पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ कारिकावली सत्तावन्तस्त्रयस्त्वाद्या गुणादिनिर्गुणक्रियः ॥ १४ ॥ सत्तावन्त इति ॥ द्रव्यगुणकर्मणां सत्तावत्त्वमित्यर्थः ॥ गुणादिरिति ॥ यद्य- पि गुणक्रियाशून्यत्वमाद्यक्षणे घटादावतिव्याप्तं क्रियाशून्यत्वं च गगनादावतिव्याप्तं तथापि गुणववृत्तिधर्मवत्त्वं कर्मवदवृत्तिपदार्थविभाजकोपाधिमत्त्वं च तदर्थः । नहि घट- प्रभा न्तस्त्रय इति मूलस्य भावार्थमाह ॥ द्रव्य गुणकर्मणामिति । अत्र नित्यानित्यभाववृतिपदार्थवि- भाजकोपाधिमत्व द्वयोस्साधय बोध्यम् । क्षित्यादीनां नवानान्वित्यादिना द्रव्यसामान्यलक्षणस्याने वक्ष्यमाणतयाऽत्र नामिहितामति बोध्यम् । ननु निर्गुण किय इति यथाश्रुतमूलार्थगुणशून्यत्व क्रियाशून्य- स्वलक्षणयोराद्यक्षणे घटादातिव्याप्तिवारणाय गुणरूप प्रतियोग्यधिकरणावृत्तित्वस्यावश्यमभावे निवेशनीय- तयाऽऽवश्यकगुणवदतिमत्त्वस्य लक्षणत्वनैव दोषवारणसंभवे गुणाभावनिवेशनमफलमित्याशयेन तथैव लक्षणमाह ॥ तथापीति ॥ अतिव्याप्तिवारणाय धर्मवत्वनिवेशः । यद्वा ननु निर्गुण इत्यत्र नमः मम्जूषा. कंपालधैटौ समवायसंबन्धेन संबन्धिनों भूतलबटाभावों विशेषणतासंबन्धेन संबन्धिनाविस्यादि ॥ भूले आद्या इति ॥ ननु किमत्राद्यत्वं न तावत् प्रथमपठितत्वं ताद्ध स्वघटितविभागवाक्यघटकविधेयबोधक- पदानुत्तरविधयबोधकपदप्रतिपाद्यत्वं तच्च द्रव्यमानसाधारण तथाच आद्यास्त्रय इति वाक्याव्याणामेव येषां केषां चित्त्रयाणां पृथिव्यप्तेजसा प्रत्ययस्यादिति चेदुच्यते । इहाद्यश्चाद्यश्चाद्यश्चेति विप्रहः तत्र प्रथमाद्यपदं दिनकरीयम् समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वं द्रव्यादिचतुर्णा साधर्म्य बोध्यम् । उद्देश्यवाचकपदस्य चरममु. पादानमयुक्तमतो योजनया तदर्थं प्रदर्शयति ॥ द्रव्यगुणकर्मणामिति ॥ निर्गुणक्रिय इति मूलम् । तदर्थश्च गुणक्रियात्यन्ताभाववत्त्वम् । तेन गुण किययोरन्योन्याभावमादाय द्रव्ये नाति- व्याप्तिः ॥ यद्यपि गुणेति ॥ न च गुणगुणिनोमिदक्षिणगोविषाणवत्समानकालिकत्वात्कथं गुण. शून्यत्वमिति वाच्यं निर्गुणे गुणोत्पत्तिस्वीकारेण तत्सम्भवात् । न चैवं घटादेरायक्षणावच्छिन्नस्य चाक्षुषता न स्यादिति वाच्यं इष्टापत्तेः । तथापीति ॥ गुणवत्ता च समचायेन तेन कालि. रामरुद्रीयम्. सत्तावत्त्वं साधय विधीयते तच्चायुक्त उद्देश्यवाचकपदस्य पूर्वमभिधेयत्वात् अत एव पर्वतो व- हिमानित्येव प्रतिज्ञावाक्यं न तु वहिमान् पर्वत इति इत्याशङ्कानिरासाय योजनया लभ्यमर्थ मुक्तावल्यां प्रकटयतीत्याह ॥ उद्देश्यवाचकेति ॥ अन्यथा तादृशवाक्यस्यातिस्पष्टार्थतया द्रव्य. गुणेत्यादिवाक्यमनर्थकमेव स्यादिति भावः । अत्र च नित्यसमवेतपदार्थविभाजकोपाधिमत्त्वं द्रव्य- गुणयोः साधर्म्य बोध्यम् । द्रव्यमानस्य तु साधय मूलकृतव वक्ष्यते । ननु निर्गुणत्वादिकं य- दि गुणक्रियान्योन्याभाववत्त्वं तदा द्रव्येऽतिव्यातिः तत्रापि तयोर्भेदसत्त्वादित्यत आह ।। तदर्थश्चे. ति ॥ चाक्षुषत्वं न स्यादिति ॥ चाक्षुपं प्रति रूपस्य कारणत्वादुत्पत्तिक्षणे च घटादौ तब- भावादिति भावः । नन्वाद्यक्षणे घटादी रूपानीकारेऽपि तत्पूर्वक्षणे घटायभावेन कारणीभूतस्य तद्व- ति चक्षुःसंयोगस्याभावादाद्यक्षणे घटादिचाक्षुषमेव ग सम्भवतीति कथमियमापत्तिः चक्षुःसंयु- कसमवायस्यापि घटादौ तदानीमसम्भवात् उत्पत्तिप्राक्क्षणे पठादेरेवाभावात् वस्तुतस्तु परमाणु- दव्यत्वादिप्रलक्षवारणाय चक्षुःसंयुक्त योग्यत्त्वविशेषणस्यावश्यकतया व्यणुकचाक्षुषे व्यभिचारापत्त्या द्रव्यान्यदन्यसमवेतचाक्षुषत्वस्यैव संयुक्तसमवायकार्यतावच्छेदकत्वेनोपगन्तव्यतया चक्षुःसंयुक्तसमवा- येन घटादेः प्रत्यक्षमेव न सम्भवतीत्यभिप्रायेण समाधत्ते ॥ इष्टापरिति । तथाच तृतीयक्षण