पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । कार्थकारणकार्थान्यतरप्रत्यासत्त्या समवायिकारणे प्रत्यासन्नं कारणं ज्ञानादिभिन्नम- समवायिकारणमिति सामान्यलक्षणं पर्यवसितम् । आभ्यां समवायिकारणासमवायिका- रणाभ्यां परं भिन्नं कारणं तृतीयं निमित्तकारणमित्यर्थः १८ ॥ प्रभा. स्वमिति फलितमिति भावः ॥ समवायिकारणासमवायिकारणाभ्यामिति ॥ समवायिकारण- स्वासमवाधिकारणत्वाभ्यामित्यर्थः । कारणमिति ॥ कारणत्वमित्यर्थः ॥ निमित्तकारणमित्यर्थ इति ॥ निमित्तकारणत्वमिति फलितोऽर्थ इत्यर्थः । तेन तुरीपटसंयोगं प्रति तुरीहन्तुसंयोगस्यासमवाधिकारणत्वेऽ- पि स्वसमवेतरूपादिकं प्रति तत्वक्याविनः समवाथिकारणत्वेऽपि च न पदं प्रति निमित्तकारणत्व क्षतिरिति हृद- यम् ॥ १८ ॥ मञ्जूषा. द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्युद्भूतरूपचक्षुस्संयोगादेः निमित्तकारणत्वानुपपत्तिश्च । द्रव्यचाक्षुषत्वाद्यवच्छिन्न- निरूपितयोस्तयोरप्रसिद्धेस्तदेतत्सर्वमभिप्रेत्यैव समवायिकारणत्वासमवाथिकारणत्वान्यकारणत्वमेष निमि- त्तकारणत्वमित्यर्थ उक्तो महादेवेन नचैतावता कृतकृलतेति मन्तव्यम् । असमवायिकारणताभिन्न- त्वस्य दुर्वचत्वात् । तथाहि असमवायिकारणताभिन्नत्वं यदि समवायावछिन्न कार्यतानिरूपिसमवाय- स्वाश्रयसमवेतत्वान्यतरसंबन्धावच्छिन्नकारणताभिन्नत्वं तदा परामर्श दिनिष्ठा नुमित्यादिकारण तायामव्याप्तेः भेदप्रतियोगिकारणतायामा मविशेषगुणभिन्नऋत्तित्वनिवेशनेन वारणोऽपि तुरीतन्तुसंयोगादिनिष्ठपादि- कारणतायामव्याप्तिर्दुबारा । तुरीतन्तुसंयोगादिभिन्नवृत्तित्वस्यापि तत्र निवेशे तुरीतन्तुसंयोगादिनिष्ठतुरी- पटसंयोगासमधाथिकारण तायामतिव्याप्तिः । तम्मादस्मदुक्तलक्षणाकान्तासमवाधिकार णताघटितमेव नि- रुक्तकारणतायास्सामान्य लक्षणं वक्तव्यम् । एवं यावत्यः असमवाधिकारणताव्यक्तयो लोक प्रसिद्धास्त- दिनकरीयम्. द्रव्यासमवाथिकारणत्वमित्यादि विशिष्यव लक्षणं निवांच्यं अखण्डोपाधिरेव वा सदित्यन्ये ॥ भिन्न कारणमिति ॥ अत्रेदं बोध्यम् । समवाधिकारणत्वासमवायिकारणत्वभिन्न कारणत्वमेव निमित्तकारण- स्वम् । तेन तुरी पटसंयोगं प्रति तरी तन्तुसंयोगस्यासमचाथिकारणत्वेऽपि न तस्य ५८ प्रति निमित्त- कारणत्यक्षतिरिति ॥ १८ ॥ रामरुद्रीयम्. शजनकनाशप्रतियोगिनि घटादाचप्यातव्याप्तिस्वयविरूपासमवानिकारणावयवरूपादानव्याप्तिश्च रष्टव्येति वि- भावेनीयम् । इत्यादिविशिष्यवेत्यादिना रूपनिष्ठसमवायसम्बन्धानवच्छिन्न कार्यतानिरूपितकारणताशालिरूपत्वं रूपासमवायिकारणलक्षणमिलादीनां परिग्रहः । पाकजरूपे चाग्निसंयोगो निमित्तं न त्यसमवाथिकारण ना- तस्तत्राव्याप्तिरिति भावः । पटानारम्भकतन्तुद्वयसंयोगे अतिव्याप्ति परिचिन्त्य कारणत्वं पदार्थान्तरमिति मताभिप्रायेणाह ॥ अखण्डोपाधिरिति ॥ भिन्न कारणभितीति || ननु समवायिकारणासमवायि- कारणभिन्नत्वे सति कारणत्वस्य निमित्तकारणलक्षणत्वे पटनिमित्तकारणे तुरतिन्तुसंयोगेऽव्याप्तिः तस्य तुरी- पटसंयोगासमवायिकारणत्वेन तद्भिन्नत्वविरहात् न च तत्कार्यसमवायिकारणासमवाथिकारण भिन्नत्वे सति तत्कार्यकारणत्वं तत्कार्य प्रति निमित्तकारणत्वमिति विशिष्यैव लक्षणं वक्तव्यम् । तथा च तुरीतन्तुसंयोग- स्य पटसमवायिकारणासमवायिकारयोभिन्नत्वेन न तत्र पटनिमित्तकारणत्वानुपपत्तिरिति वाच्यं तथासति ध्वंसं प्रति निमित्तकारणे प्रतियोग्यादावव्याप्तेः तस्य समवायिकारणासमवायिकारणयोर प्रसिद्धरित्याशङ्का निराकुरुते ॥ अत्रेदमित्यादिना ॥ समवाधिकारणत्वं समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्य- संबन्धावच्छिन्नकारणत्वं असमवायिकरणत्वं च तादृशकार्यतानिरूपितनिरुतान्यतरसम्बन्धावच्छिन्न कारणत्व- मिति बोध्यम् ॥ १८ ॥