पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १२५ - प्रभा. स्य विशेषणीयतयाऽसंभवानवकाशात् अन स्वभिन्नलिजेत्यत्र लिङ्गपदं व्याप्तिपक्षधर्मतावालिङ्गपरं अन्यथाऽयं विशेषस्तद्विशेषाद्भिन्नः प्रमेयत्वात् घटत्वाचेति अव्याप्त्यपक्षधर्मतावल्लिङ्गविशेष्यकतादृशज्ञा. नत्वावच्छिन्नजनकतानिरूपितजन्यताश्रयानुमिातनिरूपितानरुक्तोद्देश्यत्वस्य खस्मिन् सत्त्वेन तादृशभेदकूट• वत्त्वाभावात असंभवापत्तेः । एवंच स्वभिन्नत्वसामानाधिकरण्यसंवन्धानवाच्छन्नव्याप्यत्वपक्षधर्मत्वतात्त्रित- योपलाक्षतालावशेष्यकव्याप्तिप्रकारकज्ञानत्वावच्छिन्न कारणतानिहापेतकार्यतावच्छेदकस्वसजातीयभेदनिष्ट-- विधेयतानिरूपितोद्देश्यताश्रयो यद्यत् स्वं तत्तद्वयक्तित्वावाच्छन्नप्रतियोगिताकभेदकूटवत्त्वमिति फलितम् । अ. अ कदाप्यननुमिताङ्कुरादौ समवाये चातिव्याप्तिवारणाय स्वतोव्यावृत्तत्वमपि लक्षणे निवेशनीयम् । अत्र स्वलिङ्गजन्यस्वविशेषणे प्रयोजनाभावात् स्वसजातीयभेदविधेयकानुमितिविषयत्वमेव स्वतोठया. वृत्तकत्वं निवेशनीयमिति मूलार्थः । वस्तुतस्तु स्वतोव्यावृत्तकत्त्वविशेषणस्य स्वत्वघाटिततया प्र. त्येकं विश्रान्तत्वेनैकैकस्वत्वघोटतलक्षणस्यान्यानाव्याप्तेः भेदकूटघटितत्वेन गौरवाच्च स्वतोव्यावृ- तत्वं परित्यज्य लाघवात् तादृशोद्देश्यताश्रयो यद्यत् स्वं तादृशोद्देश्यतासंबन्धेन स्वविशिष्टं वा य. मजूपा. राद्भिनः घटत्वादित्यकारकसमूहालम्बनात्मकानुमितिमादायासंभवापत्तिरिति चेन्मैवं यत्तो यधाश्रुतेऽयतद्दो- षवारणाय स्वसमानजातीयभेदनिष्ठावधेयतानिरूपितस्वनिष्ठोद्देश्यताकत्वं मिळितं एकविशेषणमिति वाच्यम् । तथात्रापि मिळितस्य संवन्धत्वं स्वीक्रियतां तधाच स्वभित्रालङ्गजन्यत्वस्वसमानजातीयभेदनिष्टविधेयतानि- रूपितस्वनिष्ठोद्देश्यताकत्व-एतदुभयसंबन्धन स्वविशिष्टानुमितिकाभिन्नत्वं पर्यवसन्नम् । यदिचैतद्विशेषस्ताविशेषा. द्भिन्नस्तादात्म्यनैतद्विशेषात् घटी विशेषान्तरभिन्नः घटत्वादित्याकारकस्वभिन्नघटत्वात्मकलिङ्गजन्यसमूहालम्ब- नात्मकानुमितिमादाय तद्दोषतादवस्थ्यामांत विभाव्यते तदा स्वाभन्नलिङ्गाविषयताघटितधर्मावच्छिन्नजनकता. निरूपितजन्यतावच्छेदकीभूता या स्वसमानजातीयभेदनिष्टविधयतानिरूपितखानष्ठोद्देश्यता तनिरूपकतासं. बन्धन खविशिष्टानुमितिकभिन्नत्वमेव वक्तव्यम् । विशेषणत्वपक्षेऽप्येषैव गतिरिति इदमत्रावधेयं खभिन्नलि- जन्यत्वादेविशेषणताकल्पेऽपि खविशेष्यकत्वनिवेशसार्थक्य कथंचिदुपपादयितुं शक्यमेव तथाहि एतद्विशे- घस्तद्विशषाद्भिवते तादात्म्यनैतद्विशेषात् घटो विशेषान्तराद्भिशत घटत्वादति समूहालम्बनानुमिति विशेषो द्रव्याभिन्नो निर्गुण वाद्धटो विशेषान्ताद्भन्नः घटत्वादिति समूहालम्बनानुमिति चादायासंभवापत्तिरिति खविशेष्यकत्वनिवेशनं तथासति समासे चरमनिर्दिष्टस्य उद्देश्यतया प्रथमानिर्दिष्टय विधेयतया खजातीयभेद- विधेयकत्वे स्वविशेष्यकत्वावच्छेदकत्वं लभ्यते तद्विशिष्ट खभिन्नलिङ्गजन्यत्वान्वयसंभवाच स्वभिन्नालङ्गजन्यता- वच्छेदकत्वं स्वोद्देश्यतावच्छेदकीभूतस्वसमानजातीयभेदविधेयकत्वे लभ्यते तथाच स्वभिन्नलिङ्गविषयताघटित- धर्मावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकीभूतं यत्स्वोद्देश्यकत्वावच्छेदकस्वसमानजातीयभेदविधेयकत्वं तच्छाल्यनुमितिकभिन्नत्वमिति पर्यवस्यति अयमेव ज्यायान् पक्षः नतु पूर्वोक्तः निरुक्तपरपम्रायास्संबन्ध- त्वस्य सविवादत्वात् परंतु स्वसमानजातीयभेदविधेयकानुमित्यविशेष्यत्वामित्यत्राप्ययमर्थो लभ्यते तत्रा- पि विशिष्टस्य वैशिष्टयमिति रीत्यान्वयस्वीकारे स्वसमानजातीयभेदविधेयकत्वावशिष्टनिरूपितविशे- ध्यत्तावाद्भिन्नत्वं लभ्यते तदंशे यो विधेयस्तस्यैव तविधेयकत्वविशिष्टनिरूपितविशेष्यताकिारेण विशेषो द्रव्याद्भिद्यते घटो विशेषान्तराद्भिद्यते इति समूहालम्बनानुमितिनिष्ठा या विशेषनिष्टविशेष्यतानिरूपकता तस्यां विशेषान्तरभेदविधेयकत्वस्यावच्छेदकत्वाभावात् नासंभवप्रसक्तिः नच तथापि अत्र कल्पे स्व- समानजातीयभेदविधेयकत्वे तद्विशिष्टनिरूपितविशेष्यतायां वा स्वभिन्नलिङ्गजन्यतावच्छेदकत्वं वैवाक्ष- कमेव न शाब्दमिति वाच्यम् । स्वसमानजातीयभेदविधेयकत्वविशिष्टानुमित्तौ स्वभिन्नलिङ्गजन्यावान्वय- बलात्स्वसमानजातीयभेदविधेयकत्वे तदवच्छेदकत्वलाभसंभवात् स्वभिन्नलिङ्गजन्यत्वविशिष्टानुमितिनिरूपि- तत्वस्य विशेष्यतायां भानेन स्वभिन्नलिङ्गजन्यत्वे विशेष्यतानिरूपकतावच्छेदकत्वस्य लब्धतयाप्युक्त- दोषधारणाच तजन्यतावच्छेदकीभूता या विशेष्यता तस्या एवं तज्जन्यत्वविशिष्टनिरूपितत्वाङ्गीका.