पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रमा स्वेन च ताशभेद निरुतोमयसंयन्धेनोभयरवावछिन्न प्रतियोगितामिशिष्टत्वेनातिम्माप्तिवारणाय स्वावच्छे- दकाश्रयनिष्ठाधिकरणतानिरूपकत्वस्य संसर्गपटकस्वमपहाय स्वायच्छेदकाचविष्टनाधिकरणतानिरूपकत्वं निवे शितं एवंच धटपटोभयं न घटपटोभयमिति प्रतीत्यभावेनोभयत्वावच्छिन्न प्रतियोगिताकामाचे तत्प्रतियोगि. सावच्छेदकीभूतोभयत्वावच्छिन्नाधिकरणतानिरूपकत्वाभाषान्नातिच्यातिः समनियत्ताभावानां भेदाभिप्रायणदं लक्षणं अन्यथा घटान्योन्याभावस्य घटस्वाभावाभिन्नतया घटत्वाभावस्य ताहशोभयसंबन्धन प्रतियोगितावि- शिष्टतयाऽन्योन्याभावेऽतिव्याप्तेः तेन यथाश्रुतलक्षणस्य ध्वंसाप्रतियोगित्वप्रागभावाप्रतियोगित्वघटितत्वेन सं. सर्गाभावत्वघटकान्योन्याभावघटितत्वेन च ध्वंसप्रागभायान्योन्याभावग्यक्तिभेदेन च भिन्नतया लक्षणस्थान. जुगमः पूर्वोक्तरीत्यान्यतमत्वेन ग्रहणे दुई यतेति दूषणं निरस्तम् । अथवा स्वावच्छेदकावच्छिन्नतादात्म्या. नवच्छिन्नप्रतियोगिताकत्वसंबन्धेन प्रतियोगिताविशिष्टत्वमत्यन्ताभावत्वं तेन प्रथमकरूपे तद्गुणाम्यत्वप्रकारक प्रमाविशेष्यत्वाभावादतिव्याप्तिरिति दूषणं निरस्तमिति व्याचक्षुः । नन्वत्यन्ताभावस्य नित्यत्वे घटवति मजूषा. साभावत्वमन्योन्याभावभिन्नाभावत्वं ध्वंसे भागभावेऽन्योन्याभावे चातिव्याप्तिधारणाय तान्ति वि शेषणानि । ननु पूर्वोक्तरीत्या घटात्मक प्रागभावप्रतियोगित्वादेव न घटनागभावेऽतिव्याप्तिः । एवं घटा. स्मकध्वंसप्रतियोगित्वादेव घटध्वंसे नातिव्याप्तिरिति प्रागभावाप्रतियोगित्वध्वंसाप्रीतयोगित्वयोरन्यत- रविशेषणस्य चैयर्थ्यम् । नच भावभिन्न प्रागभावाप्रतियोगित्वं भावभिन्नध्वंसाप्रतियोगित्वं च विवक्ष्यतामिति पाच्यम् । परस्परविशेषणसार्थकत्वाय तन्निवेशस्यायुक्तत्वात् यदिच घटात्यन्त भावे घटात्मकध्वंसप्रागभायप्र- तियोगिन्यव्याप्तिवारणाय तद्विशेषणमावश्यकमिति मन्यते तदा घटध्वंसात्यन्ताभावे तस्त्रागभावात्यन्ताभाचे च अव्याप्तिरिति चेत्र प्रागभावत्वनिरूपितप्रतियोगिताशून्यत्वस्य प्रागभावत्वाचच्छिनिरूपितप्रतियोगिता. शून्यत्वस्य वा प्रागभावाप्रतियोगित्वपदार्थत्वात् ध्वंसत्वनिरूपितप्रतियोगिताशून्यत्वस्य ध्वंसत्वावच्छिन्न- निरूपितप्रतियोगिताशून्यत्वस्य वा ध्वंसाप्रतियोगित्वपदार्थत्वाच सर्वानुपपत्तिपरिहारात् । ननु किमिदं तादृशप्रतियोगिताशून्यत्वं न तावत्तादृशप्रतियोगित्वप्रतियोगिकाभाववत्वं तादृशप्रतियोगिताभदमादाय प्राग- भावेऽतिव्याप्तेः नापि तदत्यन्ताभाववत्वं आत्माश्रयात् उच्यते नेह भावाभावसाधारण नास्तीत्यादिप्रतीति- गोचरीभूतमनुयोगिताविशेषरूपमखण्डोपाधिरूपं चात्यन्ताभावत्वं निरुच्यते किन्तु तथ्यावृत्तं तत्रचानुयोगि- ताविशेषादिरूपस्वात्यन्ताभावत्वस्य घटकत्वेऽपि न क्षतिः नचैवं विलक्षणानुयोगिताश्रयत्वे सां भावभिन्नत्वमेव भावच्यावृत्तं अत्यन्ताभावत्वमित्युच्यतामिति वाच्यम् : घटध्वंसात्यन्ताभावो नास्ति घट- प्रागभावात्यन्ताभावो नास्तीत्यादिप्रतीत्या ध्वंसनागभावयोरपि तादृशात्यन्ताभावत्वसत्वासघावृत्तस्यैवेह निर्वाच्यत्वादिति सर्व चतुरश्रम् । अन्योन्याभावभिनाभावत्वात्मकस्य संसर्गाभावत्वरूपविशेष्यदलस्य नि: ष्कर्षस्तु पूर्वोक्तरीत्या बोध्यः । अत्र उक्तप्रायमपि किश्चित्पुनरुच्यते घटो भविष्यत्ति घटो वस्तः घटो ना- स्तोत्यादिषु प्रतियोग्युपरक्ताभावचुद्धिधु भावाभावसाधारणमनुयोगिताविशेषरूपं प्रागभावत्व ध्वंसत्यमत्यान्ता. भावत्वं च भासते नतु विनाश्यभावस्वादिरूपं तत्त्रयं तथाहि घटो भविष्यतीति प्रतीतो वर्तमानकालीनो यो विनाश्यभावः तत्प्रतियोगित्वं न घटे प्रकारः तत्र भावभिन्नत्वरूपाभावत्वस्य प्रवेशे घटकाले घटध्वंसो भावष्यतीत्यनापत्तेः तदप्रवेशे वर्तमानकालीनो यो विनाशी घटः तत्प्रतियोगित्वस्य घटप्रागभावे सत्त्वात् घटकाले घटनागभावो भविष्यतीति प्रतीत्यापत्तेः ममतु वर्तमाननिष्टं यत् घटप्रागभावत्वं "तनिरूपिसप्रति योगित्वस्य प्रकारत्वानानुपपत्तिः। नच विनाशित्वावच्छिन्ननिरूपित्तप्रतियोगिस्वस्य प्रकारत्वोचो ममापि ना- नुपपत्ति : यनिरूपितप्रागभावत्वं यत त्वभिमतं तनिष्ठप्रतियोगितानिरूपकतायाः तन्निष्ठाया विनाशित्वाच. च्छिन्नत्वाङ्गीकारादिति वाच्यम् । प्रतियोगितानिरूपकतावच्छेदकतया भासमानं यद्विनाशित्वं तद्धटकचिना- शिवस्य प्रागभावप्रतियोगित्वात्मकत्वे विषयत्तानवस्थिते: अनुयोगिताविशेषत्वात्मकत्वे तु लापवास्तू प्रा.