पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नात्यन्ताभाव इति प्राचां मतं श्यामघटे रक्तो नास्ति रक्तघटे श्यामो नास्तीति धाश्च प्रागभावं ध्वंसं चावगाहते न तु तदत्यन्ताभावं तयोर्विरोधात् । नव्यास्तु विरोधे मानाभावात् ध्वंसादिकालावच्छेदेनाध्यत्यन्ताभावो वर्तत इत्याहुः । प्रभा. प्रामाणिकतया ताशाभावस्य प्रतियोगितावच्छेदकसंबन्धेन सहैव विरोधस्वीकारात् घटसंयोगशून्यता- दशायां तादृशघटाभावस्य तत्र वृत्तौ बाघकाभावेन न तत्र ताशाभावप्रतीलनुपपत्तिः । एवं सं- बन्धान्तरेणाभावस्थलेऽपीति वाच्यम् । केषांचिदभावानां तादृशाधिकरणतया साकं केषांचित् प्रतियोगि- तावच्छेदकसंबन्धेन सार्क विरोधं परिकल्प्य प्रतीतिरुपपादनीया एवंच समवायस्य नित्यत्वेनैकत्वेन च श्यामतादशायामपि घटे रक्तसमवायरूपाविरोधिनो रकत्वावाच्छन्ननिरूपिताधिकरणत्वरूपविरोधिनश्च सत्त्वेन तत्र रकात्यन्ताभावसत्त्वासंभवेन नास्तीति प्रतीतेः ध्वंसविषयकत्वमाकर्तव्यं ध्वंसप्रामभा- वयोस्तु प्रतियोगिना सहैव विरोधस्वीकारेणान्तराश्याम रक्तस्वरूप प्रतियोग्यभावेन तयोवृत्तित्वसंभव इति प्राचामाशय इत्यभिप्रायेण ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतमिति विश्वनाथपंचाननभा. चार्यरुकमुक्तार्थमेव प्रकाशयति । रक्तघट इति । तयोविरोधादिति ॥ नचोकमतीत ध्वंसादिविषयक- स्वे मध्ये रफेऽपि तथा प्रत्ययापत्तिः ध्वंसादिरूपविषयसत्त्वादिति वाच्यं ध्वंसादिसमानाधिकरणं यत्प्रतियोगि- सजातीयं तदसमानकालीनाधिकरणस्यैव ध्वंसादिसंवन्धत्वस्वीकारेणान्तरार कंघटस्थातादृशत्वेन तादृश संबन्धे. न तत्र ध्वंसप्रागभावयोरसत्वात् तदा प्रत्ययापत्तेरभावात् । ननु प्रतियोगिना साकमेवाभावस्य विरोध: नतु तदधिकरणतया न चैवं घटवति घटपटोभयाभावस्य सत्त्ववति गुणादौ विशिष्टसत्त्वाभावस्य चासत्वासना विरोधिनस्सत्त्वादिति वाच्यं नवीनमते उभयाभावस्य परंपरासंबन्धेन द्वित्वामावरूपत्वेन विशिष्टाभावस्थ विशेषणविशेष्यसंबन्धाभावरूपवत्त्वेन चैकघटवति स्वाश्रययावदाश्रयत्वरूपपरंपररासंबन्धेन द्विवरूपप्र- तियोगिनः असत्त्वात् सत्त्ववति गुणादौ गुणकर्मान्यत्वसत्त्वयोः सामानाधिकरण्यरूपप्रतियोगिनः नि. रूपकतासंबन्धेनासत्त्वाच तत्र घटपटोभयं नास्ति गुणकर्मान्यत्व विशिष्टसत्ता नास्तीति प्रतीत्युत्पत्ती बा. भकाभाव इति नवीनमतमुपन्यस्यति ॥ नव्यास्त्विति ॥ यद्वा अभावमावस्य न तादृशाधिकरणतया विरोधः गौरवात् किंतु वैशिष्ट्यव्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकामावस्यैव तस्य प्रतियोगिना सह विरोधित्वे उक्कदोषापत्तेः तदनवच्छिन्नप्रतियोगिता काभावस्य तु केवलप्रतियोगिना सहै। विरोधः स्वीक्रिय. ते लाघवात् एवंचान्तराझ्यामे रक्तरूपप्रतियोग्यसत्त्वेन तत्र जायमानायाः रक्तरूपं नास्तीति प्रतीतेः र कात्यन्ताभावविषयकत्वे बाधकाभावात ध्वंसप्रागभावाभ्यामत्यन्ताभावस्य विरोधस्सुदूरपराहत इति नवीनमतमुपन्यस्यति ॥ नव्यास्त्विति ॥ आहुरित्वस्वरसोवनं तदीजन्त्वन्तराश्याने घटे उभय. मञ्जूषा. सत्वप्रागभावस्वात्यन्ताभावत्वात्मकानुयोगितासु अन्योन्याभावत्वात्मकानुयोगिताब्यावर्तकवलक्षण्यस्वीकारे तेन रूपेण अथवा ध्वंसप्रागभावयोः संसर्गावच्छिन्नम्नतियोगिताकत्वस्वीकारेण घटो नास्ति श्यामो नास्ति रक्तो नास्तीत्यादिषु प्रतीतिषु संयोगसमवायादिसंबन्धावच्छिन्नत्वेन प्रतियोगितावगाहनादेव नायं पट इत्यायन्योन्याभावत्वावगाहिप्रतीतिबैलक्षण्यनिर्वाहे तिसूणां अनुयोगितानां तादात्म्य संबन्धवच्छिन्नप्रति- दिनकरीयम् स्वादित्यत भइ ॥श्यामघट इति । तत्रेति ॥ ध्वंसप्रागभाषयोरियर्थः । अत्यन्ताभावेन स. हेति शेषः । तथा च नव्यमते पूर्वपक्षिकथितशङ्कायामिष्टापत्तिरेवेति भावः । युक्त चैतत कथा रामरुद्रीयम्. भित्रायः । सिद्धान्तिनस्तु तथात्वे मानाभाव' इत्याशय इति ध्येयम् । पूर्वपक्षिकथिताशङ्काया मिति ॥ घटकालस्य घटाभावसम्बन्धाधटकत्वेऽपि घटप्रागभावादिकाले 'पात्यन्ताभाव यापत्तिरिति