पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ कारिकावली प्रभा स्य तत्र परन्तु पक्षेऽपि भिन्नत्वेनेच्छादिनिष्ठप्रकारित्वस्य हेतुत्वे स्वरूपासिद्धिप्रसङ्कन बुद्धिनिष्ठप्रकारिताया एव हेतुत्वमिति बोध- नार्थ बुद्धिनिष्ठस्वरूपसंबन्धेन प्रकारित्वस्य हेतुत्वलाभार्थ वा विशिष्टवुद्धित्वादित्युक्तमिति विभाव्यते तदा बुद्धिनिष्ठप्रकारिताया. तत्तयक्तित्वेन हेतुत्वेऽप्यननुगमेन भागासिद्धिप्रसक्त्या प्रकारितात्वेन प्रकारित्व- हेतुत्दावश्यकतया तस्येच्छादिसाधारण्येऽपि सांसर्गिकविषयत्वावच्छिन्नत्वरूपसाध्यस्यापि सत्त्वात् व्यभिचारित्वाप्रसक्त्या पूर्वोक्तप्रयोजनासंभवेन वुद्धित्वविशेषणं व्यर्थमेव तादशहेतुरास्त्विति बोधनाय विशिष्टबुद्धित्वादित्युक्तमिति ध्येयम् ॥ संयोगादीनामिति ॥ ननु गुण- गुणिनोः संयोगस्य बाधितत्वेऽपि अभावीयविशेषणत्वादिसंबन्ध एवास्तामित्यत आह ॥ आदीति ॥ आ. दिनाऽभावीयविशेषणत्वादेः परिप्रहः । तथाचाभावस्यैव दैशिकविशेषणतासंबन्धस्वीकारेण प्रकृते तदसं- भवात् गुणगुणिनोरक्याभावेन तादात्म्यस्य च बाधितत्त्वादिति भावः । केचित्तु अत्र समवायसंबन्धेन प- टत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन तन्तुवन हेतुत्वात् कार्यतावच्छेद कसंबन्धविधया समवायासद्धिः । नच समवायस्थाने स्वरूपसंबन्धं निवेश्य कार्यकारणभावः कल्पनीय इति वाच्यम् । तथासति यत्स- मवेतं कार्यमुत्पद्यते इत्यादिसमवायिकारणस्य व्यवस्था न स्यात् । नच यत्संबद्धं कार्यमुत्पद्यते तत्समवायिकारणमेवास्त्विति वाच्यं स्वरूपस्यैव प्रवेशे कपालसंबद्धघटध्वंसं प्रति कपालस्यैव समवा- यिकारणत्वप्रसङ्गादिलपि द्रष्टव्यमित्यनेन प्रकारान्तरेणा समवायसाधनमाहुः । तदसत् । अत्र कार्यत्वं न प्रागभावप्रतियोगित्वरूप प्रागभावव्यक्तिभेदेन तत्प्रतियोगित्वव्यक्तीनामपि भिन्न भिन्नतया एकैकप्रतियो- गिरवघटितलक्षणकरणे अन्यत्रातित्याप्त्यापतेः । नहि प्रागभावप्रतियोगितात्वेनानुगमस्संभवति प्रागभाव- त्वस्यै कस्य अभावात् अतिरिक्तानुगतप्रागभावत्वस्वीकारे तु तदपेक्षया सकलकार्येषु अतिरिक्तानु- गतकार्यत्वाङ्गीकारस्यैवाचितत्वात् नचेष्टापतिः । समवायस्यातिरिक्तत्वसाधनार्थमतिरिक्तकार्यवस्वीकारा- पत्त्या महागौरवात् । किंतु स्वनिष्ठमहाकालभेदवत्त्वस्वरूपकालिकैतत्रितयसंबन्धेन सत्ताव त्वमेवानुगतं का. यत्वलक्षणघटकं तथाचैतत्वितयसंबन्धेन सत्ताविशिष्टं यत् तत्समवायिकारणं इति लक्षणं पर्यवसन्नम् । कार्यतावच्छेदकसंबन्धकोटौ समवायस्थाप्रविष्टत्वात् कार्यतावच्छेदकसंबन्धविधया समवायसिद्धरणामा- शिकत्वादिति । वस्तुतस्तु प्रतियोगितासंबन्धेनाश्रयनाशाजन्यरूपनाशं प्रति स्वानुयोगिसमवे तत्वसंबन्धेन विलक्षणतेजस्संयोगस्य हेतुत्वं तत्र समवायानङ्गीकारे खानुयोगिसंबद्धत्वसंबन्धेन हेतुत्वं वाच्यम् । तत्र स्वानुयोगिघटादिना रूपस्य न स्वरूपसंवन्धः तस्य नाशात् अतएव न कालिका विद्यमान- स्यैव कालिकसंवन्धस्वीकारात् संयोगस्य बाधितत्वाच । तादृशसंयोगनिष्ठकारणतावच्छेदकसंबन्धघटक- तया समवायसिद्धिष्टव्या ॥ सिद्धसाधनमिति । परस्येत्यादिः ॥ अर्थान्तरं वेति ॥ नैयायिकस्ये. त्यादिः । अनभिमतार्थसिद्धिरित्यर्थः । ननु उक्तानुमानादितरवाधादिसहकृतादतिरिक्तसमवायसिद्धावपि त. स्यैकत्वे मानाभाव इत्यत आह ॥ लाघवादिति ॥ तथाच लाघवज्ञानराहकृतात् इतरबाधादिसहकृतात् नि- मजूषा. टादिविशेष्यताभेदेन भेदादेकास्मिन् बहुविषयताकल्पनापेक्षया बहुप्वेककविषयताकल्पनस्य गुरुत्वाभावात् एतेन घटपटकुज्यकुसूलानीत्याकारकसमूहालम्बनप्रतीतौ एकत्यामेव नानास्वरूपाणां संयन्धत्वकल्पने गौरव- मित्यपि परास्तम् । तत्रापि चतसृणां संसर्गतानां एकस्मिन् त्वया स्वीकारेण चतसृषु व्याक्तपु ए- कैकस्यास्संसर्गतायास्स्वीकारे गौरवाभावात् तथाचातिरिक्त समवायकल्पनाप्रयुक्तगौरवं परमातरिच्यते अतस्समवायो न प्रामाणिक इति चेदुच्यते अस्ति तावदयं घटोऽयं घट इति ज्ञानादिमे घटा इति ज्ञानस्य प्रत्यक्षरूपस्य शाब्दरूपस्य वा वैलक्षण्यमानुभाविकं न तदपहवमर्हति तच्च समूहालम्वने विशेष्यताभेदेन प्र. कारतानां भेदः न विमे घटा इति ज्ञाने इति स्वीकारेणैव निवहति । ततश्च तस्मिन् ज्ञाने नाना- विशेष्यतानिरूपितैकैव प्रकारता तन्निरूपिकाच संसर्गता समवायस्वाकर्तृभिरकैव स्वीकायां स्वरूपसंवन्ध- वादिभिस्तु तत्तद्यक्तिस्वरूपात्मकविषयभेदाद्भिन्ना एव . संसर्गतास्स्वीकियेरन् इति व्यक्तमिदं गौरवं एवं