पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० कारिकावली प्रभा. नुपपत्त्या परमाणुषु खतोव्यावर्तकतथैव विशेषसिद्धिरुपेयेति भावः । ननु घटादिप्रतिद्वयणुकान्ता- मां भेदकान्यनुक्त्वा परमाणूनां भेदकथने बीजाभाव इत्याशङ्कां घटादिद्वयणुकान्तानां सावयवत्वेन भेदसि- द्धिर्भवति परमाणूनां निरवयवत्वेन भेदककथनमावश्यकमित्याशयप्रदशेनेन परिहरति ॥ घटादीनामि- त्यादिना ॥ परस्परभेद हति ।। सिध्यतीति शेषः । केषांचित् चक्षुरादिना केषांचिन्मनसाऽव- यवभेदप्रयुक्तो भेदो ज्ञातुं शक्यत इति भावः । परमाणूनां परस्परभेदसाधक इत्युपलक्षणम् । आ- काशादीनां परस्परभेदकोऽयीति बोध्यम् । तथाच परमाणूनां निरवयवद्रव्यत्वात् पारिमाण्डल्यवत्त्वाच मजूषा. इत्यादी तथा दर्शनातथाच तादृशसमुदायनिष्ट यत्स्वघटकाविशेष्यविशेषघटितत्वं तत्प्रयोजकता तादृश- समुदाय घटकस्य कस्यचिद्विशेषस्य विशेषान्तराविशेष्यस्यैव भवति अतश्चान्त्य इत्यादेः विशेषान्तररहि- तो यो विशेषः स इह विशेषशब्देन परिभाषित इत्यर्थो लभ्यत इति तदिदमभिप्रेत्योकमान् यद- पेक्षया विशेषों नास्तीत्यर्थ इति यदपेक्षयान्यो व्यावतको नास्तीत्यर्थ इत्यर्थः । व्यावर्तकधारां तदन्त्यत्वं च विशषाणामुपपादयति ॥ घटादीनामित्यादिना । केचित्तु अन्त्यत्वं निरचयवद्रव्यवृत्तित्वमेव तच्च नित्यद्र- व्यवृत्तिरियनेन सिद्धमपि विशेषान्तरशू-यत्वलाभाय पुनरुतमित्याह यदपेक्षयेति निरवयववृत्तित्वोत्कीर्तनेन विशेषान्तरशून्यत्वं कुतो लभ्यत इति नु न शङ्कयम् । कपालाद्य वयवानामेव घटादिविशेषतया विशेषाणां निरवयववृत्तित्वोक्त्या तल्लाभसंभवात् । ननु विशेषाणां निरवयववृत्तित्वोत्कीर्तनेन तदाश्रयभूतानां परमाणूनां दिनकरीयम्. दिशून्यत्वेनेतरभेदानुमितिविषयत्वेऽपि द्रव्यादरपि प्रमेयत्वादिना विशेषसजातीयत्वेऽपि न क्षतिः । रामरुदीयम्. इतरभेदेति ॥ विशेषेतर द्रव्यादिभेद इत्यथः । पदार्थविभाजकोपाधिरूपेण साजात्यप्रवेशस्य प्रयोजनमाह । द्रव्यादरपीति ॥ अथात्र स्वविशेष्यकत्वं परित्यज्यानुभित्यविषयत्वमित्यत्रानुभित्यविशेष्यत्त्वमित्युक्त्यैव सामजस्थे गुरुतरारम्भो विफल एव तावतैव घटो विशेषाद्भिद्यते कपालसमवेतत्वादित्य नुमितिमादायास- म्भववारणसम्भवात् उक्तानुमिती विशेषस्य मुख्यविशेष्यत्वाभावादिति चेन्न । स्वत्वं हि नानुगतं किंतु तत्तद्वयक्तित्वपर्यवसन्नमेव तत्रच स्वपदेन विशेषोपादानं न सम्भवति विशेषे विशेषान्तरभेदसाधने विशेषेत- रलिङ्गाभावादप्रसिद्धथापत्तेः किंतु घटादिकमेव तद्वयक्तित्वेनोपादाय लक्षणं सङ्गमनीयं तथा च स्वविशेष्यके- त्यनुक्ती विशेषो घटाद्भिद्यते गुणवद्भिन्नत्वादित्यनुमितरपि घटभिन्नलिजकत्वेन घटसजतीय प्रतियोगिकभे- दविधेयकत्वेन च तादृशानुभिती विशेषस्य मुख्यविशेष्यत्वादसम्भव एव स्यात्तदुपादाने तूक्तानुभित्तेः घ- टभिन्नलित्वेऽपि घटमुख्यविशेष्यकत्वाभावेन तामुपादाय नासंभव इति ध्येयम् । न चैवमपि विशेषका- लानो घटो घटान्तराद्भिद्यते एतत्कपालसमवेतत्वादित्यनुमितेरपि घटविशेष्यकत्वात् घटामिनलिङ्गकत्वात् ख. सजातीयघटान्तरभेदावधेयकत्वाच्च तद्विषयत्वस्थ व विशेषे सत्त्वादसम्भवतादवस्यमिति वाच्यम् । अवि- घयत्वमित्यस्य मुख्यविशेष्यताशून्यतार्थकत्वात् । इत्थं व स्वविशेष्यकत्वानुपादाने घटो विशेषाद्भिद्यते कपालसभेवतत्वादित्यनुमितिमादायासम्भवासम्भवेयुक्तरीत्या घटादिकमादायासम्भववारणार्थव स्ववि- यिकत्वोपादानमिति मन्तव्यम् । अनुमितिथ मुख्यपिशेयताद्वयशून्यत्वेनापि विशेषणीया न्यथा विशेषो घटाद्भिद्यते घरच पटाद्भियते गुणशून्यत्वात् घटत्वाचेति समूहालम्बनानुमितिमादाय स्वपदेन घटव्यक्तिगादायासम्भवप्रसङ्गात् । यद्यपि समवायस्य पदार्थविभाजकोपाधिरूपेण स्वसजा. तीयान्तराभावेन स्वस जातीयभेदानुमिती मुख्यविशेष्यत्वाभावेन समवाये विशेषलक्षणातिव्याहिः सज्यते, न च समवायेऽपि द्वित्वादिना समवायभेदसत्त्वात्तादृशभेदानुमितिविशेष्यत्वस्य समवाये सत्त्वा- नातिध्यातिरिति वाच्यम् तथा सति विशेषेऽपि विशेषघटोभयभेदसत्वेन तादृशभेदानुमितिविशेष्यत्वमा दायासम्भवापत्त्या भेदे व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वविशेषणस्यावश्यकत्वात् । तथापि ता. 2