौरवात्तत्संवन्धावच्छिन्न प्रतियोगिताकस्य नीलाति- रिक्तरूपसामान्याभावस्यैकस्य कारणतेति च ते व्यवहन्ति सोऽयं व्यवहारस्तेषामयार्थकः संपद्यते गौरवस्य दुर्निरूपत्वात्तथाहि षण्णां कारणत्वे कि गौरवं कारणत्वं हि नियतपूर्ववृतित्वं तन पट्- स्वपि कृप्तमेव न कल्पनीयं नहि विशेषाभावकूटमन्तरा क्वचिदपि खामान्याभावस्संभवति नवा पीता- भाववादीनां पण्णां नियतपूर्ववृत्तितावच्छेदकत्वकल्पनापेक्षया नीलातिरिक्तरूपसामान्याभावस्य एकस्य तथात्वकल्पने लाघवमिति भ्रमितव्यम् । पीताभावो नीलपूर्ववृत्तिरित्यादिप्रतीत्या पीताभावत्यादीनां नियतपूर्ववृत्तितावच्छेदकतायास्तवाप्यशक्यवारणत्वात् नीलाव्यवहितप्राक्क्षणावच्छेदेन नीलाधिकरणवृत्त्यभा. वप्रतियोगितानवच्छेदकत्वरूपस्य नियतपूर्ववृत्तितावच्छेदकत्वस्य च पीताभावत्वादीनां तादृशाभावप्रति- योगितावच्छेदकत्वमनुपपाय दुरपह्नवत्वाञ्च । इदं हि तेषामभिधित्सितं पाताभावादीनां षण्ण।