पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ कारिकावली का- प्रभा. रूपवान् दण्डो घटपूर्ववृत्तिरित्यादिज्ञानमादाय दण्डरूपस्यापि घटनियतपूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकत्वात् तत्रातिव्याप्तितादवस्थ्यात् नच विशेष्यतावच्छेदकत्वामित्यस्य विशेष्यतानिरूपिताइन्छेदकतापर्याप्त्यधि- करणत्वस्य निरवच्छिन्न 'वच्छेदकत्वस्याविवक्षणातू प्रकले तादृशावच्छेदकतायाः दण्डत्यान्तर्भावेणैव पर्याप्तेः रूपनिष्ट वच्छेदकतायाः रूपत्व वाच्छमत्वाच नाक्त दोष इति वाच्यम् । तथासाति विशेष्यदलवैयर्थ्यांपत्तेः कपाल पंयोगो धटपूर्ववृत्तिरित्यादिज्ञानीयविशेष्यतावच्छेदकतायाः कपालमात्रावृत्तितया कपालस्य तादृशा- वञ्छदकतापर्याप्चनधिकरणतया कपालनिष्टावच्छेदकतायाः निरचच्छिन्नत्वाभावाच विशेष्यदलवैयर्ये इष्टापत्तिरिति चेन्न तथापि शब्दकारणतावच्छेदककत्वादेः विशेषपदार्थस्य वा जात्यखण्डोपाध्यतिरिक्तपदा. थत्वेन स्वरूपतोऽवच्छेदकत्वासंभवेन विशिष्टत्वावच्छेदकत्वावश्यकतया कवत्वादी तादृशावच्छेदकत्वपर्या- मऊजूपा. नवच्छि नत्वमेव विशेष्यताविशेषणं कपालत्वस्य कालवसंयोगत्व समानाधिकरणत्वाभावान्न दोष इति वाच्य तथालि कपालसंयोग बसमानाधिकरणं घटनियतपूर्ववृत्तितावच्छेदकं च यत्संयोगत्वं तद्धटितकपा- लसंयोगत्वावच्छिन्नन्वात्तादविशेष्यताथा अव्याप्नेदुरित्वात् । अयाच्येत नियतपूर्ववृत्तितावच्छेदकधर्म निग्रन्यूनवतितानिरूपका भन्न स्वसमानाधिकरणं यन्नियतपूर्ववृत्तितावच्छेदकं तद्घाटितधर्मानवच्छिन्न नियतपू. वृत्ति व ग्रहविशेष्यतावच्छेदकत्वे सति स्वावधिकगौरवशून्यनियतपूर्ववृत्तितावच्छेदकधीनिष्ठन्यूनवृत्तितानि- सकभिन्न ये सति स्वतन्त्रान्वयव्यतिरेक शून्यत्वं विवक्षितं संयोगत्वं तु नियतपूर्ववृत्तितावच्छेदको भूतक.पा- लसंयोगत्यनिष्ठन्यूनवृत्तिानिरूपकमेवेति न तटिनधर्मावच्छिन्नत्वमादाय कपालसंयोगत्वे अव्याप्तिरि- ति । तदा दण्डरूपत्वविशिष्टेऽतिव्याप्तिः तस्य हि स्वावधिकगौरवशून्य तादृशदण्डत्वादिरूपधर्मनिष्ठन्यूनवृत्ति तानिरूप कभिन्नत्वं स्वतन्त्रान्वयव्यतिरेकशून्यत्वं च निर्विवादम् । किंतु प्रथमसत्यन्तेन तव्यावर्तनं यं तच्च न संभवति तत्राहि दण्डरूपवान घटनियतपूर्ववृत्तिरिति ग्रहविज्ञप्यताया दण्डत्वघटितमधर्मा- छिन्नत्वान्न दोष इति वाच्यं तच्चाप्रयोजकं दण्डत्वस्य घटनियतपूर्ववृत्तितावच्छन्दकीभूततावदन्यतमः स्वनिष्ठन्यूनवृत्तितानिरूपकत्वात् । यदि तु प्रथमसत्यन्त शरीरेऽपि स्वावधि कगौरवशन्यनियतपूर्व यातिताय- च्छेदकधर्मनिष्टन्यूनवृत्तितानिरूपकभिन्नत्यमेव निवेश्यते स्वं न्यूनवृत्तितानिरूपकत्येनाभिमतो धर्मः ततश्च दण्डत्वं तादृशधर्मनिष्टन्यूनवृत्तितानिरूपकभिन्न मवेति न दण्डरूपत्वविशिष्टेऽतिव्याप्तिरिति विभाव्यते तदा संयोगत्वनिरूपित न्यूनवृत्तिताश्रय भूतभ्य कपालसंयोगत्वावाधकगौरवावशिष्टतया तादृशगौरवशून्यनियतपूर्वव. नितावच्छेदकधर्मनिष्टन्यूनवृत्तिलानिरूपकभिन्नमब संयोगवमिति कपालमंशोगवे अव्याप्तिदुवारैव । ननु तद्धर्मावच्छिन्ननिरूपित्तनियतपूर्ववृत्तितावच्छेदकरवे सक्ति स्वतन्त्रान्वयव्यातरकेशून्यत्वमेव लक्षणं नतु तत्र ग्रहान्तवः प्रयोजनाभावात् । विश्वनाथेन महादेवन च ग्रहोत्कीतनं स्वरूपाख्यानमाले घटत्वा वच्छिन्ननिरूापितनियतपूर्ववृत्तितावच्छेदकं च दण्डत्वमेव दण्डो घटनियतपूर्ववृत्तिरिति व्यवहारात् नतु दण्डरूपत्वविशिष्टं दण्डत्वापेक्षया तस्य गुरुत्वात् दण्डरूपवान् घटनियतपूर्ववृत्तिरिति व्यवहाराभावाच्च । अत एव न रूपत्वविशिष्टस्य द्रव्यत्वस्य च तथात्वं रूपवानियतपूर्ववृत्तिः द्रव्यं घटनियत पूर्ववृत्तीति व्यवहाराभावात् कपालसंयोगो घटाने पतपूर्ववृत्तिरिति व्यवहाराच कपालसंयोगल्ये नाव्याप्तिरिति चेत्सेयं कदरला वासना दण्डरूपादेहि न दण्डनिएकारणतावच्छेदकतावच्छेदकतामभ्युपयन्ति त्रिकाः न व्यवहरन्ति च दण्डरूपवान् घटकारणमित्यादि दण्डनिष्टघटनियतपूर्ववृत्तितावच्छेदकत्वस्य दण्डरूपादों स्वीकारे दण्डरूपवान् घटनियतपूर्व वृत्तिरिति व्यवहारस्वीकारे च किं बाधकमुत्पश्यसि । घटनियतपूर्व वृत्तितावच्छेदकत्वं हि घटाव्यवहितप्राक्क्षणावच्छेदेन घटाधिकरणवृत्त्यभावप्रतियोगितामवच्छे- दकत्वं तच कथं दण्डरूपत्वविशिष्टे द्रव्यत्वादी च व्युदसितुं प्रभूयते । अथ मन्यते तद्धर्मावच्छिन्न । निरूपित कारणतावच्छेदकत्वे सति स्वतन्त्रान्वयव्यतिरेकशून्यत्त्वमेव विवक्षितमिति तर्हि पृच्छामः